मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ६

3
सप्तमस्कन्धः · 6

च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम्

जनमेजय उवाच

च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ ।

वचनं च कथं सत्यं जातं तस्य महात्मनः

॥१॥

मानुषस्य बलं कीदृग्देवराजबलं प्रति ।

निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ

॥२॥

धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो ।

चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा

॥३॥

व्यास उवाच

निशामय महाराज चरितं परमाद्भुतम् ।

च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत

॥४॥

सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः ।

विजहार प्रसन्नात्मा देवकन्यामिवापरः

॥५॥

कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् ।

पतिं प्राह वेपमाना वचनं रुदती प्रिया

॥६॥

राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने ।

मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया

॥७॥

गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् ।

किं करोति सुकन्या सा प्राप्य नाथं तथाविधम्

॥८॥

पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि ।

तामानय विशालाक्षीं तपःक्षामां मदन्तिके

॥९॥

पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् ।

अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम्

॥१०॥

शर्यातिरुवाच

गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् ।

प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम्

॥११॥

व्यास उवाच

एवमुक्त्व तु शर्यातिः कामिनीं शोकसंकुलाम् ।

जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः

॥१२॥

गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः ।

नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम्

॥१३॥

तं विलोक्यामराकारं विस्मयं नृपतिर्गतः ।

किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम्

॥१४॥

निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः ।

कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः

॥१५॥

दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने ।

कुले कलङ्कः सुमहाननया मानवे कृतः

॥१६॥

धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता ।

सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम्

॥१७॥

मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये ।

वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल

॥१८॥

कन्या योग्याय दातव्या पित्रा सर्वात्मना किल ।

तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया

॥१९॥

हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् ।

स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः

॥२०॥

मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया ।

लोकापवादो बलवान्दुस्त्याज्या स्नेहशृङ्खला

॥२१॥

किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः ।

सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता

॥२२॥

सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके ।

गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा

॥२३॥

किं विचारयसे राजंश्चिन्ताव्याकुलिताननः ।

उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम्

॥२४॥

एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम ।

मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव

॥२५॥

व्यास उवाच

इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः ।

प्रोवाच वचनं राजा पुरःस्थां तनयां ततः

॥२६॥

राजोवाच

क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः ।

कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम

॥२७॥

मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि ।

नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि

॥२८॥

सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् ।

किं कृतं दुष्कृतं कर्म कुलटाचरितं किल

॥२९॥

निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना ।

दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम्

॥३०॥

विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः ।

गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात्

॥३१॥

च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः ।

अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः

॥३२॥

यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम ।

ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः

॥३३॥

नाहं तव सुता तात तथा स्यां पापकारिणी ।

यथा त्वं मन्यसे राजन् विमूढो रूपसंशये

॥३४॥

प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः ।

आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम्

॥३५॥

इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा ।

प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम्

॥३६॥

राजोवाच

कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् ।

नयने च कथं प्राप्ते क्व गता ते जरा पुनः

॥३७॥

संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् ।

वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम्

॥३८॥

च्यवन उवाच

नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ ।

उपकारः कृतस्ताभ्यां कृपया नृपसत्तम

॥३९॥

मया ताभ्यां वरो दत्त उपकारस्य हेतवे ।

करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ

॥४०॥

एवं मया वयः प्राप्तं लोचने विमले तथा ।

स्वस्थो भव महाराज संविशस्वासने शुभे

॥४१॥

इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः ।

सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना

॥४२॥

अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् ।

याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय

॥४३॥

मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् ।

तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे

॥४४॥

इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै ।

पाययिष्यामि राजेन्द्र सोमं सोममखे तव

॥४५॥

ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः ।

च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्

॥४६॥

सम्मान्य च्यवनं राजा जगाम नगरं प्रति ।

सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल

॥४७॥

प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् ।

कारयामास शर्यातिर्यज्ञायतनमुत्तमम्

॥४८॥

समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ ।

भार्गवो याजयामास च्यवनः पृथिवीपतिम्

॥४९॥

वितते तु तथा यज्ञे देवाः सर्वे सवासवाः ।

आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः

॥५०॥

इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ ।

पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ

॥५१॥

चिकित्सकौ न सोमार्हौ केनानीताविहेति च ।

नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे

॥५२॥

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।

शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम्

॥५३॥

तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ ।

न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते

॥५४॥

न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः ।

केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ

॥५५॥

निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः ।

ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया

॥५६॥

प्रेरितोऽसौ मया राजा मखाय मघवन्किल ।

एतदर्थं करिष्यामि सत्यं मे वचनं विभो

॥५७॥

आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः ।

तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया

॥५८॥

इन्द्र उवाच

चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः ।

उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम्

॥५९॥

च्यवन उवाच

अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् ।

वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ

॥६०॥

एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप ।

ग्रहं तयोर्भार्गवतिग्मतेजाः संग्राहयामास तपोबलेन

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥