देवीगीतायां भक्तिमहिमावर्णनम्
हिमालय उवाच
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि ।
जायेत मनुजस्यास्य मध्यमस्याविरागिणः
॥१॥देव्युवाच
मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम
॥२॥त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा ।
सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात्
॥३॥गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता ।
परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम्
॥४॥मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी ।
परपीडादिरहितः स्वकल्याणार्थमेव च
॥५॥नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः ।
तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः
॥६॥भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः ।
तस्य भक्तिः समाख्याता नगाधिप तु राजसी
॥७॥परमेशार्पणं कर्म पापसङ्क्षालनाय च ।
वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम्
॥८॥इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः ।
करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी
॥९॥परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् ।
पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते
॥१०॥अधुना परभक्तिं तु प्रोच्यमानां निबोध मे ।
मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम्
॥११॥कल्याणगुणरत्नानामाकरायां मयि स्थिरम् ।
चेतसो वर्तनं चैव तैलधारासमं सदा
॥१२॥हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि ।
सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा
॥१३॥मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् ।
सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति
॥१४॥परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः ।
स्वाभेदेनैव मां नित्यं जानाति न विभेदतः
॥१५॥मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः ।
यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि
॥१६॥चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः ।
सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा
॥१७॥नमते यजते चैवाप्याचाण्डालान्तमीश्वर ।
न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात्
॥१८॥मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा ।
मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो
॥१९॥मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा ।
प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः
॥२०॥अनन्येनैव भावेन पूजयेद्यो नगाधिप ।
मामीश्वरीं जगद्योनिं सर्वकारणकारणम्
॥२१॥व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि ।
नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः
॥२२॥मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा ।
जायते यस्य नियतं स्वभावादेव भूधर
॥२३॥उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति ।
अहङ्कारादिरहितो देहतादात्म्यवर्जितः
॥२४॥प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् ।
न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु
॥२५॥इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता ।
यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते
॥२६॥इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः ।
तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत्
॥२७॥भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् ।
वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः
॥२८॥भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग ।
न जायते मम ज्ञानं मणिद्वीपं स गच्छति
॥२९॥तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति ।
तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग
॥३०॥तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा ।
इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः
॥३१॥मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न ।
ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः
॥३२॥कण्ठचामीकरसममज्ञानात्तु तिरोहितम् ।
ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते
॥३३॥विदिताविदितादन्यन्नगोत्तम वपुर्मम ।
यथादर्शे तथात्मनि यथा जले तथा पितृलोके
॥३४॥छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि ।
मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम्
॥३५॥यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् ।
ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम्
॥३६॥शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः ।
करोति साधनं पश्चात्ततो ज्ञानं हि जायते
॥३७॥अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना ।
ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत्
॥३८॥नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः ।
तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा
॥३९॥शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च ।
तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम्
॥४०॥तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा ।
अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः
॥४१॥साधने सफलेऽप्येवं जायमानेऽपि यो नरः ।
ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम्
॥४२॥तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम्
॥४३॥घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं मनसा मन्थानभूतेन
॥४४॥ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः ।
सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि
॥४५॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां भक्तिमहिमावर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥