मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १७

3
अष्टमस्कन्धः · 17

ध्रुवमण्डलसंस्थानवर्णनम्

श्रीनारायण उवाच

अथर्षिमण्डलादूर्ध्वं योजनानां प्रमाणतः ।

लक्षैस्त्रयोदशमितैः परमं वैष्णवं पदम्

॥१॥

महाभागवतः श्रीमान् वर्तते लोकवन्दितः ।

औत्तानपादिरिन्द्रेण वह्निना कश्यपेन च

॥२॥

धर्मेण सह चैवास्ते समकालयुजा ध्रुवः ।

बहुमानं दक्षिणतः कुर्वद्भिः प्रेक्षकैः सदा

॥३॥

आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् ।

ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम्

॥४॥

कालेनानिमिषेणायं भ्राम्यतां व्यक्तरंहसा ।

अवष्टम्भस्थाणुरिव विहितश्चेश्वरेण सः

॥५॥

भासते भासयन्भासा स्वीयया देवपूजितः ।

मेढिस्तम्भे यथा युक्ताः पशवः कर्षणार्थकाः

॥६॥

मण्डलानि चरन्तीमे सवनत्रितयेन च ।

एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम्

॥७॥

अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः ।

ध्रुवमेवावलम्ब्याशु वायुनोदीरिताश्च ते

॥८॥

आकल्पान्तं च क्रमन्ति खे श्येनाद्याः खगा इव ।

कर्मसारथयो वायुवशगाः सर्व एव ते

॥९॥

एवं ज्योतिर्गणाः सर्वे प्रकृतेः पुरुषस्य च ।

संयोगानुगृहीतास्ते भूमौ न निपतन्ति च

॥१०॥

ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् ।

सोपयोगं भगवतो योगधारणकर्मणि

॥११॥

यस्यार्वाक्शिरसः कुण्डलीभूतवपुषो मुने ।

पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः

॥१२॥

लाङ्गूलेऽस्य च सम्प्रोक्तः प्रजापतिरकल्मषः ।

अग्निरिन्द्रश्च धर्मश्च तिष्ठन्ते सुरपूजिताः

॥१३॥

धाता विधाता पुच्छान्ते कट्यां सप्तर्षयस्ततः ।

दक्षिणावर्तभोगेन कुण्डलाकारमीयुषः

॥१४॥

उत्तरायणभानीह दक्षपार्श्वेऽर्पितानि च ।

दक्षिणायनभानीह सव्ये पार्श्वेऽर्पितानि च

॥१५॥

कुण्डलाभोगवेशस्य पार्श्वयोरुभयोरपि ।

समसंख्याश्चावयवा भवन्ति कजनन्दन

॥१६॥

अजवीथी पृष्ठभागे आकाशसरिदौदरे ।

पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः

॥१७॥

आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः ।

अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः

॥१८॥

यथासंख्यं च देवर्षे श्रुतिश्च जलभं तथा ।

कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः

॥१९॥

धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः ।

मघादीन्यष्टभानीह दक्षिणायनगानि च

॥२०॥

युञ्जीत वामपार्श्वीयवंक्रिषु क्रमतो मुने ।

तथैव मृगशीर्षादीन्युदग्भानि च यानि हि

॥२१॥

दक्षपार्श्वे वंक्रिकेषु प्रातिलोम्येन योजयेत् ।

शततारा तथा ज्येष्ठा स्कन्धयोर्दक्षवामयोः

॥२२॥

अगस्तिश्चोत्तरहनावधरायां हनौ यमः ।

मुखेष्वङ्गारकः प्रोक्तो मन्दः प्रोक्त उपस्थके

॥२३॥

बृहस्पतिश्च ककुदि वक्षस्यर्को ग्रहाधिपः ।

नारायणश्च हृदये चन्द्रो मनसि तिष्ठति

॥२४॥

स्तनयोरश्विनौ नाभ्यामुशनाः परिकीर्तितः ।

बुधः प्राणापानयोश्च गले राहुश्च केतवः

॥२५॥

सर्वाङ्गेषु तथा रोमकूपे तारागणाः स्मृताः ।

एतद्भगवतो विष्णोः सर्वदेवमयं वपुः

॥२६॥

सन्ध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः ।

निरीक्षमाणश्चोत्तिष्ठेन्मन्त्रेणानेन धीश्वरः

॥२७॥

नमो ज्योतिर्लोकाय कालायानिमिषां पतये महापुरुषायाभिधीमहीति

॥२८॥

ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् ।

नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम्

॥२९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे ध्रुवमण्डलसंस्थानवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥