मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ३९

3
सप्तमस्कन्धः · 39

देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम्

हिमालय उवाच

देवदेवि महेशानि करुणासागरेऽम्बिके ।

ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम्

॥१॥

श्रीदेव्युवाच

वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् ।

अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव

॥२॥

द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च ।

बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा

॥३॥

वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर ।

वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः

॥४॥

तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् ।

इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम्

॥५॥

करोति यो नरो मूढः स पतत्येव सर्वथा ।

तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम्

॥६॥

यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर ।

अनन्तशीर्षनयनमनन्तचरणं महत्

॥७॥

सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् ।

तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि

॥८॥

इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग ।

शान्तः समाहितमना दम्भाहङ्कारवर्जितः

॥९॥

तत्परो भव तद्याजी तदेव शरणं व्रज ।

तदेव चेतसा पश्य जप ध्यायस्व सर्वदा

॥१०॥

अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः ।

यज्ञैर्यज तपोदानैर्मामेव परितोषय

॥११॥

इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् ।

मत्परा ये मदासक्तचित्ता भक्तवरा मताः

॥१२॥

प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु ।

ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः

॥१३॥

प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः ।

धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम्

॥१४॥

श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः ।

अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते

॥१५॥

सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः ।

अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः

॥१६॥

स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।

मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते

॥१७॥

क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् ।

धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः

॥१८॥

अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः ।

अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता

॥१९॥

तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् ।

राजाज्ञा च यथा लोके हन्यते न कदाचन

॥२०॥

सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः ।

मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः

॥२१॥

मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर

॥२२॥

अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् ।

देवदैत्यविभागश्चाप्यत एवाभवन्नृप

॥२३॥

ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा ।

सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत्

॥२४॥

यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् ।

राजा प्रवासयेद्देशान्निजादेतानधर्मिणः

॥२५॥

ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः ।

अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च

॥२६॥

श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः ।

वामं कापालकं चैव कौलकं भैरवागमः

॥२७॥

शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः ।

दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः

॥२८॥

दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः ।

तेषामुद्धरणार्थाय सोपानक्रमतः सदा

॥२९॥

शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च ।

गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु

॥३०॥

तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् ।

वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित्

॥३१॥

सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् ।

वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान्

॥३२॥

तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् ।

धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्

॥३३॥

सर्वैषणाः परित्यज्य मामेव शरणं गताः ।

सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः

॥३४॥

मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः ।

संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः

॥३५॥

उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् ।

तेषां नित्याभियुक्तानामहमज्ञानजं तमः

॥३६॥

ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः ।

इत्थं वैदिकपूजायाः प्रथमाया नगाधिप

॥३७॥

स्वरूपमुक्तं संक्षेपाद् द्वितीयाया अथो ब्रुवे ।

मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले

॥३८॥

जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे ।

तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम्

॥३९॥

सगुणां करुणापूर्णां तरुणीमरुणारुणाम् ।

सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम्

॥४०॥

शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् ।

प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम्

॥४१॥

पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् ।

पूजयेदुपचारैश्च यथावित्तानुसारतः

॥४२॥

यावदान्तरपूजायामधिकारो भवेन्न हि ।

तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत्

॥४३॥

आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः ।

संविदेव परं रूपमुपाधिरहितं मम

॥४४॥

अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् ।

संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत्

॥४५॥

अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ।

भावयेन्निर्मनस्केन योगयुक्तेन चेतसा

॥४६॥

अतः परं बाह्यपूजाविस्तारः कथ्यते मया ।

सावधानेन मनसा शृणु पर्वतसत्तम

॥४७॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥