भुवनकोशविषये प्रियव्रतवंशवर्णनम्
श्रीनारायण उवाच
मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः ।
पितुः सेवापरो नित्यं सत्यधर्मपरायणः
॥१॥प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः ।
बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः
॥२॥तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः ।
जनयामास कन्यां चोर्जस्वतीं च यवीयसीम्
॥३॥आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः ।
महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः
॥४॥घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः ।
वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः
॥५॥एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः ।
कविश्च सवनश्चैव महावीर इति त्रयः
॥६॥आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः ।
आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः
॥७॥अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे ।
उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः
॥८॥मन्वन्तराधिपतय एते पुत्रा महौजसः ।
प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम्
॥९॥एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः ।
यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत्
॥१०॥भागे द्वितीये तत्रासीदन्धकारोदयः किल ।
एवं व्यतिकरं राजा विलोक्य मनसा चिरम्
॥११॥प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् ।
एवं निवारयिष्यामि भूमौ योगबलेन च
॥१२॥एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः ।
रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन्
॥१३॥तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः ।
पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे
॥१४॥जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः ।
रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः
॥१५॥यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः ।
जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः
॥१६॥कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः ।
तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम्
॥१७॥समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च ।
क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः
॥१८॥क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः ।
सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा
॥१९॥प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः ।
तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम्
॥२०॥प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससंप्लुते ।
जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः
॥२१॥शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते ।
यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः
॥२२॥कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते ।
हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः
॥२३॥क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसंप्लुते ।
प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः
॥२४॥शाकद्वीपे चारुतरे दधिमण्डोदसंकुले ।
मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः
॥२५॥पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले ।
वीतिहोत्रो बभूवासौ राजा जनकसम्मतः
॥२६॥कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः ।
आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता
॥२७॥एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः ।
विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत्
॥२८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ ४ ॥