देव्या व्यष्टिसमष्टिर्पवर्णनम्
श्रीदेव्युवाच
शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते
॥१॥अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित्परब्रह्मैकनामकम्
॥२॥अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता
॥३॥न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा
॥४॥पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा
॥५॥तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत्
॥६॥स्वशक्तेश्च समायोगादहं बीजात्मतां गता ।
स्वाधारावरणात्तस्या दोषत्वं च समागतम्
॥७॥चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते
॥८॥केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम्
॥९॥विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः
॥१०॥एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती
॥११॥चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम्
॥१२॥अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम्
॥१३॥प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम
॥१४॥जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित्
॥१५॥यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा
॥१६॥अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः
॥१७॥मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम
॥१८॥अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः
॥१९॥ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते
॥२०॥तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः
॥२१॥स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः
॥२२॥अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप
॥२३॥एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि
॥२४॥प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम्
॥२५॥सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते
॥२६॥तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः
॥२७॥जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः
॥२८॥शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः
॥२९॥शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते
॥३०॥सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि
॥३१॥यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः
॥३२॥पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा
॥३३॥एकैकं भागमेकस्य चतुर्धा विभजेद् गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते
॥३४॥तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः
॥३५॥ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः ।
अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम्
॥३६॥यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम्
॥३७॥अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् ।
अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम्
॥३८॥तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा
॥३९॥हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः
॥४०॥ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ।
प्राणादिपञ्चकं चैव धिया च सहितं मनः
॥४१॥एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता
॥४२॥सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते
॥४३॥तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः
॥४४॥सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप
॥४५॥तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया
॥४६॥देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः
॥४७॥स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः
॥४८॥प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया
॥४९॥करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः
॥५०॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिर्पवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥