मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १५

3
अष्टमस्कन्धः · 15

भुवनकोशवर्णने सूर्यगतिवर्णनम्

श्रीनारायण उवाच

अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् ।

शीघ्रमन्दादिगतिभिस्त्रिविधं गमनं रवेः

॥१॥

सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम ।

स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम्

॥२॥

वैश्वानरं दक्षिणतो निर्दिष्टमिति तत्त्वतः ।

अश्विनी कृत्तिका याम्या नागवीथीति शब्दिता

॥३॥

रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते ।

पुष्याश्लेषा तथाऽऽदित्या वीथी चैरावती स्मृता

॥४॥

एतास्तु वीथयस्तिस्र उत्तरो मार्ग उच्यते ।

तथा द्वे चापि फल्गुन्यौ मघा चैवार्षभी मता

॥५॥

हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता ।

ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता

॥६॥

एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ।

मूलाषाढोत्तराषाढा अजवीथ्यभिशब्दिता

॥७॥

श्रवणं च धनिष्ठा च मार्गी शतभिषक् तथा ।

वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता

॥८॥

एतास्तु वीथयस्तिस्रो दक्षिणो मार्ग उच्यते ।

उत्तरायणमासाद्य युगाक्षान्तर्निबद्धयोः

॥९॥

कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम् ।

तदाभ्यन्तरगान्मण्डलाद्रथस्य गतेर्भवेत्

॥१०॥

मान्द्यं दिवसवृद्धिश्च जायते सुरसत्तम ।

रात्रिह्रासश्च भवति सौम्यायनक्रमो ह्ययम्

॥११॥

दक्षिणायनके पाशे प्रेरणादवरोहणम् ।

बहिर्मण्डलवेशेन गतिशैघ्र्यं तदा भवेत्

॥१२॥

तदा दिनाल्पता रात्रिवृद्धिश्च परिकीर्तिता ।

वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः

॥१३॥

मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके ।

आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ

॥१४॥

तदाभ्यन्तरतः सूर्यो भ्रमते मण्डलानि च ।

ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु

॥१५॥

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि च ।

तस्मिन्मेरौ पूर्वभागे पुर्यैन्द्री देवधानिका

॥१६॥

दक्षिणे वै संयमनी नाम याम्या महापुरी ।

पश्चान्निम्लोचनी नाम वारुणी वै महापुरी

॥१७॥

तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी ।

ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः

॥१८॥

संयमन्यां च मध्याह्ने निम्लोचन्यां निमीलनम् ।

विभावर्यां निशीथः स्यात्तिग्मांशोः सुरपूजितः

॥१९॥

प्रवृत्तेश्च निमित्तानि भूतानां तानि सर्वशः ।

मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने

॥२०॥

मेरुस्थानां सदा मध्यं गत एव विभाति हि ।

सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम्

॥२१॥

उदयास्तमये चैव सर्वकालं तु सम्मुखे ।

दिशास्वशेषासु तथा सुरर्षे विदिशासु च

॥२२॥

यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।

तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः

॥२३॥

नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।

उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः

॥२४॥

शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ।

विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान्द्वे पुरे तथा

॥२५॥

सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः ।

यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते

॥२६॥

तद्वामभागतो मेरुर्वर्ततेति विनिर्णयः ।

यदि चैन्द्र्याः प्रचलते घटिका दशपञ्चभिः

॥२७॥

याम्यां तदा योजनानां सपादं कोटियुग्मकम् ।

सार्धद्वादशलक्षाणि पञ्चनेत्रसहस्रकम्

॥२८॥

प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः ।

एवं ततो वारुणीं च सौम्यामैन्द्रीं सहस्रदृक्

॥२९॥

पर्येति कालचक्रात्मा द्युमणिः कालबुद्धये ।

तथा चान्ये ग्रहाः सोमादयो ये दिग्विचारिणः

॥३०॥

नक्षत्रैः सह चोद्यन्ति सह चास्तं व्रजन्ति ते ।

एवं मुहूर्तेन रथो भानोरष्टशताधिकम्

॥३१॥

योजनानां चतुस्त्रिंशल्लक्षाणि भ्रमति प्रभुः ।

त्रयीमयश्चतुर्दिक्षु पुरीषु च समीरणात्

॥३२॥

प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान् ।

यस्य चक्रं रथस्यैकं द्वादशारं त्रिनाभिकम्

॥३३॥

षण्नेमि कवयस्तं च वत्सरात्मकमूचिरे ।

मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते

॥३४॥

कृतेतरविभागो यः प्रोतं तत्र रथाङ्गकम् ।

तैलकारकयन्त्रेण चक्रसाम्यं परिभ्रमन्

॥३५॥

मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् ।

तस्मिन्नक्षे कृतं मूलं द्वितीयोऽक्षो ध्रुवे कृतः

॥३६॥

तुर्यमानेन तैलस्य यन्त्राक्षवदितीरितः ।

कृतोपरितनो भागः सूर्यस्य जगतां पतेः

॥३७॥

रथनीडस्तु षट्त्रिंशल्लक्षयोजनमायतः ।

तत्तुर्यभागतः सोऽयं परिणाहेन कीर्तितः

॥३८॥

तावानर्करथस्यात्र युगस्तस्मिन्हयाः शुभाः ।

सप्तच्छन्दोऽभिधानाश्च सूरसूतेन योजिताः

॥३९॥

वहन्ति देवमादित्यं लोकानां सुखहेतवे ।

पुरस्तात्सवितुः सूतोऽरुणः पश्चान्नियोजितः

॥४०॥

सौत्ये कर्मणि संयुक्तो वर्तते गरुडाग्रजः ।

तथैव बालखिल्याख्या ऋषयोऽङ्गुष्ठपर्वकाः

॥४१॥

प्रमाणेन परिख्याताः षष्टिसाहस्रसंख्यकाः ।

स्तुवन्ति पुरतः सूर्यं सूक्तवाक्यैः सुशोभनैः

॥४२॥

तथा चान्ये च ऋषयो गन्धर्वा अप्सरोरगाः ।

ग्रामण्यो यातुधानाश्च देवाः सर्वे परेश्वरम्

॥४३॥

एकैकशः सप्त सप्त मासि मासि विरोचनम् ।

सार्धलक्षोत्तरं कोटिनवकं भूमिमण्डलम्

॥४४॥

द्विसहस्रं योजनानां स गव्यूत्युत्तरं क्षणात् ।

पर्येति देवदेवेशो विश्वव्यापी निरन्तरम्

॥४५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने सूर्यगतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥