मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २४

3
सप्तमस्कन्धः · 24

हरिश्चन्द्रचिन्तावर्णनम्

शौनक उवाच

ततः किमकरोद्राजा चाण्दालस्य गृहे गतः ।

तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे

॥१॥

सूत उवाच

विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः ।

विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम्

॥२॥

असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा ।

दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम्

॥३॥

इष्टबन्धुवियोगार्तमानीय निजपक्कणे ।

निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः

॥४॥

निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे ।

अन्नपाने परित्यज्य सदा वै तदशोचयत्

॥५॥

तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः ।

मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः

॥६॥

उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् ।

रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति

॥७॥

तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः ।

तात तातेति भाषन्तं तथा सम्बोधयिष्यति

॥८॥

न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् ।

राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः

॥९॥

ततश्चाण्डालता चेयमहो दुःखपरम्परा ।

एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम्

॥१०॥

निनाय दिवसान् राजा चतुरो विधिपीडितः ।

अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः

॥११॥

चाण्डालेनानुशिष्टश्च मृतचैलापहारणे ।

क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः

॥१२॥

काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् ।

तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित्

॥१३॥

इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् ।

वीरबाहोरयं दण्ड इति घोषस्व सर्वतः

॥१४॥

सूत उवाच

कस्मिंश्चिदथ काले तु मृतचैलापहारकः ।

हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः

॥१५॥

चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा ।

राजा तेन समादिष्टो जगाम शवमन्दिरम्

॥१६॥

पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् ।

शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम्

॥१७॥

श्मशानं घोरसन्नादं शिवाशतसमाकुलम् ।

गृद्ध्रगोमायुसंकीर्णं श्ववृन्दपरिवारितम्

॥१८॥

अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसंकुलम् ।

अर्धदग्धशवास्यानि विकसद्दन्तपंक्तिभिः

॥१९॥

हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः ।

नानामृतसुहृन्नादं महाकोलाहलाकुलम्

॥२०॥

हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे ।

हाप्यते भागिनेयार्ह हा मातुल पितामह

॥२१॥

मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव ।

इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम्

॥२२॥

ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् ।

अग्नेश्चटचटाशब्दो भैरवो यत्र जायते

॥२३॥

कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् ।

स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत

॥२४॥

हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् ।

हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम्

॥२५॥

ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः ।

विना धर्मं मनुष्याणां जायते न शुभं क्वचित्

॥२६॥

यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि ।

इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः

॥२७॥

मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् ।

लकुटाकारकल्पश्च धावंश्चापि ततस्ततः

॥२८॥

अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः ।

इदं मम इदं राज्ञ इदं चाण्डालकस्य च

॥२९॥

इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः ।

जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः

॥३०॥

चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः ।

नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन्

॥३१॥

नानाशवौदनकृतक्षुन्निवृत्तिपरायणः ।

तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः

॥३२॥

न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः ।

एवं द्वादश मासास्तु नीता वर्षशतोपमाः

॥३३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥