भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनम्
श्रीनारायण उवाच
जम्बुद्वीपो यथा चायं यत्प्रमाणेन कीर्तितः ।
तावता सर्वतः क्षारोदधिना परिवेष्टितः
॥१॥जम्बाख्येन यथा मेरुस्तथा क्षारोदकेन च ।
क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः
॥२॥यथैव परिखा बाह्योपवनेन हि वेष्ट्यते ।
प्लक्षाख्यश्च स्वयं जम्बुप्रमाणो द्वीपरूपधृक्
॥३॥हिरण्मयोऽग्निस्तत्रैव तिष्ठतीति विनिश्चयः ।
प्रियवतात्मजस्तत्र सप्तजिह्व इति स्मृतः
॥४॥अग्निस्तदधिपस्त्विध्मजिह्वः स्वं द्वीपमेव च ।
विभज्य सप्तवर्षाणि स्वपुत्रेभ्यो ददौ विभुः
॥५॥स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः ।
तेनैव चात्मयोगेन भगवन्तमुपागतः
॥६॥शिवं च यवसं भद्रं शान्तं क्षेमामृते तथा ।
अभयं चेति सप्तैव तद्वर्षाणि सदेक्षताम्
॥७॥तेषु प्रोक्ता नदीः सप्त गिरयः सप्त चैव हि ।
अरुणा नृम्णाङ्गिरसी सावित्री सुप्रभातिका
॥८॥ऋतम्भरा सत्यम्भरा इति नद्यः प्रकीर्तिताः ।
मणिकूटो वज्रकूट इन्द्रसेनस्तथैव च
॥९॥ज्योतिष्मान्वै सुपर्णश्च हिरण्यष्ठीव एव च ।
मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः
॥१०॥नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः ।
निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा
॥११॥हंसश्चैव पतङ्गश्च ऊर्ध्वायन इतीव च ।
सत्याङ्गसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके
॥१२॥सहस्रायुप्रमाणाश्च विविधोपमदर्शनाः ।
स्वर्गद्वारं त्रयीविद्याविधिनार्कं यजन्ति ते
॥१३॥प्रत्नस्य विष्णो रूपं च सत्यर्तस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि
॥१४॥प्लक्षादिषु च सर्वेषु पज्जद्वीपेषु नारद ।
आयुरिन्द्रियमोजश्च बलं बुद्धिः सहोऽपि च
॥१५॥विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा ।
प्लक्षद्वीपात्परं चेक्षुरसोदः सरिताम्पतिः
॥१६॥प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते ।
शाल्मलाख्यस्ततो द्वीपश्चास्माद् द्विगुणविस्तरः
॥१७॥समानेन सुरोदेन सिन्धुना परिवेष्टितः ।
यत्र वै शाल्मलीवृक्षः प्लक्षायामः प्रकीर्तितः
॥१८॥स्थानं तत्पक्षिराजस्य गरुडस्य महात्मनः ।
तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात्
॥१९॥जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् ।
तद्वर्षाणां च नामानि कथितानि निबोधत
॥२०॥सुरोचनं सौमनस्यं रमणं देववर्षकम् ।
पारिभद्रे तथा चाप्यायनं विज्ञातनामकम्
॥२१॥तेषु वर्षाद्रयः सप्त सप्तैव सरितः स्मृताः ।
सरसः शतशृङ्गश्च वामदेवश्च कन्दकः
॥२२॥कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च ।
एते च पर्वताः सप्त नदीनामानि चोच्यते
॥२३॥अनुमतिः सिनीवाली सरस्वती कुहूस्तथा ।
रजनी चैव नन्दा च राकेति परिकीर्तिताः
॥२४॥तद्वर्षपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः ।
श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः
॥२५॥भगवन्तं वेदमयं यजन्ते सोममीश्वरम् ।
स्वगोभिः पितृदेवेभ्यो विभजत्कृष्णशुक्लयोः
॥२६॥सर्वासां च प्रजानां च राजा सोमः प्रसीदतु ।
एवं सुरोदाद् द्विगुणः स्वमानेन प्रकीर्तितः
॥२७॥घृतोदेनावृतः सोऽयं कुशद्वीपः प्रकाशते ।
यस्मिन्नास्ते कुशस्तम्बो द्वीपाख्याकारणो ज्वलन्
॥२८॥स्वशष्परोचिषा काष्ठा भासयन्परितिष्ठते ।
हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रत स्वराट्
॥२९॥स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सन्तधाभजत् ।
वसुश्च वसुदानश्च तथा दृढरुचिः परः
॥३०॥नाभिगुप्तस्तुत्यव्रतौ विविक्तनामदेवकौ ।
तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः
॥३१॥नद्यः सप्तैव सन्तीह तन्नामानि निबोधत ।
चक्रस्तथा चतुःशृङ्गः कपिलश्चित्रकूटकः
॥३२॥देवानीकश्चोर्ध्वरोमा द्रविण सप्त पर्वताः ।
रसकुल्या मधुकुल्या मित्रविन्दा तथैव च
॥३३॥श्रुतविन्दा देवगर्भा घृतच्युन्मन्दमालिके ।
यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते
॥३४॥कुशलः कोविदश्चैवाप्यभियुक्तस्तथैव च ।
कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीर्तिताः
॥३५॥जातवेदसरूपं तं देवं कर्मजकौशलैः ।
यजन्ते देववर्याभाः सर्वे सर्वविदो जनाः
॥३६॥परस्यब्रह्मणः साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यज ।
एवं यजन्ते ज्वलनं सर्वे द्वीपाधिवासिनः
॥३७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने प्लक्षद्वीपकुशद्वीपवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥