मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय १७

3
सप्तमस्कन्धः · 17

वसिष्ठविश्वामित्रपणवर्णनम्

व्यास उवाच

रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः ।

शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम्

॥१॥

मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् ।

जपतस्तव कल्याणं भविष्यति ममाज्ञया

॥२॥

विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः ।

मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम्

॥३॥

जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः ।

प्रादुर्बभूव सहसा प्रसन्नो नृप बालके

॥४॥

दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः ।

तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते

॥५॥

राजातिविस्मितः पादौ प्रणनाम रुजातुरः ।

बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम्

॥६॥

हरिश्चन्द्र उवाच

देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः ।

कृतापराधः कृपणः पावितः परमेष्ठिना

॥७॥

मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् ।

कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः

॥८॥

अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया ।

वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो

॥९॥

अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।

भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम्

॥१०॥

नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो ।

दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह

॥११॥

न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो ।

वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे

॥१२॥

प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः ।

यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये

॥१३॥

दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् ।

जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम्

॥१४॥

व्यास उवाच

इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च ।

दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम्

॥१५॥

वरुण उवाच

मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् ।

यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना

॥१६॥

इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा ।

चकार पश्यतां तत्र सदस्यानां सुसंस्थितम्

॥१७॥

विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना ।

जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे

॥१८॥

राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् ।

यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः

॥१९॥

राजा त्विमं मखं पूर्णं चकार विनयान्वितः ।

शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः

॥२०॥

भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् ।

वेदशास्त्रानुसारेण यथार्थवादिनः किल

॥२१॥

पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् ।

भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम्

॥२२॥

इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् ।

सभ्या ऊचूः - अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ

॥२३॥

अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः ।

अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः

॥२४॥

तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः ।

विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल

॥२५॥

पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः ।

अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै

॥२६॥

अन्नदाता भयत्राता तथा विद्याप्रदश्च यः ।

तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः

॥२७॥

तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे ।

वरुणस्येति संवादे निर्णयं न ययुश्च ते

॥२८॥

इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् ।

सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः

॥२९॥

शृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् ।

निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः

॥३०॥

सम्बन्धस्तु गतस्तस्य तदैव धनसंग्रहात् ।

हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च

॥३१॥

यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः ।

वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः

॥३२॥

तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः ।

यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च

॥३३॥

धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् ।

कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः

॥३४॥

मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे ।

व्यास उवाच ।

श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः

॥३५॥

विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा ।

एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः

॥३६॥

शुनःशेपो जगामाशु तेनैव सह सत्वरः ।

वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम्

॥३७॥

ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा ।

राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः

॥३८॥

प्रजास्तु पालयामास सुप्रसन्नेन चेतसा ।

रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह

॥३९॥

आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् ।

दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम्

॥४०॥

मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः ।

दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः

॥४१॥

दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा ।

राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः

॥४२॥

तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः ।

उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः

॥४३॥

उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् ।

राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च

॥४४॥

वृत्तान्तं नरमेधस्य कथयामास विस्तरात् ।

राजसूयं क्रतुवरं चकार नृपसत्तमः

॥४५॥

वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः ।

समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः

॥४६॥

शक्रस्य सदनं रम्यं जगाम मुनिरादरात् ।

विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः

॥४७॥

मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम ।

विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम्

॥४८॥

वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः ।

विश्वामित्र उवाच ।

क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम

॥४९॥

कृता केन महाभाग सत्यं ब्रूहि ममान्तिके ।

वसिष्ठ उवाच ।

यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान्

॥५०॥

राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः ।

नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः

॥५१॥

दाता च धर्मशीलश्च प्रजारञ्जनतत्परः ।

तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन

॥५२॥

[ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ] हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।

सत्यवादी तथा दाता शूरः परमधार्मिकः

॥५३॥

व्यास उवाच

इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः ।

बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम्

॥५४॥

विश्वामित्र उवाच

एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् ।

वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः

॥५५॥

मम जन्मार्जितं पुण्यं तपसः पठितस्य च ।

त्वदीयं वातितपसो ग्लहं कुरु महामते

॥५६॥

अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् ।

असत्यवादिनं काममदातारं महाखलम्

॥५७॥

आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु ।

अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे

॥५८॥

ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा ।

स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥