मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय ६

3
अष्टमस्कन्धः · 6

भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनम्

श्रीनारायण उवाच

अरुणोदा नदी या तु मया प्रोक्ता च नारद ।

मन्दरान्निपतन्ती सा पूर्वेणेलावृतं प्लवेत्

॥१॥

यज्जोषणाद्भवान्याश्चानुचरीणां स्त्रियामपि ।

यक्षगन्धर्वपत्नीनां देहगन्धवहोऽनिलः

॥२॥

वासयत्यभितो भूमिं दशयोजनसंख्यया ।

एवं जम्बूफलानां च तुङ्गदेशनिपातनात्

॥३॥

विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् ।

रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात्

॥४॥

पतन्ती भूमिभागे च दक्षिणेलावृतं गता ।

देवी जम्बूफलास्वादतुष्टा जम्ब्वादिनी स्मृता

॥५॥

तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम् ।

पूजनीयपदा मान्या सर्वभूतदयाकरी

॥६॥

पावनी पापिनां रोगनाशिनी स्मरतामपि ।

कीर्तिता विघ्नसंहर्त्री माननीया दिवौकसाम्

॥७॥

कोकिलाक्षी कामकला करुणा कामपूजिता ।

कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी

॥८॥

एभिर्नामपदैः कामं जपनीया सदा नृणाम् ।

जम्बूनदीरोधसोर्या मृत्तिकातीरवर्तिनी

॥९॥

जम्बूरसेनानुविद्ध्यमाना वाय्वर्कयोगतः ।

विद्याधरामरस्त्रीणां भूषणं विविधं महत्

॥१०॥

जाम्बूनदं सुवर्णं च प्रोक्तं देवविनिर्मितम् ।

यत्सुवर्णं च विबुधा योषिद्भिः कामुकाः सदा

॥११॥

मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते ।

महाकदम्बः सम्प्रोक्तः सुपार्श्वगिरिसंस्थितः

॥१२॥

तस्य कोटरदेशेभ्यः पञ्च धाराश्च याः स्मृताः ।

सुपार्श्वगिरिमूर्ध्नीह पतन्त्येता भुवं गताः

॥१३॥

मधुधाराः पञ्च तास्तु पश्चिमेलावृतं प्लुताः ।

याश्चोपभुज्यमानानां देवानां मुखगन्धभृत्

॥१४॥

वायुः समन्ततोऽगच्छञ्छतयोजनवासनः ।

धारेश्वरी महादेवी भक्तानां कार्यकारिणी

॥१५॥

देवपूज्या महोत्साहा कालरूपा महानना ।

वसते कर्मफलदा कान्तारग्रहणेश्वरी

॥१६॥

करालदेहा कालाङ्गी कामकोटिप्रवर्तिनी ।

इत्येतैर्नामभिः पूज्या देवी सर्वसुरेश्वरी

॥१७॥

एवं कुमुदरूढो यो नाम्ना शतबलो वटः ।

तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः

॥१८॥

पयोदधिमधुघृतगुडान्नाद्यम्बरादिभिः ।

शय्यासनाद्याभरणैः सर्वे कामदुघाश्च ते

॥१९॥

उत्तरेणेलावृतं ते प्लावयन्ति समन्ततः ।

मीनाक्षी तत्तले देवी देवासुरनिषेविता

॥२०॥

नीलाम्बरा रौद्रमुखी नीलालकयुता च सा ।

नाकिनां देवसंघानां फलदा वरदा च सा

॥२१॥

अतिमान्यातिपूज्या च मत्तमातङ्गगामिनी ।

मदनोन्मादिनी मानप्रिया मानप्रियान्तरा

॥२२॥

मारवेगधरा मारपूजिता मारमादिनी ।

मयूरवरशोभाढ्या शिखिवाहनगर्भभूः

॥२३॥

एभिर्नामपदैर्वन्द्या देवी सा मीनलोचना ।

जपतां स्मरतां मानदात्री चेश्वरसङ्गिनी

॥२४॥

तेषां नदानां पानीयपानानुगतचेतसाम् ।

प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम्

॥२५॥

क्लमस्वेदादिदौर्गन्ध्यं जरामयमृतिभ्रमाः ।

शीतोष्णवातवैवर्ण्यमुखोपप्लवसंचयाः

॥२६॥

नापदश्चैव जायन्ते यावज्जीवं सुखं भवेत् ।

नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम्

॥२७॥

तत ऊर्ध्वं प्रवक्ष्यामि सन्निवेशं च तद्गिरेः ।

सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक्

॥२८॥

गिरयो विंशतिपराः कर्णिकाया इवेह ते ।

केसरीभूय सर्वेऽपि मेरोर्मूलविभागके

॥२९॥

परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः ।

कुरङ्गः कुरगश्चैव कुसुम्भोऽथो विकङ्कतः

॥३०॥

त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।

निषधश्च शिनीवासः कपिलः शङ्ख एव च

॥३१॥

वैदूर्यश्चारुधिश्चैव हंसो ऋषभ एव च ।

नागः कालञ्जरश्चैव नारदश्चेति विंशतिः

॥३२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णनेऽरुणोदादिनदीनां निसर्गस्थानवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥