मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय २०

3
अष्टमस्कन्धः · 20

तलातलादिलोकवर्णनेऽनन्तवर्णनम्

श्रीनारायण उवाच

ततोऽधस्ताद्विवरकं तलातलमुदीरितम् ।

दानवेन्द्रो मयो नाम त्रिपुराधिपतिर्महान्

॥१॥

त्रिलोक्याः शङ्करेणायं पालितो दग्धपूस्त्रयः ।

देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः

॥२॥

आचार्यो मायिनां सोऽयं नानामायाविशारदः ।

पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये

॥३॥

ततोऽधस्तास्तुविख्यातं महातलमिति स्फुटम् ।

सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान्

॥४॥

अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते ।

कुहकस्तक्षकश्चैव सुषेणः कालियस्तथा

॥५॥

महाभोगा महासत्त्वाः क्रूराः क्रूरस्वजातयः ।

पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते

॥६॥

स्वकलत्रापत्यसुहृत्कुटुम्बस्य च सङ्गताः ।

प्रमत्ता विहरन्त्येव नानाक्रीडाविशारदाः

॥७॥

ततोऽधस्ताच्च विवरे रसातलसमाह्वये ।

दैतेया निवसन्त्येव पणयो दानवाश्च ये

॥८॥

निवातकवचा नाम हिरण्यपुरवासिनः ।

कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम्

॥९॥

महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा ।

सकलेशस्य च हरेस्तेजसा हतविक्रमाः

॥१०॥

बिलेशया इव सदा विवरे निवसन्ति हि ।

ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम्

॥११॥

मन्त्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह ।

ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः

॥१२॥

वासुकिप्रमुखाः शङ्खः कुलिकः श्वेत एव च ।

धनञ्जयो महाशङ्खो धृतराष्ट्रस्तथैव च

॥१३॥

शङ्खचूडः कम्बलाश्वतरो देवोपदत्तकः ।

महामर्षा महाभोगा निवसन्ति विषोल्बणाः

॥१४॥

पञ्चमस्तकवन्तश्च फणासप्तकभूषिताः ।

केचिद्दशफणाः केचिच्छतशीर्षास्तथापरे

॥१५॥

सहस्रशिरसः केऽपि रोचिष्णुमणिधारकाः ।

पातालरन्ध्रतिमिरनिकरं स्वमरीचिभिः

॥१६॥

विधमन्ति च देवर्षे सदा सञ्जातमन्यवः ।

अस्य मूलप्रदेशे हि त्रिंशत्साहस्रकेऽन्तरे

॥१७॥

योजनैः परिसंख्याते तामसी भगवत्कला ।

अनन्ताख्या समास्ते हि सर्वदेवप्रपूजिता

॥१८॥

अहमित्यभिमानस्य लक्षणं यं प्रचक्षते ।

सङ्कर्षणं सात्वतीयाः कर्षणं द्रष्ट्टदृश्ययोः

॥१९॥

इदं भूमण्डलं यस्य सहस्रशिरसः प्रभोः ।

अनन्तमूर्तेः शेषस्य ध्रियमाणं च शीर्षके

॥२०॥

पृध्वीगोलमशेषं हि सिद्धार्थ इव लक्ष्यते ।

यस्य कालेन देवस्य सञ्जिहीर्षोः समं विभोः

॥२१॥

चराचरं भ्रुवोरन्तर्विवरादुदपद्यत ।

साङ्कर्षणो नाम रुद्रो व्यूहैकादशशोभितः

॥२२॥

त्रिलोचनश्च त्रिशिखं शूलमुत्तम्भयन्स्वयम् ।

उदतिष्ठन्महासत्त्वो महाभूतक्षयङ्करः

॥२३॥

यस्याङ्घ्रिकमलद्वन्द्वशोणाच्छनखमण्डले ।

विराजन्मणिबिम्बेषु महाहिपतयोऽनिशम्

॥२४॥

एकान्तभक्तियोगेन सह सात्त्वतपुङ्गवैः ।

प्रणमन्तः स्वमूर्ध्ना ते स्वमुखानि समीक्षते

॥२५॥

स्फुरत्कुण्डलमाणिक्यप्रभामण्डलभाञ्ज्यपि ।

सुकपोलानि चारूणि गण्डस्थलद्युमन्ति च

॥२६॥

नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः ।

विशदैर्विपुलैस्तद्वद्धवलैः सुभगैस्तथा

॥२७॥

रुचिरैर्भुजदण्डैश्च शोभमाना इतस्ततः ।

चन्दनागुरुकाश्मीरपङ्कलेपेन भूषिताः

॥२८॥

तदभिमर्षसञ्जातकामावेशसमायुताः ।

ललितस्मितसंयुक्ताः सव्रीडं लोकयन्ति च

॥२९॥

अनुरागमदोन्मत्तविघूर्णारुणलोचनम् ।

करुणावलोकनेत्रं च आशासानास्तथाशिषः

॥३०॥

सोऽनन्तो भगवान्देवोऽनन्तसत्त्वो महाशयः ।

अनन्तगुणवार्धिश्च आदिदेवो महाद्युतिः

॥३१॥

संहृतामर्षरोषादिवेगो लोकशुभाय च ।

आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः

॥३२॥

ध्यायमानः सुरैः सिद्धैरसुरैश्चोरगैस्तथा ।

विद्याधरैश्च गन्धर्वैर्मुनिसङ्घैश्च नित्यशः

॥३३॥

अनारतमदोन्मत्तलोकविह्वललोचनः ।

वाक्यामृतेन विबुधान्स्वपार्षदगणानपि

॥३४॥

आप्यायमानः स विभुर्वैजयन्तीं स्रजं दधत् ।

अम्लानाभिनवैः स्वच्छैस्तुलसीदलसञ्चयैः

॥३५॥

माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा ।

नीलवासा देवदेव एककुण्डलभूषितः

॥३६॥

हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः ।

महेन्द्रः काञ्चनीं यद्वद्वरत्रां च मतङ्गमः ।

उदारलीलो देवेशो वर्णितः सात्त्वतर्षभैः

॥३७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे तलातलादिलोकवर्णनेऽनन्तवर्णनं नाम विंशोऽध्यायः ॥ २० ॥