मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १३

3
सप्तमस्कन्धः · 13

त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम्

राजोवाच

हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् ।

त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः

॥१॥

मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः ।

गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः

॥२॥

एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः ।

चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा

॥३॥

व्यास उवाच

अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः ।

कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम्

॥४॥

एवं गच्छति काले तु तपस्तप्त्वा समाहितः ।

द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः

॥५॥

आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् ।

भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया

॥६॥

दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने ।

अन्नं विना त्विमे बालाः पालिता केन तद्वद

॥७॥

अहं तपसि सन्नद्धो नागतः शृणु सुन्दरि ।

किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने

॥८॥

मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् ।

नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः

॥९॥

अहमप्यति वामोरु पीडितः क्षुधया वने ।

प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये

॥१०॥

श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् ।

महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः

॥११॥

यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् ।

गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै

॥१२॥

पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् ।

ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम्

॥१३॥

इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् ।

तमवोचं सुकेशान्ते कामं गद्गदया गिरा

॥१४॥

ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः ।

चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके

॥१५॥

चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते ।

क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम्

॥१६॥

विश्वामित्र उवाच

श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् ।

भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम्

॥१७॥

दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता ।

द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि

॥१८॥

दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता ।

अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः

॥१९॥

त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः ।

निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज

॥२०॥

वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम ।

विश्वामित्र उवाच ।

सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज

॥२१॥

तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् ।

देहस्य रक्षणं कार्यं सर्वथा यदि मानद

॥२२॥

पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये ।

दुर्गतिस्तु भवेत्पापादनापदि न चापदि

॥२३॥

मरणात्क्षुधितस्याथ नरको नात्र संशयः ।

तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता

॥२४॥

तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज ।

अवर्षणे च चौर्येण यत्पापं कथितं बुधैः

॥२५॥

यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति ।

इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत्

॥२६॥

गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः ।

मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह

॥२७॥

तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा ।

कथय त्वं वरारोहे कालो नीतस्त्वया कथम्

॥२८॥

कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह ।

व्यास उवाच ।

इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा

॥२९॥

यथा शृणु मया नीतः कालः परमदारुणः ।

गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम्

॥३०॥

अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः ।

क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने

॥३१॥

भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा ।

एवं च कतिचिन्मासा नीवारेणातिवाहिताः

॥३२॥

तदभावे मया कान्त चिन्तितं मनसा पुनः ।

न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने

॥३३॥

न वृक्षेषु फलान्यासुर्न मूलानि धरातले ।

क्षुधया पीडिता बाला रुदन्ति भृशमातुराः

॥३४॥

किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् ।

एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः

॥३५॥

पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल ।

गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान्

॥३६॥

पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने ।

इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया

॥३७॥

विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः ।

क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा

॥३८॥

तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् ।

पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः

॥३९॥

तदाहं तमुवाचेदं वचनं मुनिसत्तम ।

विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप

॥४०॥

श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः ।

मामुवाच गृहं याहि गृहीत्वैनं कुमारकम्

॥४१॥

भोजनार्थे कुमाराणामामिषं विहितं तव ।

प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः

॥४२॥

अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् ।

विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः

॥४३॥

तेनैव बालकाः कान्त पालिता वृजिनार्णवात् ।

वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात्

॥४४॥

कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने ।

हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः

॥४५॥

त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना ।

कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः

॥४६॥

तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक ।

श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः

॥४७॥

येन केनाप्युपायेन भवता नृपतेः किल ।

तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह

॥४८॥

व्यास उवाच

इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः ।

तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम

॥४९॥

विश्वामित्र उवाच

मोचयिष्यामि तं शापान्नृपं कमललोचने ।

उपकारः कृतो येन कान्ताराद्रक्षितासि वै

॥५०॥

विद्यातपोबलेनाहं करिष्ये दुःखसंक्षयम् ।

इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित्

॥५१॥

चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् ।

संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः

॥५२॥

त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः ।

आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः

॥५३॥

दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः ।

गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा

॥५४॥

उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः ।

मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः

॥५५॥

वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् ।

राजोवाच ।

मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे

॥५६॥

मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् ।

यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम्

॥५७॥

अनेनैव शरीरेण शक्रलोकं सुखालयम् ।

कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते

॥५८॥

मानुषेण हि देहेन स्वर्गवासः कुतस्तव ।

पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ

॥५९॥

अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् ।

तदा तेनैव शप्तोऽहं चाण्डालो भव पामर

॥६०॥

इत्येतत्कथितं सर्वं कारणं शापसम्भवम् ।

मम दुःखविनाशाय समर्थोऽसि मुनीश्वर

॥६१॥

इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः ।

कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत्

॥६२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥