मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १०

3
अष्टमस्कन्धः · 10

भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनम्

श्रीनारायण उवाच

हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् ।

आस्ते योगपतिः सोऽयमर्यम्णा पूज्य ईड्यते

॥१॥

अर्यमोवाच

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुण- विशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो भूमे नमोऽवस्थानाय नमस्ते ।

यद्रूपमेतन्निजमाययार्पित- मर्थस्वरूपं बहुरूपरूपितम् ।

संख्या न यस्यास्त्ययथोपलम्भना- त्तस्मै नमस्तेऽव्यपदेशरूपिणे

॥२॥

जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् ।

द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः

॥३॥

यस्मिनसंख्येयविशेषनाम- रूपाकृतौ कविभिः कल्पितेयम् ।

संख्या यया तत्त्वदृशापनीयते तस्मै नमः सांख्यनिदर्शनाय ते

॥४॥

एवं स्तुवति देवेशमर्यमा सह वर्षपैः ।

गीयते चापि भजते सर्वभूतभवं प्रभुम्

॥५॥

तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः ।

आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा

॥६॥

सम्पूज्य विधिवद्देवं तद्भक्त्यार्द्रार्द्रहृत्कजा ।

भूमिः स्तौति हरिं यज्ञवाराहं दैत्यमर्दनम्

॥७॥

भूरुवाच

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते

॥८॥

यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् ।

मज्जन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थेर्नम ईरितात्मने

॥९॥

द्रव्यक्रियाहेत्वयनेशकर्तृभि- र्मायागुणैर्वस्तुभिरीक्षितात्मने ।

अन्वीक्षयाङ्गातिशयात्मबुद्धिभि- निंरस्तमायाकृतये नमोऽस्तु ते

॥१०॥

करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेष्मितुमीक्षितुर्गुणैः ।

माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे

॥११॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः ।

कृत्वाग्रदंष्ट्रं निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मि तं विभुम्

॥१२॥

किम्पुरुषे वर्षेऽस्मिन्भगवन्तं दाशरथिं च सर्वेशम् ।

सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति

॥१३॥

ॐ नमो भगवते उत्तमश्लोकाय नम इति ।

आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः ।

साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ।

यत्तद्विशुद्धानुभवात्ममेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् ।

प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये

॥१४॥

मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो ।

कुतोऽन्यथा स्याद्ऽऽरमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य

॥१५॥

न वै स आत्मात्मवतां सुहृत्तमः सक्तस्विलोक्यां भगवान्वासुदेवः ।

न स्त्रीकृतं कश्मलमश्नुवीत न लक्षणं चापि विहातुमर्हति

॥१६॥

न जन्म नूनं महतो न सौभगं न वाङ् न चुद्धिर्नाकृतिस्तोषहेतुः ।

तैर्यद्विसृष्टानपि नो वनौकस- श्चकार सख्ये बत लक्ष्मणाग्रजः

॥१७॥

सुरोऽसुरो वाप्यथवा नरोऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् ।

भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान् दिवम्

॥१८॥

श्रीनारायण उवाच

एवं किम्पुरुषे वर्षे सत्यसन्धं दृढव्रतम् ।

रामं राजीवपत्राक्षं हनुमान् वानरोत्तमः

॥१९॥

स्तौति गायति भक्त्या च संपूजयति सर्वशः ।

य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ।

सर्वपापविशुद्धात्मा याति रामसलोकताम्

॥२०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हिरण्मयकिम्पुरुषवर्षवर्णनं नाम दशमोऽध्यायः ॥ १० ॥

अध्याय दहावा समाप्त