मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १

3
अष्टमस्कन्धः · 1

भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम्

जनमेजय उवाच

सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् ।

चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम्

॥१॥

अधुना श्रोतुमिच्छामि सा देवी जगदम्बिका ।

मन्वन्तरेषु सर्वेषु यद्यद्रूपेण पूज्यते

॥२॥

यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा ।

(शरीरेण च देवेशी पूजनीया फलप्रदा ।

येनैव मन्त्रबीजेन यत्र यत्र च पूज्यते ।

) देव्या विराट्स्वरूपस्य वर्णनं च यथातथम्

॥३॥

येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः ।

तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम्

॥४॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि देव्याराधनमुत्तमम् ।

यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विन्दते

॥५॥

एवमेतन्नारदेन पृष्टो नारायणः पुरा ।

तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः

॥६॥

एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम् ।

नारायणाश्रमं प्राप्तो गतखेदश्च तस्थिवान्

॥७॥

तस्मै योगात्मने नत्वा ब्रह्मदेवतनूद्भवः ।

पर्यपृच्छदिमं चार्थं यत्पृष्टो भवतानघ

॥८॥

नारद उवाच

देवदेव महादेव पुराणपुरुषोत्तम ।

जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण

॥९॥

जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम् ।

जायते कुत एवेदं कुतश्चेदं प्रतिष्ठितम्

॥१०॥

कुतोऽन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः ।

केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात्

॥११॥

कयार्चया किं जपेन किं ध्यानेनात्महृत्कजे ।

प्रकाशो जायते देव तमस्यर्कोदयो यथा

॥१२॥

एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः ।

यथा लोकस्तरेदन्धतमसं त्वञ्जसैव हि

॥१३॥

व्यास उवाच

एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः ।

नारायणो महायोगी प्रतिनन्द्य वचोऽब्रवीत्

॥१४॥

श्रीनारायण उवाच

शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् ।

येन ज्ञातेन मर्त्यो हि जायते न जगद्भ्रमे

॥१५॥

जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि ।

ऋषिभिर्देवगन्धर्वैरन्यैश्चापि मनीषिभिः

॥१६॥

सा जगत्सृजते देवी तया च प्रतिपाल्यते ।

तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात्

॥१७॥

तस्याः स्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपूजितम् ।

स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा

॥१८॥

मनुः स्वायम्भुवस्त्वाद्यः पद्मपुत्रः प्रतापवान् ।

शतरूपापतिः श्रीमान्सर्वमन्वन्तराधिपः

॥१९॥

स मनुः पितरं देवं प्रजापतिमकल्मषम् ।

भक्त्या पर्यचरत्पूर्वं तमुवाचात्मभूः सुतम्

॥२०॥

पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् ।

तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्ध्यति

॥२१॥

एवमुक्तः प्रजास्रष्ट्रा मनुः स्वायम्भुवो विराट् ।

जगद्योनिं तदा देवीं तपसातर्पयद् विभुः

॥२२॥

तुष्टाव देवीं देवेशीं समाहितमतिः किल ।

आद्यां मायां सर्वशक्तिं सर्वकारणकारणाम्

॥२३॥

मनुरुवाच

नमो नमस्ते देवेशि जगत्कारणकारणे ।

शङ्खचक्रगदाहस्ते नारायणहृदाश्रिते

॥२४॥

वेदमूर्त्ते जगन्मातः कारणस्थानरूपिणि ।

वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे

॥२५॥

माहेश्वरि महाभागे महामाये महोदये ।

महादेवप्रियावासे महादेवप्रियंकरि

॥२६॥

गोपेन्द्रस्य प्रिये ज्येष्ठे महानन्दे महोत्सवे ।

महामारीभयहरे नमो देवादिपूजिते

॥२७॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते

॥२८॥

यतश्चेदं यया विश्वमोतं प्रोतं च सर्वदा ।

चैतन्यमेकमाद्यन्तरहितं तेजसां निधिम्

॥२९॥

ब्रह्मा यदीक्षणात्सर्वं करोति च हरिः सदा ।

पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात्

॥३०॥

मधुकैटभसम्भूतभयार्तः पद्मसम्भवः ।

यस्याः स्तवेन मुमुचे घोरदैत्यभवाम्बुधेः

॥३१॥

त्वं ह्रीः कीर्तिः स्मृतिः कान्तिः कमला गिरिजा सती ।

दाक्षायणी वेदगर्भा सिद्धिदात्री सदाभया

॥३२॥

स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च ।

ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसीद मे

॥३३॥

ब्रह्मा वेदनिधिः कृष्णो लक्ष्यावासः पुरन्दरः ।

त्रिलोकाधिपतिः पाशी यादसाम्पतिरुत्तमः

॥३४॥

कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट् ।

नैर्ऋतो रक्षसां नाथः सोमो जातो ह्यपोमयः

॥३५॥

त्रिलोकवन्द्ये लोकेशि महामाङ्गल्यरूपिणि ।

नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः

॥३६॥

श्रीनारायण उवाच

एवं स्तुता भगवती दुर्गा नारायणी परा ।

प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वचः

॥३७॥

देव्युवाच

वरं वरय राजेन्द्र ब्रह्मपुत्र यदिच्छसि ।

प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च

॥३८॥

मनुरुवाच

यदि देवि प्रसन्नासि भक्त्या कारुणिकोत्तमे ।

तदा निर्विघ्नतः सृष्टिः प्रजायाः स्यात्तवाज्ञया

॥३९॥

देव्युवाच

प्रजासर्गः प्रभवतु ममानुग्रहतः किल ।

निर्विघ्नेन च राजेन्द्र वृद्धिश्चाप्युत्तरोत्तरम्

॥४०॥

यः कश्चित्पठते स्तोत्रं मद्भक्त्या त्वत्कृतं सदा ।

तेषां विद्या प्रजासिद्धिः कीर्तिः कान्त्युदयः खलु

॥४१॥

जायन्ते धनधान्यानि शक्तिरप्रहता नृणाम् ।

सर्वत्र विजयो राजन् सुखं शत्रुपरिक्षयः

॥४२॥

श्रीनारायण उवाच

एवं दत्त्वा वरान् देवी मनवे ब्रह्मसूनवे ।

अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः

॥४३॥

अथ लब्धवरो राजा ब्रह्मपुत्रः प्रतापवान् ।

ब्रह्माणमब्रवीत्तात स्थानं मे दीयतां रहः

॥४४॥

यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः ।

यक्ष्यामि यज्ञैर्देवेशं तत्समादिश माचिरम्

॥४५॥

इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः ।

चिन्तयामास सुचिरं कथं कार्यं भवेदिदम्

॥४६॥

सृजतो मे गतः कालो विपुलोऽनन्तसंख्यकः ।

धरा वार्भिः स्तुता मग्ना रसं याताखिलाश्रया

॥४७॥

इदं मच्चिन्तितं कार्यं भगवानादिपूरुषः ।

करिष्यति सहायो मे यदादेशेऽहमाश्रितः

॥४८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनं नाम प्रधमोऽध्यायः ॥ १ ॥