मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — अष्टमस्कन्धः, अध्याय ७

3
अष्टमस्कन्धः · 7

भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनम्

श्रीनारायण उवाच

गिरी मेरुं च पूर्वेण द्वौ चाष्टादशयोजनैः ।

सहस्रैरायतौ चोदग्द्विसहस्रं पृथूच्चकौ

॥१॥

जठरो देवकूटश्च तावेतौ गिरिवर्यकौ ।

मेरोः पश्चिमतोऽद्री द्वौ पवमानस्तथापरः

॥२॥

पारियात्रश्च तौ तावद्विख्यातौ तुङ्गविस्तरौ ।

मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ

॥३॥

प्रागायतौ पूर्ववृत्तौ महापर्वतराजकौ ।

एवं चोत्तरतो मेरोस्त्रिशृङ्गमकरौ गिरी

॥४॥

एतैश्चाद्रिवरैरष्टसंख्यैः परिवृतो गिरिः ।

सुमेरुः काञ्चनगिरिः परिभ्राजन् रविर्यथा

॥५॥

मेरोर्मूर्धनि धातुर्हि पुरी पङ्कजजन्मनः ।

मध्यतश्चोपक्लृप्तेयं दशसाहस्रयोजनैः

॥६॥

समानचतुरस्रां च शातकौम्भमयीं पुरीम् ।

वर्णयन्ति महात्मानः परावरविदो बुधाः

॥७॥

तां पुरीमनुलोकानामष्टानामीशिषां पराः ।

पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम्

॥८॥

यथारूपं सार्धनेत्रसहस्रप्रमिताः कृताः ।

मेरोर्नव पुराणि स्युर्मनोवत्यमरावती

॥९॥

तेजोवती संयमनी तथा कृष्णाङ्गनापरा ।

श्रद्धावती गन्धवती तथा चान्या महोदया

॥१०॥

यशोवती च ब्रह्मेन्द्रवह्न्यादीनां यथाक्रमम् ।

तत्रैव यज्ञलिङ्गस्य विष्णोर्भगवतो विभोः

॥११॥

वामपादाङ्गुष्ठनखनिर्भिन्नस्य च नारद ।

अण्डोर्ध्वभागरन्ध्रस्य मध्यात्संविशती दिवः

॥१२॥

मूर्धन्यवततारेयं गङ्गा संविशती विभो ।

लोकानामखिलानां च पापहारिजलाकुला

॥१३॥

इयं च साक्षाद्भगवत्पदी लोकेषु विश्रुता ।

कालेन महता सा तु युगसाहस्रकेण तु

॥१४॥

दिवो मूर्धानमागत्य देवी देवनदीश्वरी ।

यत्तद्विष्णुपदं नाम स्थानं त्रैलोक्यविश्रुतम्

॥१५॥

औत्तानपादिर्यत्रास्ते ध्रुवः परमपावनः ।

भगवत्पादयुगलं पद्मकोशरजो दधत्

॥१६॥

अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः ।

तत्र सप्तर्षयस्तस्य प्रभावज्ञा महाशयाः

॥१७॥

प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः ।

आत्यन्तिकी सिद्धिरियं तपतां सिद्धिदायिनी

॥१८॥

आद्रियन्ते च शिरसा जटाजूटोषितेन च ।

ततो विष्णुपदाद्देवी नैकसाहस्रकोटिभिः

॥१९॥

विमानैराकुले देवयानेऽवतरती च सा ।

चन्द्रमण्डलमाप्लाव्य पतन्ती ब्रह्यसद्यनि

॥२०॥

चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद ।

चतुर्भिर्नामभिर्देवी चतुर्दिशमभिसृता

॥२१॥

सरितां च नदीनां च पतिमेवान्वपद्यत ।

सीता चालकनन्दा च चतुर्भद्रेति* नामभिः

॥२२॥

*चक्षुर्भद्रेति? सीता च ब्रह्मसदनाच्छिखरेभ्यः क्षमाभृताम् ।

केसराभिधनाम्ना च प्रस्रवन्ती च स्वर्णदी

॥२३॥

गन्धमादनमूर्ध्नीह पतिता पापहारिणी ।

अन्तरेण तु भद्राश्ववर्षं प्राच्यां समागता

॥२४॥

क्षारोदधिं गता सा तु द्युनदी देवपूजिता ।

ततो माल्यवतः शृङ्गाद् द्वितीया परिनिर्गता

॥२५॥

ततो वेगवती भूत्वा केतुमालं समागता ।

चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता

॥२६॥

सरितां पतिमाविष्टा सा गङ्गा देववन्दिता ।

ततस्तृतीया धारा तु नाम्ना ख्याता च नारद

॥२७॥

पुण्या चालकनन्दा वै दक्षिणेनाब्जभूपदात् ।

वनानि गिरिकूटानि समतिक्रम्य चागता

॥२८॥

हेमकूटं गिरिवरं प्राप्तातोऽपीह निर्गता ।

अतिवेगवती भूत्वा भारतं चागतापरा

॥२९॥

दक्षिणं जलधिं प्राप्ता तृतीया सा सरिद्वरा ।

यस्याः स्नानाय सरतां मनुजानां पदे पदे

॥३०॥

राजसूयाश्वमेधादि फलं तु न हि दुर्लभम् ।

ततश्चतुर्थी धारा तु भृङ्गवत्पर्वतात्पुनः

॥३१॥

भद्राभिधा संस्रवन्ती कुरून्सन्तर्प्य चोत्तरान् ।

समुद्रं समनुप्राप्ता गङ्गा त्रैलोक्यपावनी

॥३२॥

अन्ये नदाश्च नद्यश्च वर्षे वर्षेऽपि सन्ति हि ।

बहुशो मेरुमन्दारप्रसूताश्चैव नारद

॥३३॥

तत्रापि भारतं वर्षं कर्मक्षेत्रमुशन्ति हि ।

अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च

॥३४॥

स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद ।

पुरुषाणां चायुतायुर्वज्राङ्गा देवसन्निभाः

॥३५॥

पुरुषा नागसाहस्रैर्दशभिः परिकल्पिताः ।

महासौरतसन्तुष्टाः कलत्राढ्याः सुखान्विताः

॥३६॥

एकवर्षोनके चायुष्याप्तगर्भाः स्त्रियोऽपि हि ।

त्रेतायुगसमः कालो वर्तते सर्वदैव हि

॥३७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशवर्णने पर्वतनदीवर्षादिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥