मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २८

3
सप्तमस्कन्धः · 28

शताक्षीचरित्रवर्णनम्

जनमेजय उवाच

विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् ।

शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च

॥१॥

शताक्षी सा कुतो जाता देवी भगवती शिवा ।

तत्कारणं वद मुने सार्थकं जन्म मे कुरु

॥२॥

को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः ।

पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते

॥३॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् ।

तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते

॥४॥

दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः ।

हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः

॥५॥

देवानां तु बलं वेदो नाशे तस्य सुरा अपि नंक्ष्यन्त्येव न संदेहो विधेयं तावदेव तत्

॥६॥

विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये ।

ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत

॥७॥

सहस्रवर्षपर्यन्तं चकार परमं तपः ।

तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः

॥८॥

ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः ।

ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः

॥९॥

समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः ।

वरं वरय भद्रं ते यस्ते मनसि वर्तते

॥१०॥

तवाद्य तपसा तुष्टो वरदेशोऽहमागतः ।

श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः

॥११॥

पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर ।

त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि

॥१२॥

विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर ।

बलं च देहि येन स्याद्देवानां च पराजयः

॥१३॥

इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् ।

जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः

॥१४॥

ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः ।

स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः

॥१५॥

विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् ।

किमिदं किमिदं चेति विप्रा ऊचुः परस्परम्

॥१६॥

वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् ।

इति भूमौ महानर्थे जाते परमदारुणे

॥१७॥

निर्जराः सजरा जाता हविर्भागाद्यभावतः ।

रुरोध स तदा दैत्यो नगरीममरावतीम्

॥१८॥

अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च ।

पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित्

॥१९॥

निलयं गिरिदुर्गेषु रत्नसानुगुहासु च ।

संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम्

॥२०॥

अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप ।

वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम्

॥२१॥

कूपवापीतडागाश्च सरितः शुष्कतां गताः ।

अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी

॥२२॥

मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा ।

गृहे गृहे मनुष्याणामभवच्छवसंग्रहः

॥२३॥

अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः ।

गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम्

॥२४॥

समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् ।

निराहारास्तदासक्तास्तामेव शरणं ययुः

॥२५॥

दयां कुरु महेशानि पामरेषु जनेषु हि ।

सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके

॥२६॥

कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि ।

त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः

॥२७॥

नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः ।

यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि

॥२८॥

समुद्धर महेशानि संकटात्परमोत्थितात् ।

जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके

॥२९॥

प्रसीद त्वं महेशानि प्रसीद जगदम्बिके ।

अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः

॥३०॥

नमः कूटस्थरूपायै चिद्रूपायै नमो नमः ।

नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः

॥३१॥

नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः ।

तां सर्वकारणां देवीं सर्वभावेन सन्नताः

॥३२॥

इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी ।

अनन्ताक्षिमयं रूपं दर्शयामास पार्वती

॥३३॥

नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् ।

सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम्

॥३४॥

बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् ।

शाकादीन्फलसंयुक्ताननन्तरससंयुतान्

॥३५॥

क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः ।

सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम्

॥३६॥

कोटिसूर्यप्रतीकाशं करुणारससागरम् ।

दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा

॥३७॥

मोचयामास लोकेषु वारिधारां सहस्रशः ।

नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः

॥३८॥

दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती ।

तर्पितास्तेन ते लोका ओषध्यः सकला अपि

॥३९॥

नदीनदप्रवाहास्तैर्जलैः समभवन्नृप ।

निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः

॥४०॥

मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः ।

नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि

॥४१॥

स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः ।

भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि

॥४२॥

नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः ।

अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम्

॥४३॥

त्वया यतो धृतं देवि शताक्षी त्वं ततो भव ।

क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः

॥४४॥

कृपां कुरु महेशानि वेदानप्याहराम्बिके ।

व्यास उवाच ।

इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान्

॥४५॥

स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ।

नानाविधानि चान्नानि पशुभोज्यानि यानि च

॥४६॥

काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ ।

शाकम्भरीति नामापि तद्दिनात्समभून्नृप

॥४७॥

ततः कोलाहले जाते दूतवाक्येन बोधितः ।

ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ

॥४८॥

सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः ।

रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा

॥४९॥

तथा विप्रगणं चैव रोधयामास सर्वतः ।

ततः किलकिला शब्दः समभूद्देवमण्डले

॥५०॥

त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ।

ततस्तेजोमयं चक्रं देवानां परितः शिवा

॥५१॥

चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता ।

ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः

॥५२॥

शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् ।

परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम्

॥५३॥

कठोरज्याटणत्कारबधिरीकृतदिक्तटम् ।

ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः

॥५४॥

कालिका तारिणी बाला त्रिपुरा भैरवी रमा ।

बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी

॥५५॥

कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा ।

छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका

॥५६॥

द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः ।

असंख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः

॥५७॥

मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् ।

शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते

॥५८॥

अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः ।

शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः

॥५९॥

महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी ।

अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः

॥६०॥

तत एकादशे प्राप्ते दिने परमदारुणे ।

रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः

॥६१॥

कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः ।

संरम्भेणैव महता शक्तीः सर्वा विजित्य च

॥६२॥

महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् ।

ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः

॥६३॥

प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् ।

ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह

॥६४॥

चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् ।

द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा

॥६५॥

पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका ।

ततो वमन् स रुधिरं ममार पुर ईशितुः

॥६६॥

तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह ।

हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम्

॥६७॥

ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् ।

पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा

॥६८॥

देवा ऊचुः

जगद्भ्रमविवर्तैककारणे परमेश्वरि ।

नमः शाकम्भरि शिवे नमस्ते शतलोचने

॥६९॥

सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि ।

नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते

॥७०॥

चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः ।

प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम्

॥७१॥

अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् ।

ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम्

॥७२॥

कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः ।

सदयां परमेशानीं शताक्षीं मातरं विना

॥७३॥

व्यास उवाच

इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः ।

पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे

॥७४॥

प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ ।

ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी

॥७५॥

ममेयं तनुरुत्कृष्टा पालनीया विशेषतः ।

यया विनानर्थ एष जातो दृष्टोऽधुनैव हि

॥७६॥

पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि ।

नातः परतरं किञ्चित्कल्याणायोपदिश्यते

॥७७॥

पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् ।

तेन तुष्टा भविष्यामि हरिष्यामि तथापदः

॥७८॥

दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः ।

गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ

॥७९॥

किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः ।

संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः

॥८०॥

इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् ।

सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी

॥८१॥

एतत्ते सर्वमाख्यातं रहस्यं परमं महत् ।

गोपनीयं प्रयत्नेन सर्वकल्याणकारकम्

॥८२॥

य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः ।

सर्वान्कामानवाप्नोति देवीलोके महीयते

॥८३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥