हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम्
व्यास उवाच
कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ ।
अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम्
॥१॥तामपृच्छन्महाराजझ् कामिनीं करुणापरः ।
पद्मपत्रविशालाक्षि किं रोदिषि वरानने
॥२॥केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे ।
काच त्वं विजने घोरे कस्ते भर्ता पिताथवा
॥३॥न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् ।
तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते
॥४॥ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि ।
विषये मम पापात्मा न तिष्ठति सुमध्यमे
॥५॥इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् ।
प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम्
॥६॥नार्युवाच
राजन् मां बाधतेत्यर्थं विश्वामित्रो महामुनिः ।
तपः करोति यद्घोरं मदर्थं कौशिको वने
॥७॥तेनाहं दुःखिता राजन् विषये तव सुव्रत ।
विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम्
॥८॥राजोवाच
स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति ।
तमहं वारयिष्यामि मुनिं तापपरायणम्
॥९॥इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ ।
नत्वा प्रणम्य शिरसा तमुवाच महीपतिः
॥१०॥स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् ।
किमर्थं ते समारम्भो ब्रूहि सत्यं महामते
॥११॥वाञ्छितं तव गाधेय करोमि सफलं किल ।
उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम्
॥१२॥विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् ।
लोकपीडाकरं घोरं तपः केनापि कर्हिचित्
॥१३॥इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ ।
मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः
॥१४॥स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् ।
वसिष्ठस्य च संवादं तपसः प्रतिषेधनम्
॥१५॥कोपाविष्टेन मनसा प्रतीकारमथाकरोत् ।
विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम्
॥१६॥प्रेषयामास तद्देशं विधाय सूकराकृतिम् ।
सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम्
॥१७॥राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा ।
मालतीनां च खण्डानि कदम्बानां तथैव च
॥१८॥यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः ।
दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान्
॥१९॥चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् ।
करवीरानुशीरांश्च निचखान शुभान्मृदून्
॥२०॥मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा ।
उन्मूल्य कदनं तत्र चकार सूकरो वने
॥२१॥वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः ।
हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः
॥२२॥बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः ।
रक्षकान्पीडयामास कोलः कालसमद्युतिः
॥२३॥ते तदातिभयाक्रान्ता राजानं शरणं ययुः ।
तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः
॥२४॥तानागतान्समालोक्य भयार्तान्भूपतिस्तदा ।
पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः
॥२५॥नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः ।
कस्माद्भयं समुत्पन्नं तद्ब्रुवन्तु ममाग्रतः
॥२६॥हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल ।
यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः
॥२७॥देवो वा दानवो वापि तं निहन्मि शरैः शितैः ।
क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः
॥२८॥मालाकारा ऊचुः
न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः ।
कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने
॥२९॥पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ ।
विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा
॥३०॥विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा ।
न बिभेति महाराज हनुमस्मानुपाद्रवत्
॥३१॥व्यास उवाच
इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः ।
अश्वामारुह्य तरसा जगामोपवनं प्रति
॥३२॥सैन्येन महता युक्तो गजाश्वरथसंयुतः ।
पदातिवृन्दसहितः प्रययौ वनमुत्तमम्
॥३३॥तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् ।
वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत्
॥३४॥चापे बाणं समारोप्य विकृष्य च शरासनम् ।
तं हन्तुं सूकरं पापं तरसा समुपाक्रमत्
॥३५॥समालोक्य च राजानं चापहस्तं रुषाकुलम् ।
सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम्
॥३६॥तमायान्तं समालोक्य वराहं विकृताननम् ।
मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः
॥३७॥वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् ।
निर्जगाम महावेगात्तमुल्लंघ्य नृपं तदा
॥३८॥गच्छन्तं तं समालोक्य राजा कोपसमन्वितः ।
मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः
॥३९॥क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः ।
कुर्वन्बहुविधारावं सूकरं समुपाद्रवत्
॥४०॥हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह ।
अश्वेन वायुवेगेन विकृष्य च शरासनम्
॥४१॥इतस्ततस्तः सैन्यमगमच्च वनान्तरम् ।
एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत्
॥४२॥मध्याह्नसमये राजा सम्प्राप्तो विजने वने ।
तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः
॥४३॥सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् ।
मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः
॥४४॥किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने ।
अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत्
॥४५॥एवं विन्तयतस्तत्र विपिने जनवर्जिते ।
राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम्
॥४६॥वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् ।
अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम्
॥४७॥जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः ।
इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः
॥४८॥विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् ।
ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम्
॥४९॥तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् ।
स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः
॥५०॥एकाकी विजने राजन् किं चिकीर्षितमत्र ते ।
ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम
॥५१॥राजोवाच
सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् ।
समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान्
॥५२॥तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् ।
ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम
॥५३॥गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् ।
पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम
॥५४॥क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः ।
न जाने पुरमार्गं च तहा सैन्यगतिं मुने
॥५५॥पन्थानं दर्शय विभो व्रजामि नगरं प्रति ।
ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने
॥५६॥अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः ।
राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा
॥५७॥धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम ।
आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम्
॥५८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादश साहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥