नरकस्वरूपवर्णनम्
श्रीनारायण उवाच
तस्यानुभावं भगवान् ब्रह्मपुत्रः सनातनः ।
सभायां ब्रह्मदेवस्य गायमान उपासते
॥१॥उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन्- नानाधात्कथमुह वेद तस्य वर्त्म
॥२॥मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्या- मादातुं स्वजनमनांस्युदारवीर्यः
॥३॥यन्नाम श्रुतमनुकीर्तयेदकस्मा- दार्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेत्युमुक्षुः
॥४॥मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्रजिह्वः
॥५॥एवंप्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः ।
मूले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति
॥६॥एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम ।
गन्तव्या बहुशो यद्वद्यथाकर्मविनिर्मिताः
॥७॥यथोपदेशं च कामान्सदा कामयमानकैः ।
एतावतीर्हि राजेन्द्र मनुष्यमृगपक्षिषु
॥८॥विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा ।
उच्चावचा विसदृशा यथाप्रश्नं निबोधत
॥९॥नारद उवाच
वैचित्र्यमेतल्लोकस्य कथं भगवता कृतम् ।
समानत्वे कर्मणां च तन्नो ब्रूहि यथातथम्
॥१०॥श्रीनारायण उवाच
कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः ।
त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह
॥११॥सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा ।
दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत्
॥१२॥दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम् ।
तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम्
॥१३॥अनाद्यविद्याविहितकर्मणां परिणामजाः ।
सहस्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव
॥१४॥तद्भेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम ।
त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वै
॥१५॥भूमेरधस्तादुपरि त्वतलस्य च नारद ।
अग्निष्वात्ताः पितृगणा वर्तन्ते पितरश्च ह
॥१६॥वसन्ति यस्यां स्वीयानां गोत्राणां परमाशिषः ।
सत्याः समाधिना शीघ्रं त्वाशासानाः परेण वै
॥१७॥पितृराजोऽपि भगवान् सम्परेतेषु जन्तुषु ।
विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह
॥१८॥सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः ।
यथाकर्म यथादोषं विदधाति विचारदृक्
॥१९॥स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् ।
सदा प्रेरयति प्राज्ञो यथादेशनियोजितान्
॥२०॥नरकानेकविंशत्या संख्यया वर्णयन्ति हि ।
अष्टाविंशमितान्केचित्ताननुक्रमतो ब्रुवे
॥२१॥तामिस्र अन्धतामिस्रो रौरवोऽपि तृतीयकः ।
महारौरवनामा च कुम्भीपाकोऽपरो मतः
॥२२॥कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् ।
सूकरस्य मुखं चान्धकूपोऽथ कृमिभोजनः
॥२३॥संदंशस्तप्तमूर्तिश्च वज्रकण्टक एव च ।
शाल्मली चाथ देवर्षे नाम्ना वैरतणी तथा
॥२४॥पूयोदः प्राणरोधश्च तथा विशसनं मतम् ।
लालाभक्षः सारमेयादनमुक्तमतः परम्
॥२५॥अवीचिरप्ययः पानं क्षारकर्दम एव च ।
रक्षोगणाख्यसम्भोजः शूलप्रोतोऽप्यतः परम्
॥२६॥दन्दशूकोऽवटारोधः पर्यावर्तनकः परम् ।
सूचीमुखमिति प्रोक्ता अष्टाविंशतिनारकाः
॥२७॥इत्येते नारका नाम यातनाभूमयः पराः ।
कर्मभिश्चापि भूतानां गम्याः पद्मजसम्भव
॥२८॥इति श्रीमद्देवीभागवतेमहापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे नरकस्वरूपवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥