हरिश्चन्द्रोपाख्यानवर्णनम्
एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः ।
अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा
॥१॥तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः ।
स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत्
॥२॥उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् ।
ऋणं धारयतां दुःखमहन्यहनि वर्धते
॥३॥आप्यायमानः स तदा हिमशीतेन वारिणा ।
अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च
॥४॥पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः
॥५॥विश्वामित्र उवाच
दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे ।
सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी
॥६॥सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ।
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
॥७॥अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते ।
अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम्
॥८॥मदीयां दक्षिणां राजन्न दास्यति भवान्यदि ।
अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम्
॥९॥इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः ।
दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः
॥१०॥सूत उवाच
एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः ।
ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः
॥११॥ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् ।
उवाच वाक्यं राजानं धर्मार्थसहितं तदा
॥१२॥त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते ।
पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः
॥१३॥तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः ।
राजोवाच ।
नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे
॥१४॥याचनं खलु विप्राणां क्षत्रियाणां न विद्यते ।
गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा
॥१५॥तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः ।
यजनाध्ययनं दानं क्षत्रियस्य विधीयते
॥१६॥शरणागतानामभयं प्रजानां प्रतिपालनम् ।
न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः
॥१७॥ददामीत्येव मे देवि हृदये निहितं वचः ।
अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम्
॥१८॥पत्न्युवाच
कालः समविषमकरः परिभवसम्मानमानदः कालः ।
कालः करोति पुरुषं दातारं याचितारं च
॥१९॥विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा ।
राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम्
॥२०॥राजोवाच
असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता ।
न तु मानं परित्यज्य देहि देहीति भाषितम्
॥२१॥क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् ।
ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम्
॥२२॥पत्न्युवाच
यदि ते हि महाराज याचितुं न क्षमं मनः ।
अहं तु न्यायतो दत्ता देवैरपि सवासवैः
॥२३॥अहं शास्या च पत्या च रक्ष्या चैव महाद्युते ।
मन्मौल्यं संगृहीत्वाथ गुर्वर्थं सम्प्रदीयताम्
॥२४॥एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः ।
कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः
॥२५॥भार्या च भूयः प्राहेदं क्रियतां वचनं मम ।
विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि
॥२६॥न द्युतहेतोर्न च मद्यहेतो- र्न राज्यहेतोर्न च भोगहेतोः ।
ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व
॥२७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम एकविंशोऽध्यायः ॥ २१ ॥