मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय ३

3
अष्टमस्कन्धः · 3

भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनम्

श्रीनारायण उवाच

महीं देव: प्रतिष्ठाप्य यथास्थाने च नारद ।

वैकुण्ठलोकमगमद् ब्रह्मोवाच स्वमात्मजम्

॥१॥

स्वायम्भूव महाबाहो पुत्र तेजस्विनांवर ।

स्थाने महीमये तिष्ठ प्रजाः सृज यथोचितम्

॥२॥

देशकालविभागेन यज्ञेशं पुरुषं यज ।

उच्चावचपदार्थैश्च यज्ञसाधनकैर्विभो

॥३॥

धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबन्धनम् ।

एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति

॥४॥

पुत्रानुत्पाद्य गुणतः कीर्त्या कान्त्यात्मरूपिणः ।

विद्याविनयसम्पन्नान् सदाचारवतां वरान्

॥५॥

कन्याश्च दत्त्वा गुणवद्यशोवद्भ्यः समाहितः ।

मन: सम्यक् समाधाय प्रधानपुरुषे परे

॥६॥

भक्तिसाधनयोगेन भगवत्परिचर्यया ।

गतिमिष्टां सदा वन्द्यां योगिनां गमिता भवान्

॥७॥

इत्याश्वास्य मनुं पुत्र पद्मयोनिः प्रजापति: ।

प्रजासर्गे नियम्यामुं स्वधाम प्रत्यपद्यत

॥८॥

प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत् ।

स्वायम्भुवः प्रजासर्गमकरोत्पृथिवीपतिः

॥९॥

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

कन्यास्तिस्रः प्रसूताश्च तासां नामानि मे शृणु ।

१० आकूतिः प्रथमा कन्या द्वितीया देवहूतिका ।

तृतीया च प्रसूतिर्हि विख्याता लोकपावनी ।

११ आकूतिं रुचये प्रादात्कर्दमाय च मध्यमाम् ।

दक्षायादात्प्रसूतिं च यासां लोक इमाः प्रजाः ।

१२ रुचेः प्रजज्ञे भगवान् यज्ञो नामादिपूरुषः ।

आकूत्यां देवहूत्यां च कपिलोऽसौ च कर्दमात् ।

१३ सांख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः ।

दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ।

१४ यासां सन्तानसम्भूता देवतिर्यङ्नरादयः ।

प्रसूता लोकविख्याता सर्वे सर्गप्रवर्तकाः ।

१५ यज्ञश्च भगवान् स्वायम्भुवमन्वन्तरे विभुः ।

मनुं ररक्ष रक्षोभ्यो यामैर्देवगणैर्वृतः ।

१६ कपिलोऽपि महायोगी भगवान् स्वाश्रमे स्थितः ।

देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ।

१७ सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् ।

कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ।

१८ उपदिश्य महायोगी स ययौ पुलहाश्रमम् ।

अद्यापि वर्तते देवः सांख्याचार्यो महाशयः ।

१९ यन्नामस्मरणेनापि सांख्ययोगश्च सिद्ध्यति ।

तं वन्दे कपिलं योगाचार्यं सर्ववरप्रदम् ।

२० एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम् ।

पठतां शृण्वतां चापि सर्वपापविनाशनम् ।

२१ अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम् ।

यदाकर्णनमात्रेण परं पदमवाप्नुयात् ।

२२ द्वीपवर्षसमुद्रादिव्यवस्था यत्सुतैः कृता ।

व्यवहारप्रसिद्ध्यर्थं सर्वभूतसुखाप्तये

॥१०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविस्तारे स्वायम्भुवमनुवंशकीर्तनं नाम तृतीयोऽध्यायः ॥ ३ ॥