मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय ८

3
अष्टमस्कन्धः · 8

भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनम्

श्रीनारायण उवाच

तेषु वर्षेषु देवेशाः पूर्वोक्तैः स्तवनैः सदा ।

पूजयन्ति महादेवीं जपध्यानसमाधिभिः

॥१॥

सर्वर्तुकुसुमश्रेणी शोभिता वनराजयः ।

फलानां पल्लवानां च यत्र शोभा निरन्तरम्

॥२॥

तेषु काननवर्षेषु वर्षपर्वतसानुषु ।

गिरिद्रोणीषु सर्वासु निर्मलोदकराशिषु

॥३॥

विकचोत्पलमालासु हंससारससञ्चयैः ।

विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च

॥४॥

जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च ।

सुन्दरीललितभ्रूणां विलासायतनेषु च

॥५॥

तत्रत्या विहरन्त्यत्र स्वैरं युवतिभिः सह ।

नवस्वपि च वर्षेषु भगवानादिपूरुषः

॥६॥

(नारायणाख्यो लोकानामनुग्रहरसैकदृक् ।

) देवीमाराधयन्तास्ते स च सर्वैश्च पूज्यते ।

आत्मव्यूहेनेज्ययासौ सन्निधत्ते समाहितः

॥७॥

इलावृते तु भगवान् पद्मजाक्षिसमुद्भवः ।

एक एव भवो देवो नित्यं वसति साङ्गनः

॥८॥

तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च ।

भवान्याः शापतस्तत्र पुमान्तस्त्री भवति स्फुटम्

॥९॥

भवानीनाथकैः स्वीणामसंख्यैर्गणकोटिभिः ।

संरुध्यमानो देवेशो देवं सङ्कर्षणं भजन्

॥१०॥

आत्मना ध्यानयोगेन सर्वभूतहितेच्छया ।

तां तामसीं तुरीयां च मूर्तिं प्रकृतिमात्मनः

॥११॥

उपधावते चैकाग्रमनसा भगवानजः ।

श्रीभगवानुवाच ।

ॐनमो भगवते महापुरुषाय सर्वगुणसंख्यानायानन्तायाव्यक्ताय नम इति

॥१२॥

भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् ।

भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भव भावमीश्वरम्

॥१३॥

न यस्य मायागुणकर्मवृत्तिभि- र्निरीक्षितो ह्यण्वपि दृष्टिरज्यते ।

ईशे यथा नो स्त्रतमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः

॥१४॥

असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताग्रलोचनः ।

न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः

॥१५॥

यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमॄषयः ।

न वेद सिद्धार्थमिव क्यचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु

॥१६॥

यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानजः किल ।

यत्सवतोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे

॥१७॥

एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः ।

महानहंवैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम्

॥१८॥

यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुरुसर्गमोहितः ।

न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने

॥१९॥

श्रीनारायण उवाच

एवं स भगवान् रुद्रो देवं सङ्कर्षणं प्रभुम् ।

इलावृतमुपासीत देवीगणसमाहितः

॥२०॥

तथैव धर्मपुत्रोऽसौ नाम्ना भद्रश्रवा इति ।

तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः

॥२१॥

भद्राश्ववर्षे तां मूर्तिं वासुदेवस्य विश्रुताम् ।

हयमूर्तिभिदा तां तु हयग्रीवपदाङ्किताम्

॥२२॥

परमेण समाध्यन्यवारकेण नियन्त्रिताम् ।

एवमेव च तां मूर्तिं गृणन्त उपयान्ति च

॥२३॥

भद्रश्रवस ऊचुः

ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ।

अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।

ध्यायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीवुषुः

॥२४॥

वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः ।

तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम्

॥२५॥

विश्वोद्भवस्थाननिरोधकर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृतः ।

युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः

॥२६॥

वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः ।

प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितथेहिताय ते

॥२७॥

एवं स्तुवन्ति देवेशं हयशीर्षं हरिं च ते ।

भद्रश्रवसनामानो वर्णयन्ति च तद्गुणान्

॥२८॥

एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः ।

पापकंचुकमुत्सृज्य देवीलोकं व्रजेच्च सः

॥२९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने इलावृतभद्राश्ववर्षवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥