मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय १९

3
अष्टमस्कन्धः · 19

अतलवितलसुतललोकवर्णनम्

श्रीनारायण उवाच

प्रथमे विवरे विप्र अतलाख्ये मनोरमे ।

मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत्

॥१॥

षण्णवत्यो येन सृष्टा मायाः सर्वार्थसाधिकाः ।

मायाविनो याश्च सद्यो धारयन्ति च काश्चन

॥२॥

जृम्भमाणस्य यस्यैव बलस्य बलशालिनः ।

स्त्रीगणा उपपद्यन्ते त्रयोलोकविमोहनाः

॥३॥

पुंश्चल्यश्चैव स्वैरिण्यः कामिन्यश्चेति विश्रुताः ।

या वै बिलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः

॥४॥

रसेन हाटकाख्येन साधयित्वा प्रयत्नतः ।

स्वविलासावलोकानुरागस्मितविगूहनैः

॥५॥

संलापविभ्रमाद्यैश्च रमयन्त्यपि ताः स्त्रियः ।

यस्मिन्नुपयुक्ते जनो मनुते बहुधा स्वयम्

॥६॥

ईश्वरोऽहमहं सिद्धो नागायुतबलो महान् ।

आत्मानं मन्यमानः सन्मदान्ध इव कथ्यते

॥७॥

एवं प्रोक्ता स्थितिश्चात्र अतलस्य च नारद ।

द्वितीयविवरस्यात्र वितलस्य निबोधत

॥८॥

भूतलाधस्तले चैव वितले भगवान्भवः ।

हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः

॥९॥

प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च ।

भवान्या मिथुनीभूय आस्ते देवाधिपूजितः

॥१०॥

भवयोर्वीर्यसम्भूता हाटकी सरिदुत्तमा ।

समिद्धो मरुता वह्निरोजसा पिबतीव हि

॥११॥

तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ।

दैत्याङ्गना भूषणार्हं सदा तं धारयन्ति हि

॥१२॥

तद्बिलाधस्तलात्प्रोक्तं सुतलाख्यं बिलेश्वरम् ।

पुण्यश्लोको बलिर्नामा आस्ते वैरोचनिर्मुने

॥१३॥

महेन्द्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् ।

त्रिविक्रमोऽपि भगवान् सुतले बलिमानयत्

॥१४॥

त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट् ।

इन्द्रादिष्वप्यलब्धा या सा श्रीस्तमनुवर्तते

॥१५॥

तमेव देवदेवेशमाराधयति भक्तितः ।

व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः

॥१६॥

भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे ।

वर्णयन्ति महात्मानो नैतद्युक्तं च नारद

॥१७॥

वासुदेवे भगवति पुरुषार्थप्रदे हरौ ।

एतद्दानफलं विप्र सर्वथा नहि युज्यते

॥१८॥

यस्यैव देवदेवस्य नामापि विवशो गृणन् ।

स्वकीयकर्मबन्धीयगुणान्विधुनुतेऽञ्जसा

॥१९॥

यत्क्लेशबन्धहानाय सांख्ययोगादिसाधनम् ।

कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे

॥२०॥

न चायं भगवानस्माननुजग्राह नारद ।

मायामयं च भोगानामैश्वर्यं व्यतनोत्परम्

॥२१॥

सर्वक्लेशाधिहेतुं तदात्मानुस्मृतिमोषणम् ।

यं साक्षाद्भगवान् विष्णुः सर्वोपायविदीश्वरः

॥२२॥

याञ्जाछलेनापहृतं सर्वस्वं देहशेषकम् ।

अप्राप्तान्योपाय ईशः पाशैर्वारुणसंभवैः

॥२३॥

बन्धयित्वावमुच्यापि गिरिदर्यामिवाब्रवीत् ।

असाविन्द्रो महामूढो यस्य मन्त्री बृहस्पतिः

॥२४॥

प्रसन्नमिममत्यर्थमयाचल्लोकसम्पदम् ।

त्रैलोक्यमिदमैश्वर्यं कियदेवातितुच्छकम्

॥२५॥

आशिषां प्रभवं मुक्त्वा यो मूढो लोकसम्पदि ।

अस्मत्पितामहः श्रीमान् प्रह्लादो भगवत्प्रियः

॥२६॥

दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः ।

पित्र्यमैश्वर्यमतुलं दीयमानं च विष्णुना

॥२७॥

पितर्युपरते वीरे नैवैच्छद्भगवत्प्रियः ।

तस्यातुलानुभावस्य सर्वलोकोपधीमतः

॥२८॥

अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति ।

एवं दैत्यपतिः सोऽयं बलिः परमपूजितः

॥२९॥

सुतले वर्तते यस्य द्वारपालो हरिः स्वयम् ।

एकदा दिग्विजये राजा रावणो लोकरावणः

॥३०॥

प्रविशन्सुतले येन भक्तानुग्रहकारिणा ।

पादाङ्गुष्ठेन प्रक्षिप्तो योजनायुतमत्र हि

॥३१॥

एवंभूतानुभावोऽयं बलिः सर्वसुखैकभुक् ।

आस्ते सुतलराजस्थो देवदेवप्रसादतः

॥३२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे अतलवितलसुतललोकवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥