सोमादिगतिवर्णनम्
श्रीनारायण उवाच
अथातः श्रूयतां चित्रं सोमादीनां गमादिकम् ।
तद्गत्यनुसृता नॄणां शुभाशुभनिदर्शना
॥१॥यथा कुलालचक्रेण भ्रमता भ्रमतां सह ।
तदाश्रयाणां च गतिरन्या कीटादिनां भवेत्
॥२॥एवं हि राशिवृन्देन कालचक्रेण तेन च ।
मेरुं धुरं च सरतां प्रादक्षिण्येन सर्वदा
॥३॥ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते ।
नक्षत्रान्तरगामित्वाद्भान्तरे गमनं तथा
॥४॥गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः ।
स एव भगवानादिपुरुषो लोकभावनः
॥५॥नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् ।
कर्मशुद्धिनिमित्तं तु आत्मानं वै त्रयीमयम्
॥६॥कविभिश्चैव वेदेन विजिज्ञास्योऽर्कधाभवत् ।
षट्सु क्रमेण ऋतुषु वसन्तादिषु च स्वयम्
॥७॥यथोपजोषमृतुजान् गुणान् वै विदधाति च ।
तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा
॥८॥वर्णाश्रमाचारपथा तथाम्नातैश्च कर्मभिः ।
उच्चावचैः श्रद्धया च योगानां च वितानकैः
॥९॥अञ्जसा च यजन्ते ये श्रेयो विन्दन्ति ते मतम् ।
अथैष आत्मा लोकानां द्यावाभूम्यन्तरेण च
॥१०॥कालचक्रगतो भुङ्क्ते मासान्द्वादशराशिभिः ।
संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा
॥११॥नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते ।
यावता षष्ठमंशं स भुञ्जीत ऋतुरुच्यते
॥१२॥संवत्सरस्यावयवः कविभिश्चोपवर्णितः ।
यावतार्धेन चाकाशवीथ्यां प्रचरते रविः
॥१३॥तं प्राक्तना वर्णयन्ति अयनं मुनिपूजिताः ।
अथ यावन्नभोमण्डलं सह प्रतिगच्छति
॥१४॥कार्त्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः ।
संवत्सरं परिवत्सरमिडावत्सरमेव च
॥१५॥अनुवत्सरमिद्वत्सरमिति पञ्चकमीरितम् ।
भानोर्मान्द्यशैघ्र्यसमगतिभिः कालवित्तमैः
॥१६॥एवं भानोर्गतिः प्रोक्ता चन्द्रादीनां निबोधत ।
एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमूर्ध्वतः
॥१७॥उपलभ्यमानो मित्रस्य संवत्सरभुजिं च सः ।
पक्षाभ्यां चौषधीनाथो भुङ्क्ते मासभुजिं च सः
॥१८॥सपादमाभ्यां दिवसभुक्तिं पक्षभुजिं चरेत् ।
एवं शीघ्रगतिः सोमो भुङ्क्ते नूनं भचक्रकम्
॥१९॥पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् ।
क्षीयमाणकलाभिश्च पितॄणां चित्तरञ्जकः
॥२०॥अहोरात्राणि तन्वानः पूर्वापरसुघस्रकैः ।
सर्वजीवनिकायस्य प्राणो जीवः स एव हि
॥२१॥भुङ्क्ते चैकैकनक्षत्रं मुहूर्तत्रिंशता विभुः ।
स एव षोडशकलः पुरुषोऽनादिसत्तमः
॥२२॥मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः ।
देवपितृमनुष्यादिसरीसृपसवीरुधाम्
॥२३॥प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते ।
ततो भचक्रं भ्रमति योजनानां त्रिलक्षतः
॥२४॥मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु ।
अष्टाविंशतिसंख्यानि गणितानि सहाभिजित्
॥२५॥ततः शुक्रो द्विलक्षेण योजनानामथोपरि ।
पुरः पश्चात्सहैवासावर्कस्य परिवर्तते
॥२६॥शीघ्रमन्दसमानाभिर्गतिभिर्विचरन्विभुः ।
लोकानामनुकूलोऽयं प्रायः प्रोक्तः शुभावहः
॥२७॥वृष्टिविष्टम्भशमनो भार्गवः सर्वदा मुने ।
शुक्राद् बुधः समाख्यातो योजनानां द्विलक्षतः
॥२८॥शीघ्रमन्दसमानाभिर्गतिभिः शुक्रवत्सदा ।
यदार्काद्व्यतिरिच्येत सौम्यः प्रायेण तत्र तु
॥२९॥अतिवाताभ्रपातानां वृष्ट्यादिभयसूचकः ।
उपरिष्ठात्ततो भौमो योजनानां द्विलक्षतः
॥३०॥पक्षैस्त्रिभिस्त्रिभिः सोऽयं भुङ्क्ते राशीनथैकशः ।
द्वादशापि च देवर्षे यदि वक्रो न जायते
॥३१॥प्रायेणाशुभकृत्सोऽयं ग्रहौघानां च सूचकः ।
नतो द्विलक्षमानेन योजनानां च गीष्पतिः
॥३२॥एकैकस्मिन्नथो राशौ भुङ्गे संवत्सरं चरन् ।
यदि वक्रो भवेन्नैवानुकूलो ब्रह्मवादिनाम्
॥३३॥ततः शनैश्चरो घोरो लक्षद्वयपरो मितः ।
योजनैः सूर्यपुत्रोऽयं त्रिंशन्मासैः परिभ्रमन्
॥३४॥एकैकराशौ पर्येति सर्वान् राशीन्महाग्रहः ।
सर्वेषामशुभो मन्दः प्रोक्तः कालविदां वरैः
॥३५॥तत उत्तरतः प्रोक्तमेकादशसुलक्षकैः ।
योजनैः परिसंख्यातं सप्तर्षीणां च मण्डलम्
॥३६॥लोकानां शं भावयन्तो मुनयः सप्त ते मुने ।
यत्तद्विष्णुपदं स्थानं दक्षिणं प्रक्रमन्ति ते
॥३७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहस्र्यां संहितायामष्टमस्कन्धे सोमादिगतिवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥