मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १३

3
अष्टमस्कन्धः · 13

भुवनकोशवर्णने क्रौञ्चशाकपुष्करद्वीपवर्णनम्

नारद उवाच

शिष्टद्वीपप्रमाणं च वद सर्वार्थदर्शन ।

येन विज्ञातमात्रेण परानन्दमयो भवेत्

॥१॥

श्रीरानारायण उवाच

कुशद्वीपस्य परितो घृतोदावरणं महत् ।

ततो बहिः क्रौंचद्वीपो द्विगुणः स्यात्स्वमानतः

॥२॥

क्षीरोदेनावृतो भाति यस्मिन्क्रौंचाद्रिरस्ति च ।

नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते

॥३॥

योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराभवत् ।

क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः

॥४॥

घृतपृष्ठो नाम यस्य विभाति किल नायकः ।

प्रियव्रतात्मजः श्रीमान् सर्वलोकनमस्कृतः

॥५॥

स्वद्वीपं तु विभज्यैव सप्तधा स्वात्मजान्ददौ ।

पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन्

॥६॥

स्वयं भगवतस्तस्य शरणं सञ्जगाम ह ।

आमो मधुरुहश्चैव मेघपृष्ठः सुधामकः

॥७॥

भ्राजिष्ठो लोहितार्णश्च वनस्पतिरितीव च ।

नगा नद्यश्च सप्तैव विख्याता भुवि सर्वतः

॥८॥

शुक्लो वै वर्धमानश्च भोजनश्चोपबर्हणः ।

नन्दश्च नन्दनः सर्वतोभद्र इति कीर्तिताः

॥९॥

अभया अमृतौघा चार्यका तीर्थवतीति च ।

वृत्तिरूपवती शुक्ला पवित्रवतिका तथा

॥१०॥

एतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते ।

पुरुषऋषभौ तद्वद् द्रविणाख्यश्च देवकः

॥११॥

एते चतुर्वर्णजाताः पुरुषा निवसन्ति हि ।

तत्रत्याः पुरुषा आपोमयं देवमपां पतिम्

॥१२॥

पूर्णेनाञ्जलिना भक्त्या यजन्ते विविधक्रियाः ।

आपः पुरुषवीर्याः स्थ पुनन्तीर्भूर्भुवः स्वरः

॥१३॥

ता नः पुनीतामीवघ्नीः स्पृशतामात्मना भुवः ।

इति मन्त्रजपान्ते च स्तुवन्ति विविधैः स्तवैः

॥१४॥

एवं परस्तात्क्षीरोदात्परितश्चोपवेशितः ।

द्वात्रिंशल्लक्षसंख्याकयोजनायाममाश्रितः

॥१५॥

स्वमानेन च द्वीपोऽयं दधिमण्डोदकेन च ।

शाकद्वीपो विशिष्टोऽयं यस्मिच्छाको महीरुहः

॥१६॥

स्वक्षेत्रव्यपदेशस्य कारणं स हि नारद ।

प्रैयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः

॥१७॥

विभज्य सप्त वर्षाणि पुत्रनामानि तेषु च ।

सप्त पुत्रान्निजान् स्थाप्य स्वयं योगगतिं गतः

॥१८॥

पुरोजवो मनःपूर्वजवोऽथ पवमानकः ।

धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक्

॥१९॥

मर्यादागिरयः सप्त नद्यः सप्तैव कीर्तिताः ।

ईशान ऊरुशृङ्गोऽथ बलभद्रः शतकेशरः

॥२०॥

सहस्रस्रोतको देवपालोऽप्यन्ते महाशनः ।

एतेऽद्रयः सप्त चोक्ताः सरिन्नामानि सप्त च

॥२१॥

अनघा प्रथमाऽऽयुर्दा उभयस्पृष्टिरेव च ।

अपराजिता पञ्चपदी सहस्रश्रुतिरेव च

॥२२॥

ततो निजधृतिश्चोक्ताः सप्त नद्यो महोज्ज्वलाः ।

तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ

॥२३॥

दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः ।

भगवन्तं प्राणवायुं प्राणायामेन संयुताः

॥२४॥

यजन्ति निर्धूतरजस्तमसः परमं हरिम् ।

अन्तः प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभिः

॥२५॥

अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् ।

परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः

॥२६॥

पुष्करद्वीपनामायं शाकद्वीपद्विसंगुणः ।

स्वसमानेन स्वादूदकेनायं परिवेष्टितः

॥२७॥

यत्रास्ते पुष्करं भ्राजदग्निचूडानिभानि च ।

पत्राणि विशदानीह स्वर्णपत्रायुतायुतम्

॥२८॥

श्रीमद्भगवतश्चेदमासनं परमेष्ठिनः ।

कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया

॥२९॥

तद्द्वीप एक एवायं मानसोत्तरनामकः ।

अर्वाचीनपराचीनवर्षयोरवधिर्गिरिः

॥३०॥

उच्छ्रायायामयोः संख्यायुतयोजनसम्मिता ।

यत्र दिक्षु च चत्वारि चतसृषु पुराणि ह

॥३१॥

इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः ।

मेरुं प्रदक्षिणीकुर्वन् भानुः पर्येति यत्र हि

॥३२॥

संवत्सरात्मकं चक्रं देवाहोरात्रतो भ्रमन् ।

प्रैयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम्

॥३३॥

वर्षद्वये परिस्थाप्य वर्षनामधरं क्रमात् ।

रमणो धातकिश्चैव तत्तद्वर्षपती उभौ

॥३४॥

कृताः स्वयं पूर्वजवद्भगवद्भक्तितत्पराः ।

तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम्

॥३५॥

सकर्मकेन योगेन यजन्ति परिशीलिताः ।

यत्तत्कर्ममयं लिङ्ग ब्रह्मलिङ्गं जनोऽर्चयेत् ।

एकान्तमद्वयं शान्तं तस्मै भगवते नमः

॥३६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनं क्रौञ्चशाकपुष्करद्वीपवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥