भुवनकोशप्रसङ्गे देव्या मनवे वरदानवर्णनम्
श्रीनारायण उवाच
एवं मीमांसतस्तस्य पद्मयोनेः परन्तप ।
मन्वादिभिर्मुनिवरैर्मरीच्याद्यैः समन्ततः
॥१॥ध्यायतस्तस्य नासाग्राद्विरञ्चेः सहसानघ ।
वराहपोतो निरगादेकाङ्गुलप्रमाणतः
॥२॥तस्यैव पश्यतः खस्थः क्षणेन किल नारद ।
करिमात्रं प्रववृधे तदद्भूततमं ह्यभूत्
॥३॥मरीचिमुख्यैर्विप्रेन्द्रैः सनकाद्यैश्च नारद ।
तद्दृष्ट्वा सौकरं रूपं तर्कयामास पद्मभूः
॥४॥किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम् ।
अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम्
॥५॥दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाच्छैलेन्द्रसन्निभः ।
आहोस्विद्भगवान्किं वा यज्ञो मे खेदयन्मनः
॥६॥इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः ।
वराहरूपो भगवाञ्जगर्जाचलसन्निभः
॥७॥विरञ्चिं हर्षयामास संहतांश्च द्विजोत्तमान् ।
स्वगर्जशब्दमात्रेण दिक्प्रान्तमनुनादयन्
॥८॥ते निशम्य स्वखेदस्य क्षयितुं घुर्धुरस्वनम् ।
जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः
॥९॥छन्दोमयैः स्तोत्रवरैर्ऋक्सामाथर्वसम्भवैः ।
वचोभिः पुरुषं त्वाद्यं द्विजेन्द्राः पर्यवाकिरन्
॥१०॥तेषां स्तोत्रं निशम्याद्यो भगवान् हरिरीश्वरः ।
कृपावलोकमात्रेणानुगहीत्वाप आविशत्
॥११॥तस्यान्तर्विशतः क्रूरसटाघातप्रपीडितः ।
समुद्रोऽथाब्रवीद्देव रक्ष मां शरणार्तिहन्
॥१२॥इत्याकर्ण्य समुद्रोक्तं वचनं हरिरीश्वरः ।
विदारयञ्जलचराञ्जगामान्तर्जले विभुः
॥१३॥इतस्ततोऽभिधावन्सन् विचिन्वन्पृथिवीं धराम् ।
आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः
॥१४॥अनर्जलगतां भूमिं सर्वसत्त्वाश्रयां तदा ।
भूमिं स देवदेवेशो दंष्ट्रयोदाजहार ताम्
॥१५॥तां समुद्धृत्य दंष्टाग्रे यज्ञेशो यज्ञपूरूषः ।
शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मीनीम्
॥१६॥तं दृष्ट्वा देवदेवेशो विरञ्चिः समनुः स्वराट् ।
तुष्टाव वाग्भिर्देवेशं दंष्ट्रोद्धतवसुन्धरम्
॥१७॥ब्रह्मोवाच
जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन ।
खर्वीकृतसुराधार सर्वकामफलप्रद
॥१८॥इयं च धरणी देव शोभते वसुधा तव ।
पद्यिनीव सुपत्राढ्या मतङ्गजकरोद्धृता
॥१९॥इदं च ते शरीरं वै शोभते भूमिसङ्गमात् ।
उद्धृताम्बुजशुण्डाग्रकरीन्द्रतनुसन्निभम्
॥२०॥नमो नमस्ते देवेश सृष्टिसंहारकारक ।
दानवानां विनाशाय कृतनानाकृते प्रभो
॥२१॥अग्रतश्च नमस्तेऽस्तु पृष्ठतश्च नमो नमः ।
सर्वामराधारभूत बृहद्धाम नमोऽस्तु ते
॥२२॥त्वयाहं च प्रजासर्गे नियुक्त: शक्तिबृंहितः ।
त्वदाज्ञावशतः सर्गं करोमि विकरोमि च
॥२३॥त्वत्सहायेन देवेशा अमराश्च पुरा हरे ।
सुधां विभेजिरे सर्वे यथाकालं यथाबलम्
॥२४॥इन्द्रस्त्रिलोकीसाम्राज्यं लब्धवांस्तन्निदेशत: ।
भूनक्ति लक्ष्मीं बहुलां सुरसंघप्रपूजित:
॥२५॥वह्निः पावकतां लब्ध्वा जाठरादिविभेदतः ।
देवासुरमनुष्याणां करोत्याप्यायनं तथा
॥२६॥धर्मराजोऽथ पितृणामधिपः सर्वकर्मदृक ।
कर्मणां फलदातासौ त्वन्नियोगादधीश्वरः
॥२७॥नैर्ऋतो रक्षसामीशो यक्षो विघ्नविनाशन: ।
सर्वेषां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते
॥२८॥वरुणो यादसामीशो लोकपालो जलाधिपः ।
त्वदाज्ञाबलमाश्रित्य लोकपालत्वमागतः
॥२९॥वायुर्गन्धवह: सर्वभूतप्राणनकारणम् ।
जातस्तव निदेशेन लोकपालो जगद्गुरुः
॥३०॥कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः ।
त्वदाज्ञान्तर्गतः सर्वलोकपेषु च मान्यभू
॥३१॥ईशान: सर्वरुद्राणामीश्वरान्तकरः प्रभूः ।
जातो लोकेशवन्द्योऽसौ सर्वदेवाधिपालकः
॥३२॥नमस्तुभ्यं भगवते जगदीशाय कुर्महे ।
यस्थांशभागाः सर्वे हि जाता देवाः सहस्रशः
॥३३॥नारद उवाच
एव स्तुतो विश्वसृजा भगवानादिपूरुष: ।
लीलावलोकमात्रेणाप्यनुग्रहमवासृजत्
॥३४॥तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् ।
रुन्धानमध्वनो भीमं गदयाताडयद्धरि:
॥३५॥तद्रक्तपङ्कदिग्धाङ्गो भगवानादिपूरुषः ।
उद्धृत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम्
॥३६॥निवेश्य लोकनाथेशो जगाम स्थानमात्मनः ।
एतद्भगवतश्चित्रं धरण्युद्धरणं परम्
॥३७॥शृणूयाद्य: पुमान् यश्च पठेच्चरितमुत्तमम् ।
सर्वपापविनिर्मुक्तो वैष्णवीं गतिमाप्नुयात्
॥३८॥इति श्रीमद्देवीभागवते महापुराणेअष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे धरण्युद्धारवर्णन नाम द्वितीयोऽध्यायः ॥ २ ॥
अध्याय दुसरा समाप्त