मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय ३४

3
सप्तमस्कन्धः · 34

श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम्

श्री देव्युवाच

क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।

तथापि भक्तवात्सल्यादीदृशं दर्शितं मया

॥१॥

न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।

रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना

॥२॥

प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् ।

उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत

॥३॥

क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।

नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते

॥४॥

पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।

नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते

॥५॥

घटीयन्त्रवदेतस्य न विरामः कदापि हि ।

अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः

॥६॥

तस्मादज्ञाननाशाय यतेत नियतं नरः ।

एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम्

॥७॥

पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च ।

अज्ञाननाशने शक्ता विद्यैव तु पटीयसी

॥८॥

न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।

प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम्

॥९॥

अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।

ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत्

॥१०॥

तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः ।

कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम्

॥११॥

ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।

सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च

॥१२॥

इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् ।

ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः

॥१३॥

यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः ।

तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि

॥१४॥

तस्मात् सर्वाणि कर्माणि वैदिकानि महामते ।

चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः

॥१५॥

शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः ।

तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम्

॥१६॥

तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् ।

श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः

॥१७॥

वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।

तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत्

॥१८॥

तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् ।

ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते

॥१९॥

पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।

तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः

॥२०॥

त्वं पदस्य च वाच्यार्थो जीव एव न संशयः ।

उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः

॥२१॥

वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।

लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः

॥२२॥

चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः ।

तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत्

॥२३॥

देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।

स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः

॥२४॥

पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः ।

भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम्

॥२५॥

मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।

सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर

॥२६॥

ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।

मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः

॥२७॥

अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।

द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः

॥२८॥

अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।

देहोऽयमात्मनो भाति कारणात्मा नगेश्वर

॥२९॥

उपाधिविलये जाते केवलात्मावशिष्यते ।

देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा

॥३०॥

पञ्चकोशपरित्यागे ब्रह्म पुच्छं हि लभ्यते ।

नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते

॥३१॥

न जायते म्रियते तत्कदाचि- न्नायं भूत्वा न बभूव कश्चित् ।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे

॥३२॥

हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।

उभौ तौ न विजानीतौ नायं हन्ति न हन्यते

॥३३॥

अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् ।

तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य

॥३४॥

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च

॥३५॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः

॥३६॥

यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः ।

न तत्पदमवाप्नोति संसारं चाधिगच्छति

॥३७॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।

स तु तत्पदमाप्नोति यस्माद्भूयो न जायते

॥३८॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम्

॥३९॥

इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना ।

भावयेन्मामात्मरूपां निदिध्यासनतोऽपि

॥४०॥

योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् ।

देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः

॥४१॥

हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः ।

ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम्

॥४२॥

एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् ।

समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः

॥४३॥

समाधिकालात्पूर्वं तु भावयित्वैवमादृतः ।

ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम्

॥४४॥

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।

निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः

॥४५॥

भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।

हकारम् विश्वमात्मानं रकारे प्रविलापयेत्

॥४६॥

रकारं तैजसं देवमीकारे प्रविलापयेत् ।

ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत्

॥४७॥

वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।

अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे

॥४८॥

इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः ।

मद्रूप एव भवति द्वयोरप्येकता यतः

॥४९॥

योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् ।

अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत्

॥५०॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥