मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २६

3
सप्तमस्कन्धः · 26

हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम्

सूत उवाच

ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः ।

अत्रोपविश्यतां बाले पापस्य पुरतो मम

॥१॥

शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः ।

एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः

॥२॥

न जानाति नृपः पत्नीं सा न जानाति भूपतिम् ।

अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति

॥३॥

स्त्र्युवाच

चाण्डाल शृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे ।

मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात्

॥४॥

तं दहामि हतं यावदानयित्वा तवान्तिकम् ।

तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम्

॥५॥

तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति ।

सा जगामातिदुःखार्ता विपलन्ती सुदारुणम्

॥६॥

भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ।

हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः

॥७॥

कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ।

श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि

॥८॥

(राजन्नद्य स्वबालं तं पश्यसीह महीतले ।

रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ।

) तस्या विलापशब्दं तमाकर्ण्य स नराधिपः ।

शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा

॥९॥

तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः ।

चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम्

॥१०॥

सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् ।

नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम्

॥११॥

भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् ।

नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः

॥१२॥

अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् ।

दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम्

॥१३॥

नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः ।

राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ

॥१४॥

विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः ।

विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः

॥१५॥

मृणालपादो गम्भीरनाभिरुद्धतकन्धरः ।

अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः

॥१६॥

जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना ।

सूत उवाच ।

एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम्

॥१७॥

स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् ।

सोऽप्युवाच च वत्सो मे दशामेतामुपागतः

॥१८॥

नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् ।

विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः

॥१९॥

ततो राज्ञी महादुःखावेशादिदमभाषत ।

राज्ञ्युवाच ।

हा वत्स कस्य पापस्य त्वपध्यानादिदं महत्

॥२०॥

दुःखमापतितं घोरं तद्रूपं नोपलभ्यते ।

हा नाथ राजन् भवता मामपास्य सुदुःखिताम्

॥२१॥

कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना ।

राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः

॥२२॥

हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया ।

इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा

॥२३॥

प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् ।

कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः

॥२४॥

ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह ।

सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम्

॥२५॥

मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ।

चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम्

॥२६॥

विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ ।

राजोवाच ।

हा वत्स सुकुमारं ते वदनं कुञ्चितालकम्

॥२७॥

पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते ।

तात तातेति मधुरं ब्रुवाणं स्वयमागतम्

॥२८॥

उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् ।

कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना

॥२९॥

ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति ।

न वालं मम सम्भूतं मनो हृदयनन्दन

॥३०॥

(मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।

) गतं राज्यमशेषं मे सबान्धवधनं महत् ।

(हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।

) अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम्

॥३१॥

निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना ।

एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः

॥३२॥

परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह ।

ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत्

॥३३॥

अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते ।

विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः

॥३४॥

तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा ।

दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः

॥३५॥

श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः ।

विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम्

॥३६॥

प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता ।

वीक्षती सा तदापतन्मूर्च्छया धरणीतले

॥३७॥

प्राप्य चेतश्च शनकैः सा गद्गदमभाषत ।

धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित

॥३८॥

येनायममरप्रख्यो नीतो राजा श्वपाकताम् ।

राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम्

॥३९॥

प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः ।

नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा

॥४०॥

चामरव्यजने वापि कोऽयं विधिविपर्ययः ।

यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः

॥४१॥

स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् ।

सोऽयं कपालसंलग्ने घटीपटनिरन्तरे

॥४२॥

मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे ।

वसानिष्पन्दसंशुष्कमहापटलमण्डिते

॥४३॥

भस्माङ्गारार्धदग्धास्थिमज्जासंघट्टभीषणे ।

गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे

॥४४॥

चिताधूमायतपटे नीलीकृतदिगन्तरे ।

कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे

॥४५॥

चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः ।

एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा

॥४६॥

कष्टं शोकसमाविष्टा विललापार्तया गिरा ।

राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान्

॥४७॥

तत्कथ्यतां महाभाग मनो वै मुह्यते मम ।

यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता

॥४८॥

तथैव विप्रदेवादिपूजने सत्यपालने ।

नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता

॥४९॥

यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः ।

सूत उवाच ।

इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः

॥५०॥

कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् ।

रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता

॥५१॥

स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् ।

श्रुत्वा राजा तथा वाक्यं निपपात महीतले

॥५२॥

मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः ।

हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा

॥५३॥

कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम ।

स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते

॥५४॥

मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् ।

एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः

॥५५॥

क्षणेन चेतनां प्राप्य विललापातिदुःखितः ।

राजोवाच ।

कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम्

॥५६॥

यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् ।

पत्न्युवाच ।

मया च पूजिता गौरी देवा विप्रास्तथैव च

॥५७॥

भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो ।

श्रुत्वा राजा तदा वाक्यं निपपात महीतले

॥५८॥

मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् ।

राजोवाच ।

प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम्

॥५९॥

नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् ।

चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि

॥६०॥

चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ।

नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम्

॥६१॥

तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे ।

मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम्

॥६२॥

एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ।

मम दैवानुयोगेन मृतो सोऽपि बलीयसा

॥६३॥

कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः ।

तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम्

॥६४॥

त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा ।

वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे

॥६५॥

सोऽहं सुतशरीरेण दीप्यमाने हुताशने ।

निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना

॥६६॥

न वक्तव्य त्वया किञ्चिदतः कमललोचने ।

मम वाक्यं च तन्वङ्गि निबोधाहतमानसा

॥६७॥

अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते ।

यदि दत्तं यदि हुतं गुरवो यदि तोषिताः

॥६८॥

सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया ।

इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम्

॥६९॥

यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते ।

अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः

॥७०॥

राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः ।

सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे

॥७१॥

राज्ञ्युवाच

अहमप्यत्र राजर्षे निपतिष्ये हुताशने ।

दुःखभारासहा देव सह यास्यामि वै त्वया

॥७२॥

त्वया सह मम श्रेयो गमनं नान्यथा भवेत् ।

सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद ।

श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते

॥७३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥