भुवनकोशवर्णने भारतवर्षवर्णनम्
श्रीनारायण उवाच
भारताख्ये च वर्षेऽस्मिन्नहमादिजपूरुषः ।
तिष्ठामि भवता चैव स्तवनं क्रियतेऽनिशम्
॥१॥नारद उवाच
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ।
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकैः ।
द्रष्टुर्न दृश्यस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे
॥२॥इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः
॥३॥यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्यया- द्यस्तस्य यत्नः श्रम एव केवलम्
॥४॥तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाहं ममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावजम्
॥५॥एवं स्तौति सदा देवं नारायणमनामयम् ।
नारदो मुनिशार्दूलः प्रज्ञाताखिलसारदृक्
॥६॥अस्मिन् वै भारते वर्षे सरिच्छैलास्तु सन्ति हि ।
तान्प्रवक्ष्यामि देवर्षे शृणुष्वैकाग्रमानसः
॥७॥मलयो मङ्गलप्रस्थो मैनाकश्च त्रिकूटकः ।
ऋषभः कूटकः कोल्लः सह्यो देवगिरिस्तथा
॥८॥ऋष्यमूकश्च श्रीशैलो व्यङ्कटाद्रिर्महेन्द्रकः ।
वारिधारश्च विन्ध्यश्च मुक्तिमानृक्षपर्वतः
॥९॥पारियात्रस्तथा द्रोणश्चित्रकूटगिरिस्तथा ।
गोवर्धनो रैवतकः ककुभो नीलपर्वतः
॥१०॥गौरमुखश्चेन्द्रकीलो गिरिः कामगिरिस्तथा ।
एते चान्येऽप्यसंख्याता गिरयो बहुपुण्यदाः
॥११॥एतदुत्पन्नसरितः शतशोऽथ सहस्रशः ।
पानावगाहनस्नानदर्शनोत्कीर्तनैरपि
॥१२॥नाशयन्ति च पापानि त्रिविधानि शरीरिणाम् ।
ताम्रपर्णी चन्द्रवशा कृतमाला वटोदका
॥१३॥वैहायसी च कावेरी वेणा चैव पयस्विनी ।
तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा
॥१४॥गोदावरी भीमरथी निर्विन्ध्या च पयोष्णिका ।
तापी रेवा च सुरसा नर्मदा च सरस्वती
॥१५॥चर्मण्वती च सिन्धुश्च अन्धशोणौ महानदौ ।
ऋषिकुल्या त्रिसामा च वेदस्मृतिर्महानदी
॥१६॥कौशिकी यमुना चैव मन्दाकिनी दृषद्वती ।
गोमती सरयू रोधवती सप्तवती तथा
॥१७॥सुषोमा च शतद्रुश्च चन्द्रभागा मरुद्वृधा ।
वितस्ता च असिक्नी च विश्वा चेति प्रकीर्तिताः
॥१८॥अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः ।
शुक्ललोहितकृष्णाख्यैर्दिव्यमानुषनारकाः
॥१९॥भवन्ति विविधा भोगाः सर्वेषां च निवासिनाम् ।
यथा वर्णविधानेनापवर्गो भवति स्फुटम्
॥२०॥एतदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः ।
वदन्ति मुनयो वेदवादिनः स्वर्गवासिनः
॥२१॥अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः ।
यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः
॥२२॥किं दुष्करैर्नः क्रतुभिस्तपोव्रतै- र्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपदपङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात्
॥२३॥कल्पायुषां स्थानजयात्पुनर्भवा- त्क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः
॥२४॥न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः ।
न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम्
॥२५॥प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्न पुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम्
॥२६॥यैः श्रद्धया बर्हिषि भागशो हवि- र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।
एकः पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्णः स्वयमाशिषां प्रभुः
॥२७॥सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यतः ।
स्वयं विधत्ते भजतामनिच्छता- मिच्छापिधानं निजपादपल्लवम्
॥२८॥(यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् ।
तेनाब्जनाभे स्मृतिमज्जन्म नः स्या- द्वर्षे हरिर्भजतां शं तनोति ।
) श्रीनारायण उवाच ।
एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः ।
प्रवदन्ति च माहात्म्यं भारतस्य सुशोभनम्
॥२९॥जम्बुद्वीपस्य चाष्टौ हि उपद्वीपाः स्मृताः परे ।
हयमार्गान्विशोधद्भिः सागरैः परिकल्पिताः
॥३०॥स्वर्णप्रस्थश्चन्द्रशुक्र आवर्तनरमाणकौ ।
मन्दरोपाख्यहरिणः पाञ्चजन्यस्तथैव च
॥३१॥सिंहलश्चैव लङ्केति उपद्वीपाष्टकं स्मृतम् ।
जम्बुद्वीपस्य मानं हि कीर्तितं विस्तरेण च
॥३२॥अतः परं प्रवक्ष्यामि प्लक्षादिद्वीपषट्ककम्
॥३३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने भारतवर्षवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥