मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — सप्तमस्कन्धः, अध्याय २०

3
सप्तमस्कन्धः · 20

हरिश्चन्द्रोपाख्यानवर्णनम्

हरिश्चन्द्र उवाच

अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् ।

प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत

॥१॥

सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः ।

राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु

॥२॥

कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया ।

अवश्यमेव दातव्यमृणं ते द्विजसत्तम

॥३॥

स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् ।

कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम्

॥४॥

विश्वामित्र उवाच

कुतस्ते भविता राजन् धनप्राप्तिरतः परम् ।

गतं राज्यं तथा कोशो बलं चैवार्थसाधनम्

॥५॥

वृथाशा ते महीपाल धनार्थे किं करोम्यहम् ।

निर्धनं त्वां च लोभेन पीडयामि कथं नृप

॥६॥

तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् ।

त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम्

॥७॥

यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः ।

सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना

॥८॥

गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः ।

प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम्

॥९॥

मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः ।

क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज

॥१०॥

ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो ।

दासभावं गमिष्यामि सदारोऽहं सपुत्रकः

॥११॥

गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने ।

मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर

॥१२॥

इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः ।

उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम्

॥१३॥

तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् ।

उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम्

॥१४॥

ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् ।

देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम्

॥१५॥

प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् ।

नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः

॥१६॥

जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः ।

पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा

॥१७॥

ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् ।

तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत्

॥१८॥

प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ।

इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम

॥१९॥

येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम ।

यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि

॥२०॥

विश्वामित्र उवाच

पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा ।

पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि

॥२१॥

राजोवाच

ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल ।

तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम्

॥२२॥

विश्वामित्र उवाच

एवमस्तु महाराज आगमिष्याम्यहं पुनः ।

शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि

॥२३॥

इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा ।

कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता

॥२४॥

कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम ।

प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत्

॥२५॥

राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् ।

यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम्

॥२६॥

ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः ।

अथवा प्रेततां यास्ये वर एवात्मविक्रयः

॥२७॥

सूत उवाच

राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् ।

प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा

॥२८॥

त्यज चिन्तां महाराज स्वधर्ममनुपालय ।

प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः

॥२९॥

नातः परतरं धर्मं वदन्ति पुरुषस्य च ।

यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम्

॥३०॥

अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः ।

भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत्

॥३१॥

सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् ।

तारणायानृतं तद्वत्पातनायाकृतात्मनाम्

॥३२॥

शताश्वमेधानादृत्य राजसूयं च पार्थिवः ।

कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः

॥३३॥

राजोवाच

वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः ।

उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि

॥३४॥

पत्न्युवाच

राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः ।

तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम्

॥३५॥

व्यास उवाच

एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः ।

प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः

॥३६॥

महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे ।

किं तव स्मितसंल्लापा मम पापस्य विस्मृताः

॥३७॥

हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते ।

दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि

॥३८॥

इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये ।

निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः

॥३९॥

शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् ।

उवाचेदं सुकरुणं राजपुत्री सुदुःखिता

॥४०॥

हा महाराज कस्येदमपध्यानादुपागतम् ।

यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः

॥४१॥

येनैव कोटिशो वित्तं विप्राणामपवर्जितम् ।

स एव पृथिवीनाथो भुवि स्वपिति मे पतिः

॥४२॥

हा कष्टं किं तवानेन कृतं दैव महीक्षिता ।

यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम्

॥४३॥

इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह ।

भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता

॥४४॥

शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः ।

तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम्

॥४५॥

क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति

॥४६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम विंशोऽध्यायः ॥ २० ॥