मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १४

3
सप्तमस्कन्धः · 14

वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम्

व्यास उवाच

विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः ।

प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा

॥१॥

मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः ।

नागताः सर्व एवैते वसिष्ठेन निवारिताः

॥२॥

गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः ।

आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः

॥३॥

तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः ।

नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम

॥४॥

पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि ।

प्रापयामि महाराज वाञ्छितं ते करोम्यहम्

॥५॥

इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः ।

ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम्

॥६॥

दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् ।

यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः

॥७॥

पुण्येन मम राजेन्द्र बहुकालार्जितेन च ।

याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये

॥८॥

व्यास उवाच

इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः ।

उत्पपात यथा पक्षी वेगवांस्तपसो बलात्

॥९॥

उत्पत्य गगने राजा गतः शक्रपुरीं यदा ।

दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक्

॥१०॥

कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः ।

गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः

॥११॥

सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् ।

ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत्

॥१२॥

श्वपच क्व समायासि देवलोके जुगुप्सितः ।

याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम्

॥१३॥

इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन ।

निपपात तदा राजा क्षीणपुण्यो यथामरः

॥१४॥

पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् ।

पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम्

॥१५॥

तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः ।

श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम्

॥१६॥

वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः ।

मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात्

॥१७॥

विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् ।

विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम्

॥१८॥

तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः ।

तत्राजगाम सहसा मुनिं प्रति तु गाधिजम्

॥१९॥

किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः ।

अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते

॥२०॥

विश्वामित्र उवाच

स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो ।

नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम्

॥२१॥

व्यास उवाच

तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः ।

तपोबलं विदित्वोग्रमोमित्योवाच वासवः

॥२२॥

दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् ।

आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा

॥२३॥

गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः ।

विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत्

॥२४॥

हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् ।

पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात्

॥२५॥

अयोध्याधिपतिः क्रीडां चकार सह भार्यया ।

रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः

॥२६॥

अतीतकाले युवती न सा गर्भवती ह्यभूत् ।

तदा चिन्तातुरो राजा बभूवातीव दुःखितः

॥२७॥

वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् ।

अनपत्यत्वजां चिन्तां गुरवे समवेदयत्

॥२८॥

दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः ।

उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद

॥२९॥

अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम ।

कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान्

॥३०॥

कलविंकास्त्विमे धन्या ये शिशुं लालयन्ति हि ।

मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम्

॥३१॥

व्यास उवाच

इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः ।

सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः

॥३२॥

वसिष्ठ उवाच

सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते ।

अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम्

॥३३॥

तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् ।

समाराधय यत्नेन स ते कार्यं करिष्यति

॥३४॥

वरुणादधिको नास्ति देवः सन्तानदायकः ।

तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति

॥३५॥

दैवं पुरुषकारश्च माननीयाविमौ नृभिः ।

उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम्

॥३६॥

न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः ।

कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम

॥३७॥

इति तस्य वचः श्रुत्वा गुरोरमिततेजसः ।

प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः

॥३८॥

गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः ।

ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः

॥३९॥

एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः ।

कृपयाभून्महाराज प्रसन्नमुखपङ्कजः

॥४०॥

हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः ।

वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव

॥४१॥

राजोवाच

अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् ।

ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः

॥४२॥

नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च ।

स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम्

॥४३॥

वरुण उवाच

पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः ।

सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम्

॥४४॥

यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः ।

पशुबन्धेन तेनैव ददामि नृपते वरम्

॥४५॥

राजोवाच

देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप ।

पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते

॥४६॥

वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद ।

शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम्

॥४७॥

वरुण उवाच

भविष्यति सुतः कामं राजन् गच्छ गृहाय वै ।

सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः

॥४८॥

व्यास उवाच

इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ ।

भार्यायै कथयामास वृत्तान्तं वरदानजम्

॥४९॥

तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् ।

पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता

॥५०॥

काले गतेऽथ सा गर्भं दधार वरवर्णिनी ।

बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम्

॥५१॥

कारयामास विधिवत्संस्कारान्नृपतिस्तदा ।

मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने

॥५२॥

ताराग्रहबलोपेते पुत्रं देवसुतोपमम् ।

पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः

॥५३॥

चकार जातकर्मादौ ददौ दानानि भूरिशः ।

राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः

॥५४॥

बभूव परमोदारो धनधान्यसमन्वितः ।

विशेषदानसंयुक्तो गीतवादित्रसंकुलः

॥५५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥