श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम्
देव्युवाच
मन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः
॥१॥व्यवहारदृशा सेयं विद्या मायेति विश्रुता ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम्
॥२॥साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् ।
मायाकर्मादिसहिता गिरे प्राणपुरःसरा
॥३॥लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना ।
यथा यथा भवन्त्येव मायाभेदास्तथा तथा
॥४॥उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा ।
उच्चनीचादिवस्तूनि भासयन्भास्करः सदा
॥५॥न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न ।
मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः
॥६॥वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः ।
अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा
॥७॥जीवेश्वरविभागश्च कल्पितो माययैव तु ।
घटाकाशमहाकाशविभागः कल्पितो यथा
॥८॥तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ।
यथा जीवबहूत्वं च माययैव न च स्वतः
॥९॥तथेश्वरबहुत्वं च मायया न स्वभावतः ।
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता
॥१०॥अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ।
गुणानां वासनाभेदभेदिता या धराधर
॥११॥माया सा परभेदस्य हेतुर्नान्यः कदाचन ।
मयि सर्वमिदं प्रोतमोतं च धरणीधर
॥१२॥ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च ।
ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी
॥१३॥सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् ।
पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः
॥१४॥व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः ।
स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः
॥१५॥यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता
॥१६॥न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् ।
यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत्
॥१७॥रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि ।
तथैवेशादिरूपेण भाम्यहं नात्र संशयः
॥१८॥अधिष्ठानातिरेकेण कल्पितं तन्न भासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत्
॥१९॥हिमालय उवाच
यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् ।
तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि
॥२०॥व्यास उवाच
इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः ।
ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः
॥२१॥अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा ।
अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी
॥२२॥अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् ।
द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी
॥२३॥दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः ।
विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम्
॥२४॥नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् ।
महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम्
॥२५॥तपोलोको रराटिस्तु सत्यलोकादधः स्थितः ।
इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः
॥२६॥नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः ।
मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी
॥२७॥ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः ।
रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः
॥२८॥दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता ।
सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः
॥२९॥लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः ।
प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले
॥३०॥कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः ।
नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः
॥३१॥कौमारयौवनजरा वयोऽस्य गतिरुत्तमा ।
बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो
॥३२॥राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः ।
विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम्
॥३३॥अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः ।
अतलादिमहालोकाः कट्यधोभागतां गताः
॥३४॥एतादृशं महारूपं ददृशुः सुरपुङ्गवाः ।
ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया
॥३५॥दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः ।
नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत्
॥३६॥सहस्रशीर्षनयनं सहस्रचरणं तथा ।
कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम्
॥३७॥भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् ।
ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे
॥३८॥विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् ।
स्मरणं च गतं तेषां जगदम्बेयमित्यपि
॥३९॥अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः ।
बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान्
॥४०॥अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् ।
प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः
॥४१॥बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे ।
देवा ऊचुः ।
अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान्
॥४२॥कोपं संहर देवेशि सभया रूपदर्शनात् ।
का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह
॥४३॥स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः ।
तदर्वाग्जायमानानां कथं स विषयो भवेत्
॥४४॥नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके ।
सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये
॥४५॥यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः ।
यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः
॥४६॥यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च ।
पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः
॥४७॥प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा ।
ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः
॥४८॥सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च ।
होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः
॥४९॥यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च ।
यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः
॥५०॥यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः ।
ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः
॥५१॥नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः ।
अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः
॥५२॥उपसंहर देवेशि रूपमेतदलौकिकम् ।
तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम्
॥५३॥व्यास उवाच
इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा ।
संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम्
॥५४॥पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् ।
करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम्
॥५५॥दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः ।
शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः
॥५६॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥