मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १८

3
अष्टमस्कन्धः · 18

राहुमण्डलाद्यवस्थानवर्णनम्

श्रीनारायण उवाच

अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।

नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः

॥१॥

सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः ।

अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात्

॥२॥

यददस्तरणेर्बिम्बं तपतो योजनायुतम् ।

तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम्

॥३॥

त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः ।

यः पर्वसमये वैरानुबन्धी छादकोऽभवत्

॥४॥

सूर्याचन्द्रमसोर्दूराद्भवेच्छादनकारकः ।

तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम्

॥५॥

चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।

तत्तेजसा दुःसहेन समन्तात्परिवारितम्

॥६॥

मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः ।

आरान्निवर्तते सोऽयमुपराग इतीव ह

॥७॥

उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् ।

ततोऽधस्तात्समाख्याता लोकाः परमपावनाः

॥८॥

सिद्धानां चारणानां च विद्याध्राणां च सत्तम ।

योजनायुतविख्याता लोकाः पुण्यनिषेविताः

॥९॥

ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् ।

पिशाचप्रेतभूतानां विहाराजिरमुत्तमम्

॥१०॥

अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि ।

यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः

॥११॥

ततोऽधस्ताद्योजनानां शतं यावद् द्विजोत्तम ।

पृथिवी परिसंख्याता सुपर्णश्येनसारसाः

॥१२॥

हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः ।

भूसन्निवेशावस्थानं यथावदुपवर्णितम्

॥१३॥

अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः ।

एकैकशो योजनानामायामोच्छ्रायतः पुनः

॥१४॥

अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः ।

अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा

॥१५॥

तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् ।

महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम्

॥१६॥

सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः ।

एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च

॥१७॥

कामभोगैश्वर्यसुखसमृद्धभुवनेषु च ।

नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते

॥१८॥

दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः ।

नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः

॥१९॥

सुहृद्भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः ।

ईश्वरादप्रतिहतकामा मायाविनश्च ते

॥२०॥

निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः ।

मयेन मायाविभुना येषु येषु च निर्मिताः

॥२१॥

पुरः प्रकामशो भक्ता मणिप्रवरशालिनः ।

विचित्रभवनाट्टालगोपुराद्याः सहस्रशः

॥२२॥

सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः ।

नागासुराणां मिथुनैः सपारावतसारिकैः

॥२३॥

कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः ।

अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च

॥२४॥

मनःप्रसन्नकारीणि फलपुष्पविशालिभिः ।

ललनानां विलासार्हस्थानैः शोभितभाञ्जि च

॥२५॥

नानाविहंगमव्रातसंयुक्तजलराशिभिः ।

स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः

॥२६॥

जलजन्तुक्षुब्धनीरनीरजातैरनेकशः ।

कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा

॥२७॥

तेषु कृतनिकेतानां विहारैः सङ्कुलानि च ।

इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः

॥२८॥

अमराणां च परमां श्रियं चातिशयन्ति च ।

यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः

॥२९॥

यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः ।

नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः

॥३०॥

न वा एतेषु वसतां दिव्यौषधिरसायनैः ।

रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः

॥३१॥

वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः ।

अनुत्साहवयोऽवस्था न बाधन्ते कदाचन

॥३२॥

कल्याणानां सदा तेषां न च मृत्युभयं कुतः ।

भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात्

॥३३॥

यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः ।

प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक

॥३४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥