मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय ९

3
अष्टमस्कन्धः · 9

भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनम्

श्रीनारायण उवाच

हरिवर्षे च भगवान्नृहरिः पापनाशनः ।

वर्तते योगयुक्तात्मा भक्तानुग्रहकारकः

॥१॥

तस्य तद्दयितं रूपं महाभागवतोऽसुरः ।

पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित्

॥२॥

प्रह्लाद उवाच

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा ।

अभयं ममात्मनि भूयिष्ठाः ।

ॐ क्षौं ।

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया ।

मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी

॥३॥

मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु नः ।

यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्न तथेन्द्रियप्रियः

॥४॥

यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् ।

हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम्

॥५॥

यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुराः ।

हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः

॥६॥

हरिर्हि साक्षाद्भगवाञ्छरीरिणा- मात्मा झषाणामिव तोयमीप्सितम् ।

हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम्

॥७॥

तस्माद्रजोरागविषादमन्यु- मानस्पृहाभयदैन्याधिमूलम् ।

हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम्

॥८॥

एवं दैत्यपतिः सोऽपि भक्त्यानुदिनमीडते ।

नृहरिं पापमातङ्गहरिं हृत्पद्मवासिनम्

॥९॥

केतुमाले च वर्षे हि भगवान्स्मररूपधृक् ।

आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा

॥१०॥

एतेनोपासते स्तोत्रजालेन च रमाब्धिजा ।

तद्वर्षनाथा सततं महतां मानदायिका

॥११॥

रमोवाच

ओं ह्रां ह्रीं ह्रूं स्म नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय छन्दोमयायान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ।

स्त्रियो व्रतैस्त्वां हृषीकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् ।

तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्राः

॥१२॥

स वै पतिः स्यादकुतोभयः स्वतः समन्ततः पाति भयातुरं जनम् ।

स एक एवेतरथा मिथो भयं नैवात्मलाभादधिमन्यते परम्

॥१३॥

या तस्य ते पादसरोरुहार्हणं न कामयेत्साखिलकामलम्पटा ।

तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाञ्चा भगवन् प्रतप्यते

॥१४॥

मत्प्राप्तयेऽजेशसुरासुरादय- स्तप्यन्त उग्रं तप ऐन्द्रिये धियः ।

ऋते भवत्पादपरायणान्न मां विदन्त्यहं त्वद्धृदया यतोऽजित

॥१५॥

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधायि सात्वताम् ।

बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः

॥१६॥

एवं कामं स्तुवन्त्येव लोकबन्धुस्वरूपिणम् ।

प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये

॥१७॥

रम्यके नामवर्षे च मूर्तिं भगवतः पराम् ।

मात्स्यां देवासुरैर्वन्द्यां मनुः स्तौति निरन्तरम्

॥१८॥

मनुरुवाच

ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे बलाय महामत्स्याय नमः ।

अन्तर्बहिश्चाखिललोकपालकै- रदृष्टरूपो विचरस्युरुस्वनः ।

स ईश्वरस्त्वं य इदं वशे नय- न्नाम्ना यथा दारुमयीं नरः स्त्रियम्

॥१९॥

यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च ।

पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते

॥२०॥

भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् ।

मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः

॥२१॥

एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः ।

मत्स्यावतारं देवेशं संशयच्छेदकारणम्

॥२२॥

ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः ।

आस्ते परिचरन्भक्त्या महाभागवतोत्तमः

॥२३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने हरिवर्षकेतुमालरम्यकवर्षवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥