सूर्यगतिवर्णनम्
नारायण उवाच
ततः परस्तादचलो लोकालोकेति नामकः ।
अन्तराले च लोकालोकयोर्यः परिकल्पितः
॥१॥यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् ।
सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि
॥२॥दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता ।
यस्यां पदार्थः प्रहितो न किञ्चित्प्रत्युदीयते
॥३॥अतः सर्वप्राणिसङ्घरहिता सा च नारद ।
लोकालोक इति व्याख्या यदत्र परिकल्पिता
॥४॥लोकालोकान्तरे चास्य वर्तते सर्वदा स्थितिः ।
ईश्वरेण स लोकानां त्रयाणामन्तगः कृतः
॥५॥सूर्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह ।
अर्वाचीनाश्च त्रीँल्लोकानातन्वानाः कदापि हि
॥६॥पराचीनत्वभाजो हि न भवन्ति च नारद ।
तावदुन्नहनायामः पर्वतेन्द्रो महोदयः
॥७॥एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः ।
कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च
॥८॥भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने ।
तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना
॥९॥निवेशिता दिग्गजा ये तन्नामानि निबोधत ।
ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः
॥१०॥एते समस्तलोकस्य स्थितिहेतव ईरिताः ।
तेषां च स्वविभूतीनां बहुवीर्योपबृंहणम्
॥११॥विशुद्धसत्त्वं चैश्वर्यं वर्धयन्भगवान् हरिः ।
आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः
॥१२॥निजायुधैः परिवृतो भुजदण्डैः समन्ततः ।
आस्ते सकललोकस्य स्वस्तये परमेश्वरः
॥१३॥आकल्पमेवं वेषं स गतो विष्णुः सनातनः ।
स्वमायारचितस्यास्य गोपीथायात्मसाधनः
॥१४॥योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणकम् ।
व्याख्यातं यद्बहिर्लोकालोकाचल इतीरणात्
॥१५॥ततः परस्ताद्योगेशगतिं शुद्धा वदन्ति हि ।
अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम्
॥१६॥सूर्याण्डगोलयोर्मध्ये कोट्यः स्युः पञ्चविंशतिः ।
मृतेऽण्ड एष एतस्मिञ्जातो मार्तण्डशब्दभाक्
॥१७॥हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ।
सूर्येण हि विभज्यन्ते दिशः खं द्यौर्महीभिदा
॥१८॥स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ।
देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम्
॥१९॥सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः ।
एतावान्भूमण्डलस्य सन्निवेश उदाहृतः
॥२०॥एतेन हि दिवो मानं वर्णयन्ति च तद्विदः ।
द्विदलानां च निष्पावादीनां च दलयोर्यथा
॥२१॥अन्तरेण तयोरन्तरिक्षं तदुभयसन्धितम् ।
यन्मध्यगश्च भगवान् भानुर्वै तपतां वरः
॥२२॥आतपेन त्रिलोकं च प्रतपत्येव भासयन् ।
उत्तरायणमासाद्य गतिमान्द्यं वितन्वते
॥२३॥आरोहणस्थानमसौ गत्वाहो दैर्ध्यमाचरेत् ।
दक्षिणायनमासाद्य गतिशैघ्र्यं वितन्वते
॥२४॥अवरोहस्थानमसौ गच्छन्ह्रस्वं दिनं चरेत् ।
विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते
॥२५॥समस्थानमथासाद्य दिनसाम्यं करोति च ।
यदा च मेषतुलयोः सञ्चरेद्धि दिवाकरः
॥२६॥समानानि त्वहोरात्राण्यातनोति त्रयीमयः ।
वृषादिपञ्चसु यदा राशिष्वर्को विरोचते
॥२७॥तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसन्ति च ।
वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः
॥२८॥तदापीमान्यहोरात्राणि भवन्ति विपर्ययात्
॥२९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे सूर्यगतिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥