मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २

3
सप्तमस्कन्धः · 2

शर्यातिराजवर्णनम्

ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् ।

सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः

॥१॥

शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् ।

यथा श्रुतं मया पूर्वं नारदाद्ऋषिसत्तमात्

॥२॥

एकदा नारदH श्रीमान्सरस्वत्यास्तटे शुभे ।

आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः

॥३॥

प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा ।

ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात्

॥४॥

विधिवत्पूजयित्वा तं उक्तवान्वचनं त्विदम् ।

पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै

॥५॥

कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् ।

राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले

॥६॥

तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् ।

श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम्

॥७॥

समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् ।

इति पृष्टो मया राजन्नारदः परमार्थवित्

॥८॥

उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् ।

नारद उवाच ।

शृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम्

॥९॥

पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् ।

ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः

॥१०॥

विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः ।

सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान्

॥११॥

तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा ।

सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम्

॥१२॥

पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् ।

मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि

॥१३॥

तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः ।

त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल

॥१४॥

देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः ।

पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी

॥१५॥

देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु ।

तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः

॥१६॥

तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः ।

नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः

॥१७॥

तेषां नामानि राजेन्द्र शृणुष्वैकमनाः पुनः ।

इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च

॥१८॥

नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः ।

करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः

॥१९॥

इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत ।

तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान्

॥२०॥

नवानां वंशविस्तारं संक्षेपेण निशामय ।

शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम्

॥२१॥

नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् ।

धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः

॥२२॥

धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत ।

संग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा

॥२३॥

शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः ।

सुकन्या च तथा पुत्री रूपलावण्यसंयुता

॥२४॥

च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी ।

मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह

॥२५॥

विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् ।

जनमेजय उवाच ।

सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया

॥२६॥

यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना ।

कुरूपा गुणहीना वा नारी लक्षणवर्जिता

॥२७॥

पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति ।

ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः

॥२८॥

कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा ।

सूत उवाच ।

इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै

॥२९॥

द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव ।

व्यास उवाच ।

वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः

॥३०॥

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ।

राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः

॥३१॥

पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः ।

एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी

॥३२॥

पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी ।

नगरान्नातिदूरेऽभूत्सरो मानससन्निभम्

॥३३॥

बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् ।

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्

॥३४॥

दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् ।

पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम्

॥३५॥

पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः ।

सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम्

॥३६॥

वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् ।

जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा

॥३७॥

क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः ।

यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः

॥३८॥

जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् ।

पलाशनिम्बखदिरबिल्वामलकमण्डितम्

॥३९॥

बभूव कोकिलारावः केकास्वनविराजितम् ।

तत्समीपे शुभे देशे पादपानां गणावृते

॥४०॥

भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः ।

ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः

॥४१॥

कृत्वा दृढासनं मौनमाधाय जितमारुतः ।

इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः

॥४२॥

जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् ।

सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः

॥४३॥

कालेन महता राजन् समाकीर्णः पिपीलिकैः ।

तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः

॥४४॥

कदाचित्स महीपालः कामिनीगणसंवृतः ।

आजगाम सरो राजन् विहर्तुमिदमुत्तमम्

॥४५॥

शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले ।

क्रीडासक्तो महीपालो बभूव कमलाकरे

॥४६॥

सुकन्या वनमासाद्य विजहार सखीवृता ।

सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा

॥४७॥

सर्वाभरणसंयुक्ता रणच्चरणनूपुरा ।

चंक्रममाणा वल्मीकं च्यवनस्य समासदत्

॥४८॥

क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः ।

ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी

॥४९॥

किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे ।

गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी

॥५०॥

सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा ।

विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी

॥५१॥

तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः ।

तामभाषत कल्याणीं किमेतदिति भार्गवः

॥५२॥

दूरं गच्छ विशालाक्षि तापसोऽहं वरानने ।

मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि

॥५३॥

तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै ।

किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने

॥५४॥

दैवेन नोदिता भित्त्वा जगाम नृपकन्यका ।

क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च

॥५५॥

चुक्रोध स तथा विद्धनेत्रः परममन्युमान् ।

वेदनाभ्यर्दितः कामं परितापं जगाम ह

॥५६॥

शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् ।

विशेषेण तु भूपस्य सामात्यस्य समन्ततः

॥५७॥

गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा ।

ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत्

॥५८॥

सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् ।

चिन्तयामास भूपालः कारणं दुःखसम्भवे

॥५९॥

विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा ।

गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम्

॥६०॥

सरसः पश्चिमे भागे वनमध्ये महातपाः ।

च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम्

॥६१॥

केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे ।

तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः

॥६२॥

तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः ।

केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः

॥६३॥

ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् ।

कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह

॥६४॥

इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः ।

मनोवाक्कायनितं न विद्मोऽपकृतं वयम्

॥६५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥