मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय २२

3
अष्टमस्कन्धः · 22

नरकप्रदपातकवर्णनम्

नारद उवाच

कर्मभेदाः कतिविधाः सनातनमुने मम ।

श्रोतव्याः सर्वथैवैते यातनाप्राप्तिभूमयः

॥१॥

श्रीनारायण उवाच

यो वै परस्य वित्तानि दारापत्यानि चैव हि ।

हरते स हि दुष्टात्मा यमानुचरगोचरः

॥२॥

कालपाशेन सम्बद्धो याम्यैरतिभयानकैः ।

तामिस्रनामनरके पात्यते यातनास्पदे

॥३॥

ताडनं दण्डनं चैव सन्तर्जनमतः परम् ।

याम्याः कुर्वन्ति पाशाढ्याः कश्मलं याति चैव हि

॥४॥

मूर्च्छामायाति विवशो नारकी पद्मभूसुत ।

यः पतिं वञ्चयित्वा तु दारादीनुपभुज्यति

॥५॥

अन्धतामिस्रनरके पात्यते यमकिङ्करैः ।

पात्यमानो यत्र जन्तुर्वेदनापरवान्भवेत्

॥६॥

नष्टदृष्टिर्नष्टमतिर्भवत्येवाविलम्बतः ।

वनस्पतिर्भज्यमानमूलो यद्वद्भवेदिह

॥७॥

तस्मादप्यन्धतामिस्रनाम्ना प्रोक्तः पुरातनैः ।

एतन्ममाहमिति यो भूतद्रोहेण केवलम्

॥८॥

पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलम्पटः ।

एतद्विहाय चात्रैव स्वाशुभेन पतेदिह

॥९॥

रौरवे नाम नरके सर्वसत्त्वभयावहे ।

इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा

॥१०॥

त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ।

तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः

॥११॥

रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ।

एवं महारौरवाख्यो नरको यत्र पूरुषः

॥१२॥

यातनां प्राप्यमाणो हि यः परं देहसम्भवः ।

क्रव्यादा नाम रुरवस्तं क्रव्ये घातयन्ति च

॥१३॥

य उग्रः पुरुषः क्रूरः पशुपक्षिगणानपि ।

उपरन्धयते मूढो याम्यास्तं रन्धयन्ति च

॥१४॥

कुम्भीपाके तप्ततैले उपर्यपि च नारद ।

यावन्ति पशुरोमाणि तावद्वर्षसहस्रकम्

॥१५॥

पितृविप्रब्राह्मणध्रुक्कालसूत्रे स नारके ।

अग्न्यर्काभ्यां तप्यमाने नारकी विनिवेशितः

॥१६॥

क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः ।

आस्ते शेते चेष्टते चावतिष्ठति च धावति

॥१७॥

निजवेदपथाद्यो वै पाखण्डं चोपयाति च ।

अनापद्यपि देवर्षे तं पापं पुरुषं भटाः

॥१८॥

असिपत्रवनं नाम नरकं वेशयन्ति च ।

कशया प्रहरन्त्येव नारकी तद्गतस्तदा

॥१९॥

इतस्ततो धावमान उत्तालमतिवेगतः ।

असिपत्रैश्छिद्यमान उभयत्र च धारभिः

॥२०॥

संछिद्यमानसर्वाङ्गो हाहतोऽस्मीति मूर्च्छितः ।

वेदनां परमां प्राप्तः पतत्येव पदे पदे

॥२१॥

स्वधर्मानुगतं भुङ्क्ते पाखण्डफलमल्पधीः ।

यो राजा राजपुरुषो दण्डयेद्वै त्वधर्मतः

॥२२॥

द्विजे शरीरदण्डं च पापीयान्नारकी च सः ।

नरके सूकरमुखे पात्यते यमकिङ्करैः

॥२३॥

विनिष्यिष्टावयवको बलवद्भिस्तथेक्षुवत् ।

आर्तस्वरेण स्वनयन्मूर्च्छितः कश्मलङ्गतः

॥२४॥

स पीड्यमानो बहुधा वेदनां यात्यतीव हि ।

विविक्तपरपीडो योऽप्यविविक्तपरव्यथाम्

॥२५॥

ईश्वराङ्कितवृत्तीनां व्यथामाचरते स्वयम् ।

स चान्धकूपे पतति तदभिद्रोहयन्त्रिते

॥२६॥

तत्रासौ जन्तुभिः क्रूरैः पशुभिर्मृगपक्षिभिः ।

सरीसृपैश्च मशकैर्यूकामत्कुणजातिभिः

॥२७॥

मक्षिकाभिश्च तमसि दन्दशूकैश्च पीड्यते ।

परिक्रामति चैवात्र कुशरीरे च जन्तुवत्

॥२८॥

यस्तु संविहितैः पञ्चयज्ञैः काकैश्च संस्तुतः ।

अश्नाति चासंविभज्य यत्किंञ्चिदुपपद्यते

॥२९॥

स पापपुरुषः क्रूरैर्याम्यैश्च कृमिभोजने ।

नरकाधमके दुष्टकर्मणा परिपात्यते

॥३०॥

लक्षयोजनविस्तीर्णे कृमिकुण्डे भयङ्करे ।

कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम्

॥३१॥

अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै ।

यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च

॥३२॥

ब्राह्मणस्यापहरति अन्यस्यापि च कस्यचित् ।

अनापदि च देवर्षे तममुत्र यमानुगाः

॥३३॥

अयस्मयैरग्निपिण्डैः सदृशैर्नित्कुषन्ति च ।

योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या

॥३४॥

तावमुत्रापि कशया ताडयन्तो यमानुगाः ।

तिग्मया लोहमय्या च सूर्म्याप्यालिङ्गयन्ति तम्

॥३५॥

तां चापि योषितं सूर्म्यालिङ्गयन्ति यमानुगाः ।

यस्तु सर्वाभिगमनः पुरुषः पापसञ्चयी

॥३६॥

निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयन्ति तम् ।

वज्रकण्टकसंयुक्तां शाल्मलीं तामयस्मयीम्

॥३७॥

राजन्या राजपुरुषा ये वा पाखण्डवर्तिनः ।

धर्मसेतुं विभिन्दन्ति ते परेत्य गता नराः

॥३८॥

वैतरण्यां पतन्त्येव भिन्नमर्यादपातकाः ।

नद्यां निरयदुर्गस्य परिखायां च नारद

॥३९॥

यादोगणैः समन्तात्तु भक्ष्यमाणा इतस्ततः ।

नात्मना वियुजन्त्येव नासुभिश्चापि नारद

॥४०॥

स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः ।

विण्मूत्रपूयरक्तैश्च केशास्थिनखमांसकैः

॥४१॥

मेदोवसासंयुतायां नद्यामुपपतन्ति ते ।

वृषलीपतयो ये च नष्टशौचा गतत्रपाः

॥४२॥

आचारनियमैस्त्यक्ताः पशुचर्यापरायणाः ।

तेऽत्रानुकष्टगतयो विण्मूत्रश्लेष्मरक्तकैः

॥४३॥

श्लेष्ममलसमापूर्णे निपतन्ति दुराग्रहाः ।

तदेव खादयन्त्येतान्यमानुचरवर्गकाः

॥४४॥

ये श्वानगर्दभादीनां पतयो वै द्विजातयः ।

मृगयारसिका नित्यमतीर्थे मृगघातकाः

॥४५॥

परेतांस्तान्यमभटा लक्षीभूतान्नराधमान् ।

इषुभिश्च विभिन्दन्ति तांस्तान्दुर्नयमागतान्

॥४६॥

ये दम्भा दम्भयज्ञेषु पशून्घ्नन्ति नराधमाः ।

तानमुष्मिन्यमभटा नरके वैशसे तदा

॥४७॥

निपात्य पीडयन्त्येव कशाघातैर्दुरासदैः ।

यो भार्यां च सवर्णां वै द्विजो मदनमोहितः

॥४८॥

रेतः पाययति मूढोऽमुत्र तं यमकिङ्कराः ।

रेतःकुण्डे पातयन्ति रेतः सम्पाययन्ति च

॥४९॥

ये दस्यवोऽग्निदाश्चैव गरदा सार्थघातकाः ।

ग्रामान्सार्थान्विलुम्पन्ति राजानो राजपूरुषाः

॥५०॥

तान्परेतान्यमभटा नयन्ति श्वानकादनम् ।

विंशत्यथिकसंख्याताः सारमेया महाद्भुताः

॥५१॥

सप्तशत्या समाख्याता रभसं खादयन्ति ते ।

सारमेयादनं नाम नरकं दारुणं मुने ।

अतः परं प्रवक्ष्यामि अवीचिप्रभुखान्मुने

॥५२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकप्रदपातकवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥