मान्धातोत्पत्तिवर्णनम्
व्यास उवाच
कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः ।
आज्ञापयदसंमूढो मांसमानय सत्वरम्
॥१॥मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् ।
उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत्
॥२॥गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् ।
शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः
॥३॥विस्मृता चाष्टका तस्य शशं चाददसौ वने ।
शेषं निवेदयामास पित्रे मांसमनुत्तमम्
॥४॥प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा ।
अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः
॥५॥भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः ।
राज्ञे निवेदयामास वसिष्ठः पाकदूषणम्
॥६॥पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् ।
चुकोप विधिलोपात्तं देशान्निःसारयत्ततः
॥७॥शशाप इति विख्यातो नाम्ना जातो नृपात्मजः ।
गतो वने शशादस्तु पितृकोपादसम्भ्रमः
॥८॥वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः ।
पितर्युपरते राज्यं प्राप्तं तेन महात्मना
॥९॥शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् ।
यज्ञाननेकशः पूर्णांश्चकार सरयूतटे
॥१०॥शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः ।
तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः
॥११॥जनमेजय उवाच
नामभेदः कथं जातो राजपुत्रस्य चानघ ।
कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत्
॥१२॥व्यास उवाच
शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् ।
[राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ।
] एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः
॥१३॥जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् ।
तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः
॥१४॥विष्णुरुवाच
पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् ।
स हनिष्यति वै दैत्यान्संग्रामे सुरसत्तमाः
॥१५॥आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः ।
पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम्
॥१६॥हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः ।
अयोध्यायां महाराज शशादतनयं प्रति
॥१७॥तानागतान् सुरान् राजा पूजयामास धर्मतः ।
पप्रच्छागमने राजा प्रयोजनमतन्द्रितः
॥१८॥राजोवाच
धन्योऽहं पावितश्चास्मि जीवितं सफलं मम ।
यदागत्य गृहे देवा ददुश्च दर्शनं महत्
॥१९॥ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः ।
करिष्यामि महत्कार्यं सर्वथा भवतां महत्
॥२०॥देवा ऊचुः
साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः ।
संग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि
॥२१॥पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् ।
विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ
॥२२॥राजोवाच
पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः ।
इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः
॥२३॥संग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना ।
आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम्
॥२४॥तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् ।
पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते
॥२५॥लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् ।
बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान्
॥२६॥तमारुरोह राजासौ संग्रामगमनाय वै ।
स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत्
॥२७॥इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः ।
पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः
॥२८॥जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् ।
पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह
॥२९॥ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः ।
काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः
॥३०॥ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः ।
अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान्
॥३१॥विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः ।
विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः
॥३२॥चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः ।
तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः
॥३३॥शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः ।
शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा
॥३४॥बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः ।
कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः
॥३५॥धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले ।
धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम्
॥३६॥पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् ।
दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः
॥३७॥निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः ।
बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः
॥३८॥प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः ।
तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः
॥३९॥यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः ।
अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः
॥४०॥भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद ।
मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे
॥४१॥निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः ।
राजोवाच ।
न श्रुतं न च दृष्टं वा भवता तदुदाहृतम्
॥४२॥असंभाव्यं महाभाग तस्य जन्म यथोदितम् ।
विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम्
॥४३॥राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः ।
व्यास उवाच ।
यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः
॥४४॥भार्याणां च शतं तस्य बभूव नृपतेर्नृप ।
राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः
॥४५॥अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः ।
ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः
॥४६॥मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् ।
दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः
॥४७॥तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव ।
किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम्
॥४८॥प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा ।
यौवनाश्व उवाच ।
राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम
॥४९॥भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् ।
नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम
॥५०॥आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा ।
एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः
॥५१॥अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः
॥५२॥वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः ।
इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे
॥५३॥कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः
॥५४॥कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् ।
कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः
॥५५॥मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः ।
राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि
॥५६॥विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् ।
भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम्
॥५७॥पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम ।
व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः
॥५८॥पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः ।
राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत्
॥५९॥इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् ।
गर्भं दधार नृपतिस्ततो मन्त्रबलादथ
॥६०॥ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् ।
पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः
॥६१॥देवानां कृपया तत्र न ममार महीपतिः ।
कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम्
॥६२॥तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः ।
सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः ।
तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात्
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे मान्धातोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥