अवशिष्टनरकवर्णनम्
श्रीनारायण उवाच
ये नराः सर्वदा साक्ष्ये अनृतं भाषयन्ति च ।
दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः
॥१॥ते प्रेत्यामुत्र नरके अवीच्याख्येऽतिदारुणे ।
योजनानां शतोच्छ्रायाद्गिरिमूर्ध्नः पतन्ति हि
॥२॥अनाकाशेऽधःशिरसस्तदवीचीतिनामके ।
यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम्
॥३॥अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः ।
म्रियते नैव देवर्षे पुनरेवाऽवरोप्यते
॥४॥यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसम्भव ।
सोमपीथस्तत्कलत्रं सुरां वा पिबतीव हि
॥५॥प्रमादतस्तु तेषां वै निरये परिपातनम् ।
कुर्वन्ति यमदूतास्ते पानं कार्ष्णायसो मुने
॥६॥वह्निना द्रवमाणस्य नितरां ब्रह्मसम्भव ।
सम्भावनेन स्वस्यैव योऽधमोऽपि नराधमः
॥७॥विद्याजन्मतपोवर्णाश्रमाचारवतो नरान् ।
वरीयसोऽपि न बहु मन्यते पुरुषाधमः
॥८॥स नीयते यमभटैः क्षारकर्दमनामके ।
निरयेऽर्वाक्शिरा घोरा दुरन्तयातनाश्नुते
॥९॥ये वै नरा यजन्त्यन्यं नरमेधेन मोहिताः ।
स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने
॥१०॥पशवो निहितास्ते तु यमसद्यनि सङ्गताः ।
सौनिका इव ते सर्वे विदार्य शितधारया
॥११॥असृक्पिबन्ति नृत्यन्ति गायन्ति बहुधा मुने ।
यथेह मांसभोक्तारः पुरुषादा दुरासदाः
॥१२॥अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक ।
वैश्रम्भकैरुपसृतान्विश्रम्भय्यजिजीविषून्
॥१३॥शूलसूत्रादिषु प्रोतान्क्रीडनोत्कारकानिव ।
पातयन्ति च ते प्रेत्य शूलपाते पतन्ति ह
॥१४॥शूलादिषु प्रोतदेहाः क्षुत्तृड्भ्यां चातिपीडिताः ।
तिग्मतुण्डैः कङ्कबकैरितश्चेतश्च ताडिताः
॥१५॥पीडिता आत्मशमलं बहुधा संस्मरन्ति हि ।
ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः
॥१६॥यथा सर्पादिकास्तेऽपि नरके निपतन्ति हि ।
दन्दशूकाभिधाने च यत्रोत्तिष्ठन्ति सर्वतः
॥१७॥पञ्चाननः सप्तमुखा ग्रसन्ति नरकागतान् ।
यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः
॥१८॥येऽवटेषु कुसूलादिगुहादिषु निरुन्धते ।
तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ।
१९ तेष्वेवोपविशित्वा च सगरेण च वह्निना ।
धूमेन च निरुन्धन्ति पापकर्मरतान्नरान्
॥२०॥योऽतिथीन्समयप्राप्तान्दिधक्षुरिव चक्षुषा ।
पापेनेहालोकयेच्च स्वयं गृहपतिर्द्विजः
॥२१॥तस्यापि पापदृष्टेर्हि निरये यमकिङ्कराः ।
अक्षिणी वज्रतुण्डा ये कङ्काः काकवटादयः
॥२२॥गृध्राः क्रूरतराश्चापि प्रसह्योत्पाटयन्ति हि ।
य आढ्याभिमतिर्याति अहङ्कृत्यातिगर्वितः
॥२३॥तिर्यक्प्रेक्षण एवात्राभिविशङ्की नराधमः ।
चिन्तयार्थस्य सर्वत्रायतिव्ययस्वरूपया
॥२४॥शुष्यद्धृदयवक्त्रश्च निर्वृतिं नैव गच्छति ।
ग्रहवद्रक्षते चार्थं स प्रेतो यमकिङ्करैः
॥२५॥सूचीमुखे च नरके पात्यते निजकर्मणा ।
वित्तग्रहं च पुरुषं वायका इव याम्यकाः
॥२६॥किङ्कराः सर्वतोऽङ्गेषु सूत्रैः परिवयन्ति हि ।
एते बहुविधा विप्र नरकाः पापकर्मणाम्
॥२७॥नराणां शतशः सन्ति यातनास्थानभूमयः ।
सहस्रशोऽपि देवर्षे उक्तानुक्तांस्तथापि हि
॥२८॥विशन्ति नरकानेतान्यातनाबहुलान्मुने ।
तथा धर्मपराश्चापि लोकान्यान्ति सुखोद्गतान्
॥२९॥स्वधर्मो बहुधा गीतो यथा तव महामुने ।
देवीपूजनरूपो हि देव्याराधनलक्षणः
॥३०॥येनानुष्ठितमात्रेण नरो न नरकं व्रजेत् ।
सा देवी भवपाथोधेरुद्धर्त्री पूजिता नृणाम्
॥३१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे- ऽवशिष्टनरकवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥