मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय २४

3
अष्टमस्कन्धः · 24

देवीपूजनविधिनिरूपणम्

नारद उवाच

धर्मश्च कीदृशस्तात देव्याराधनलक्षणः ।

कथमाराधिता देवी सा ददाति परं पदम्

॥१॥

आराधनविधिः को वा कथमाराधिता कदा ।

केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत्

॥२॥

श्रीनारायण उवाच

देवर्षे शृणु चित्तैकाग्र्येण मे विदुषां वर ।

यथा प्रसीदते देवी धर्माराधनतः स्वयम्

॥३॥

स्वधर्मो यादृशः प्रोक्तस्तं च मे शृणु नारद ।

अनादाविह संसारे देवी सशृजिता स्वयम्

॥४॥

परिपालयते घोरसङ्कटादिषु सा मुने ।

सा देवी पूज्यते लोकैर्यथावत्तद्विधिं शृणु

॥५॥

प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत् ।

घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा

॥६॥

द्वितीयायां शर्करया पूजयेज्जगदम्बिकाम् ।

शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः

॥७॥

तृतीयादिवसे देव्यै दुग्धं पूजनकर्मणि ।

क्षीरं दत्त्वा द्विजाग्र्याय सर्वदुःखातिगो भवेत्

॥८॥

चतुर्थ्यां पूजनेऽपूपा देया देव्यै द्विजाय च ।

अपूपा एव दातव्या न विघ्नैरभिभूयते

॥९॥

पञ्चम्यां कदलीजातं फलं देव्यै निवेदयेत् ।

तदेव ब्राह्मणे देयं मेधावान्पुरुषो भवेत्

॥१०॥

षष्ठीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि ।

ब्राह्मणाय च दातव्यं मधु कान्तिर्यतो भवेत्

॥११॥

सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च ।

गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम

॥१२॥

नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत् ।

ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः

॥१३॥

नवम्यां लाजमम्बायै चार्पयित्वा द्विजाय च ।

दत्त्वा सुखाधिको भूयादिह लोके परत्र च

॥१४॥

दशम्यामर्पयित्वा तु देव्यै कृष्णतिलान्मुने ।

ब्राह्मणाय प्रदत्त्वा तु यमलोकाद्भयं न हि

॥१५॥

एकादश्यां दधि तथा देव्यै चार्पयते तु यः ।

ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत्

॥१६॥

द्वादश्यां पृथुकान्देव्यै दत्त्वाचार्याय यो ददेत् ।

तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत्

॥१७॥

त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च ।

तानेव दत्त्वा विप्राय प्रजासन्ततिमान्भवेत्

॥१८॥

चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति ।

तानेव दद्याद्विप्राय शिवस्य दयितो भवेत्

॥१९॥

पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति ।

ददाति च द्विजाग्र्याय पितृनुद्धरतेऽखिलान्

॥२०॥

तत्तिथौ हवनं प्रोक्तं देवीप्रीत्यै महामुने ।

तत्तत्तिथ्युक्तवस्तूनामशेषारिष्टनाशनम्

॥२१॥

रविवारे पायसं च नैवेद्यं परिकीर्तितम् ।

सोमवारे पयः प्रोक्तं भौमे च कदलीफलम्

॥२२॥

बुधवारे च सम्प्रोक्तं नवनीतं नवं द्विज ।

गुरुवारे शर्करां च सितां भार्गववासरे

॥२३॥

शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम् ।

सप्तविंशतिनक्षत्रनैवेद्यं श्रूयतां मुने

॥२४॥

घृतं तिलं शर्करां च दधि दुग्धं किलाटकम् ।

दथिकूर्ची मोदकं च फेणिकां घृतमण्डकम्

॥२५॥

कंसारं वटपत्रं च घृतपूरमतः परम् ।

वटकं कोकरसकं पूरणं मधु सूरणम्

॥२६॥

गुडं पृथुकद्राक्षे च खर्जूरं चैव चारकम् ।

अपूपं नवनीतं च मुद्गं मोदक एव च

॥२७॥

मातुलिङ्गमिति प्रोक्तं भनैवेद्यं च नारद ।

विष्कम्भादिषु योगेषु प्रवक्ष्यामि निवेदनम्

॥२८॥

पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका ।

गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम्

॥२९॥

नवनीतं कर्कटीं च कूष्माण्डं चापि मोदकम् ।

पनसं कदलं जम्बुफलमाम्रफलं तिलम्

॥३०॥

नारङ्गं दाडिमं चैव बदरीफलमेव च ।

धात्रीफलं पायसञ्च पृथुकं चणकं तथा

॥३१॥

नारिकेलं जम्भफलं कसेरुं सूरणं तथा ।

एतानि क्रमशो विप्र नैवेद्यानि शुभानि च

॥३२॥

विष्कम्भादिषु योगेषु निर्णीतानि मनीषिभिः ।

अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने

॥३३॥

कंसारं मण्डकं फेणी मोदकं वटपत्रकम् ।

लड्डुकं घृतपूरं च तिलं दधि घृतं मधु

॥३४॥

करणानामिदं प्रोक्तं देवीनैवेद्यमादरात् ।

अथान्यत्सम्प्रवक्ष्यामि देवीप्रीतिकरं परम्

॥३५॥

विधानं नारदमुने शृणु तत्सर्वमादृतः ।

चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम्

॥३६॥

पूजयेत्पञ्च खाद्यं च नैवेद्यमुपकल्पयेत् ।

एवं द्वादशमासेषु तृतीयातिथिषु क्रमात्

॥३७॥

शुक्लपक्षे विधानेन नैवेद्यमभिदध्महे ।

वैशाखमासे नैवेद्यं गुडयुक्तं च नारद

॥३८॥

ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु ।

आषाढे नवनीतं च मधुकस्य निवेदनम्

॥३९॥

श्रावणे दधि नैवेद्यं भाद्रमासे च शर्करा ।

आश्विने पायसं प्रोक्तं कार्तिके पय उत्तमम्

॥४०॥

मार्गे फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका ।

माघे मासि च नैवेद्यं मृतं गव्यं समाहरेत्

॥४१॥

नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम् ।

एवं द्वादशनैवेद्यैर्मासे च क्रमतोऽर्चयेत्

॥४२॥

मङ्गला वैष्णवी माया कालरात्रिर्दुरत्यया ।

महामाया मतङ्गी च काली कमलवासिनी

॥४३॥

शिवा सहस्रचरणा सर्वमङ्गलरूपिणी ।

एभिर्नामपदैर्देवीं मधूके परिपूजयेत्

॥४४॥

ततः स्तुवीत देवेशीं मधूकस्थां महेश्वरीम् ।

सर्वकामसमृद्ध्यर्थं व्रतपूर्णत्वसिद्धये

॥४५॥

नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते ।

माहेश्वर्यं महादेव्यै महामङ्गलमूर्तये

॥४६॥

परमा पापहन्त्री च परमार्गप्रदायिनी ।

परमेश्वरी प्रजोत्पत्तिः परब्रह्मस्वरूपिणी

॥४७॥

मददात्री मदोन्मत्ता मानगम्या महोन्नता ।

मनस्विनी मुनिध्येया मार्तण्डसहचारिणी

॥४८॥

जय लोकेश्वरि प्राज्ञे प्रलयाम्बुदसन्निभे ।

महामोहविनाशार्थं पूजितासि सुरासुरैः

॥४९॥

यमलोकाभावकर्त्री यमपूज्या यमाग्रजा ।

यमनिग्रहरूपा च यजनीये नमो नमः

॥५०॥

समस्वभावा सर्वेशी सर्वसङ्गविवर्जिता ।

सङ्गनाशकरी काम्यरूपा कारुण्यविग्रहा

॥५१॥

कङ्कालक्रूरा कामाक्षी मीनाक्षी मर्मभेदिनी ।

माधुर्यरूपशीला च मधुरस्वरपूजिता

॥५२॥

महामन्त्रवती मन्त्रगम्या मन्त्रप्रियङ्करी ।

मनुष्यमानसगमा मन्मथारिप्रियङ्करी

॥५३॥

अश्वत्थवटनिम्बाम्रकपित्थबदरीगते ।

पनसार्ककरीरादिक्षीरवृक्षस्वरूपिणी

॥५४॥

दुग्धवल्लीनिवासार्हे दयनीये दयाधिके ।

दाक्षिण्यकरुणारूपे जय सर्वज्ञवल्लभे

॥५५॥

एवं स्तवेन देवेशीं पूजनान्ते स्तुवीत ताम् ।

व्रतस्य सकलं पुण्यं लभते सर्वदा नरः

॥५६॥

नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः ।

आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि

॥५७॥

अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् ।

कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाजप्नुयात्

॥५८॥

ब्राह्मणो वेदसम्पनो विजयी क्षत्रियो भवेत् ।

वैश्यश्च धनधान्याढ्यो भवेच्छूद्रः सुखाधिकः

॥५९॥

स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः ।

पितॄणामक्षया तृप्तिर्जायते कल्पवर्तिनी

॥६०॥

एवमाराधनं देव्याः समुक्तं सुरपूजितम् ।

यः करोति नरो भक्त्या स देवीलोकभाग्भवेत्

॥६१॥

देवीपूजनतो विप्र सर्वे कामा भवन्ति हि ।

सर्वपापहतिः शुद्धा मतिरन्ते प्रजायते

॥६२॥

यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च ।

जायते जगदम्बायाः प्रसादेन विरञ्चिज

॥६३॥

नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित् ।

महामायाप्रसादेन पुत्रपौत्रादिवर्धनः

॥६४॥

देवीभक्तो भवत्येव नात्र कार्या विचारणा ।

इत्येवं ते समाख्यातं नरकोद्धारलक्षणम्

॥६५॥

पूजनं हि महादेव्याः सर्वमङ्गलकारकम् ।

मधूकपूजनं तद्वन्मासानां क्रमतो मुने

॥६६॥

सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् ।

न तस्य रोगबाधादिभयमुद्भवतेऽनघ

॥६७॥

अथान्यदपि वक्ष्यामि प्रकृतेः पञ्चकं परम् ।

नाम्ना रूपेण चोत्पत्त्या जगदानन्ददायकम्

॥६८॥

साख्यानं च समाहात्म्यं प्रकृतेः पञ्चकं मुने ।

कुतूहलकर चैव शृणु मुक्तिविधायकम्

॥६९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे देवीपूजनविधिनिरूपणं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥