भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनम्
श्रीनारायण उवाच
देवर्षे शृणु विस्तारं द्वीपवर्षविभेदतः ।
भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम्
॥१॥समासात्सम्प्रवक्ष्यामि नालं विस्तरतः क्वचित् ।
जम्बुद्वीपः प्रथमतः प्रमाणे लक्षयोजनः
॥२॥विशालो वर्तुलाकारो यथाब्जस्य च कर्णिका ।
नव वर्षाणि यस्मिंश्च नवसाहस्रयोजनैः
॥३॥आयामैः परिसंख्यानि गिरिभिः परितः श्रितैः ।
अष्टाभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः
॥४॥धनुर्वत्संस्थिते ज्ञेये द्वे वर्षे दक्षिणोत्तरे ।
दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्
॥५॥इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः ।
सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्रितः
॥६॥कर्णिकारूप एवायं भूगोलकमलस्य च ।
मूर्ध्नि द्वात्रिंशत्सहस्रयोजनैर्विततस्त्वयम्
॥७॥मूले षोडशसाहस्रस्तावतान्तर्गतः क्षितौ ।
इलावृतस्योत्तरतो नीलः श्वेतश्च शृङ्गवान्
॥८॥त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु ।
रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये
॥९॥कुरुवर्षे तृतीये तु मर्यादां व्यञ्जयन्ति ते ।
प्रागायता उभयतः क्षारोदावधयस्तथा
॥१०॥द्विसहस्रपृथुतरास्तथा एकैकशः क्रमात् ।
पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः
॥११॥दैर्घ्य एव ह्रसन्तीमे नानानदनदीयुताः ।
इलावृताद्दक्षिणतो निषधो हेमकूटकः
॥१२॥हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुशोभनाः ।
अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः
॥१३॥हरिवर्षं किम्पुरुषं भारतं च यथातथम् ।
विभागात्कथयन्त्येते मर्यादागिरयस्त्रयः
॥१४॥इलावृतात्पश्चिमतो माल्यवान्नामपर्वतः ।
पूर्वेण च ततः श्रीमान् गन्धमादनपर्वतः
॥१५॥आनीलनिषधं त्वेतौ चायतौ द्विसहस्रतः ।
योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी
॥१६॥केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तौ ।
मन्दरश्च तथा मेरुमन्दरश्च सुपार्श्वकः
॥१७॥कुमुदश्चेति विख्याता गिरयो मेरुपादकाः ।
योजनायुतविस्तारोन्नाहा मेरोश्चतुर्दिशम्
॥१८॥अवष्टम्भकरास्ते तु सर्वतोऽभिविराजिताः ।
एतेषु गिरिषु प्राप्ताः पादपाश्चूतजम्बुनी
॥१९॥कदम्बन्यग्रोध इति चत्वारः पर्वताः स्थिताः ।
केतवो गिरिराजेषु एकादशशतोच्छ्रयाः
॥२०॥तावद्विटपविस्ताराः शताख्यपरिणाहिनः ।
चत्वारश्च ह्रदास्तेषु पयोमध्विक्षुसज्जलाः
॥२१॥यदुपस्पर्शिनो देवा योगैश्वर्याणि विन्दते ।
देवोद्यानानि चत्वारि भवन्ति ललनासुखाः
॥२२॥नन्दनं चैत्ररथकं वैभ्राजं सर्वभद्रकम् ।
येषु स्थित्वामरगणा ललनायूथसंयुताः
॥२३॥उपदेवगणैर्गीतमहिमानो महाशयाः ।
विहरन्ति स्वतन्त्रास्ते यथाकामं यथासुखम्
॥२४॥मन्दरोत्सङ्गसंस्थस्य देवचूतस्य मस्तकात् ।
एकादशशतोच्छ्रायात्फलान्यमृतभाञ्जि च
॥२५॥गिरिकूटप्रमाणानि सुस्वादूनि मृदूनि च ।
तेषां विशीर्यमाणानां फलानां सुरसेन च
॥२६॥अरुणोदसवर्णेन अरुणोदा प्रवर्तते ।
नदी रम्यजला देवदैत्यराजप्रपूजिता
॥२७॥अरुणाख्या महाराज वर्तते पापहारिणी ।
पूजयन्ति च तां देवीं सर्वकामफलप्रदाम्
॥२८॥नानोपहारबलिभिः कल्मषघ्न्यभयप्रदाम् ।
तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते
॥२९॥आद्या मायातुलानन्ता पुष्टिरीश्वरमालिनी ।
दुष्टनाशकरी कान्तिदायिनीति स्मृता भुवि
॥३०॥अस्याः पूजाप्रभावेण जाम्बूनदमुदावहत्
॥३१॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनलोकवर्णने द्वीपवर्षविभेदवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥