प्रकृतिचरित्रवर्णनम्
श्रीनारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता
॥१॥नारद उवाच
आविर्बभूव सा केन का वा सा ज्ञानिनांवर ।
किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम्
॥२॥सर्वासां चरितं पूजाविधानं गुण ईप्सितः ।
अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि
॥३॥श्रीनारायण उवाच
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् ।
किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः
॥४॥प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता
॥५॥गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः ।
मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः
॥६॥त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता ।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते
॥७॥प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः ।
सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता
॥८॥योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।
पुमांश्च दक्षिणार्धाङ्गो वामार्धा प्रकृतिः स्मृता
॥९॥सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी ।
यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता
॥१०॥अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते ।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद
॥११॥स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी
॥१२॥तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका ।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा
॥१३॥गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी
॥१४॥ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता ।
सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी
॥१५॥धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिनी ।
सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी
॥१६॥शरणागतदीनार्तपरित्राणपरायणा ।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता
॥१७॥सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।
सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी
॥१८॥बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः ।
जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना
॥१९॥तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च ।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः
॥२०॥उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय
॥२१॥शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः ।
सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता
॥२२॥कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला ।
लोभमोहकामरोषमदाहङ्कारवर्जिता
॥२३॥भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता ।
प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा
॥२४॥सर्वसस्यात्मिका देवी जीवनोपायरूपिणी ।
महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती
॥२५॥स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।
गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा
॥२६॥सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा ।
कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च
॥२७॥वाणिज्यरूपा वणिजां पापिनां कलहाङ्कुरा ।
दयारूपा च कथिता वेदोक्ता सर्वसम्मता
॥२८॥सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।
वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः
॥२९॥सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।
सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम्
॥३०॥नानाप्रकारसिद्धान्तभेदार्थकलना मता ।
व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी
॥३१॥विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।
स्वरसङ्गीतसन्धानतालकारणरूपिणी
॥३२॥विषयज्ञानवाग्रूपा प्रतिविश्वोपजीविनी ।
व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी
॥३३॥शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा
॥३४॥यजन्ती परमात्मानं श्रीकृष्णं रत्नमालया ।
तपःस्वरूपा तपसां फलदात्री तपस्विनाम्
॥३५॥सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा ।
यया विना तु विप्रौघो मूको मृतसमः सदा
॥३६॥देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका ।
यथागमं यथाकिञ्चिदपरां त्वं निबोध मे
॥३७॥माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् ।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा
॥३८॥द्विजातिजातिरूपा च जपरूपा तपस्विनी ।
ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी
॥३९॥पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।
तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये
॥४०॥शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।
परमानन्दरूपा च परमा च सनातनी
॥४१॥परब्रह्मस्वरूपा च निर्वाणपददायिनी ।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता
॥४२॥यत्पादरजसा पूतं जगत्सर्वं च नारद ।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते
॥४३॥पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।
प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा
॥४४॥सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता ।
वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा
॥४५॥परावरा सारभूता परमाद्या सनातनी ।
परमानन्दरूपा च धन्या मान्या च पूजिता
॥४६॥रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः ।
रासमण्डलसम्भूता रासमण्डलमण्डिता
॥४७॥रासेश्वरी सुरसिका रासावासनिवासिनी ।
गोलोकवासिनी देवी गोपीवेषविधायिका
॥४८॥परमाह्लादरूपा च सन्तोषहर्षरूपिणी ।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी
॥४९॥निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा ।
वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः
॥५०॥दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः ।
वह्निशुद्धांशुकधरा नानालङ्कारभूषिता
॥५१॥कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा ।
श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम्
॥५२॥अवतारे च वाराहे वृषभानुसुता च या ।
यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा
॥५३॥ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते ।
स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता
॥५४॥यथाम्बरे नवघने लोला सौदामनी मुने ।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा
॥५५॥यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।
न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा
॥५६॥तेनैव तपसा दृष्टा भुवि वृन्दावने वने ।
कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता
॥५७॥अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः ।
प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः
॥५८॥परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः ।
या याः प्रधानांशरूपा वर्णयामि निशामय
॥५९॥प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी ।
विष्णुविग्रहसम्भूता द्रवरूपा सनातनी
॥६०॥पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ।
सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी
॥६१॥गोलोकस्थानप्रस्थानसुखसोपानरूपिणी ।
पवित्ररूपा तीर्थानां सरितां च परावरा
॥६२॥शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।
तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम्
॥६३॥चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।
निर्मला निरहङ्कारा साध्वी नारायणप्रिया
॥६४॥प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती
॥६५॥तपःसंकल्पपूजादिसङ्घसम्पादिनी मुने ।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा
॥६६॥दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।
कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी
॥६७॥यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।
यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये
॥६८॥यया विना च विश्वेषु सर्वकर्म च निष्फलम् ।
मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा
॥६९॥कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी ।
भारतीनां प्रीणनाय जाता या परदेवता
॥७०॥प्रधानांशस्वरूपा या मनसा कश्यपात्मजा ।
शङ्करप्रियशिष्या च महाज्ञानविशारदा
॥७१॥नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी
॥७२॥नागेन्द्रगणसंयुक्ता नागभूषणभूषिता ।
नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी
॥७३॥विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा ।
तपःस्वरूपा तपसां फलदात्री तपस्विनी
॥७४॥दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः ।
तपस्विनीषु पूज्या च तपस्विषु च भारते
॥७५॥सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा
॥७६॥जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता ।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्
॥७७॥प्रधानांशस्वरूपा या देवसेना च नारद ।
मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता
॥७८॥पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती ।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता
॥७९॥स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।
पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम्
॥८०॥पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः ।
एकविंशतिमे चैव पूजा कल्याणहेतुकी
॥८१॥मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा ।
मातृका च दयारूपा शश्वद्रक्षणकारिणी
॥८२॥जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे ।
प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका
॥८३॥प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा ।
सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी
॥८४॥तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता ।
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता
॥८५॥पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी ।
परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम्
॥८६॥रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी ।
प्रधानांशस्वरूपा सा काली कमललोचना
॥८७॥दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः ।
दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा
॥८८॥कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा ।
प्रधाना सर्वशक्तीनां बला बलवती परा
॥८९॥सर्वसिद्धिप्रदा देवी परमा योगरूपिणी ।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः
॥९०॥कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।
संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः
॥९१॥रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया ।
धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता
॥९२॥ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।
प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा
॥९३॥आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता ।
रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया
॥९४॥प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा ।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी
॥९५॥यया विना जगत्सर्वं निराधारं चराचरम् ।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर
॥९६॥यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते ।
स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता
॥९७॥यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः ।
दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता
॥९८॥यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् ।
स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः
॥९९॥पूजिता पितृदानं हि निष्कलं च यया विना ।
स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता
॥१००॥आदानं च प्रदानं च निष्फलं च यया विना ।
पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले
॥१०१॥यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत्
॥१०२॥यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः ।
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः
॥१०३॥सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।
धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता
॥१०४॥सर्वे लोका अधैर्याश्च जगत्सु च यया विना ।
सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया
॥१०५॥यया विना भवेल्लोको बन्धुतारहितः सदा ।
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया
॥१०६॥सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना ।
पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा
॥१०७॥यया विना जगत्सर्वं जीवन्मृतसमं मुने ।
सुकर्मपत्नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता
॥१०८॥यया विना जगत्सर्वं यशोहीनं मृतं यथा ।
क्रिया तूद्योगपत्नी च पूजिता सर्वसम्मता
॥१०९॥यया विना जगत्सर्वं विधिहीनं च नारद ।
अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता
॥११०॥यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी
॥१११॥अर्धावयवरूपा च द्वापरे चैव संवृता ।
कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात्
॥११२॥कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे ।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते
॥११३॥याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद ।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा
॥११४॥याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा ।
मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा
॥११५॥परमात्मा च विश्वौघो निराधारो यया विना ।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती
॥११६॥श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता ।
कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी
॥११७॥सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु ।
कालस्य तिस्रो भार्याश्च संध्या रात्रिर्दिनानि च
॥११८॥याभिर्विना विधाता च संख्यां कर्तुं न शक्यते ।
क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते
॥११९॥याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् ।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा
॥१२०॥याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः ।
कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये
॥१२१॥याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ ।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये
॥१२२॥याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते
॥१२३॥याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने ।
अदितिर्देवमाता च सुरभी च गवां प्रसूः
॥१२४॥दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।
उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः
॥१२५॥कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।
रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी
॥१२६॥शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।
तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती
॥१२७॥अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी ।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी
॥१२८॥पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ।
लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा
॥१२९॥वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा ।
कान्ता च दमयन्ती च यशोदा देवकी तथा
॥१३०॥गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया ।
वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा
॥१३१॥मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा ।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा
॥१३२॥जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा ।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता
॥१३३॥काली योजनगन्धा च व्यासमाता महासती ।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी
॥१३४॥प्रभावती भानुमती तथा मायावती सती ।
रेणुका च भृगोर्माता राममाता च रोहिणी
॥१३५॥एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती ।
बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते
॥१३६॥या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः ।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः
॥१३७॥योषितामवमानेन प्रकृतेश्च पराभवः ।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती
॥१३८॥प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः ।
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः
॥१३९॥पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता ।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः
॥१४०॥सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः
॥१४१॥सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा ।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः
॥१४२॥दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः ।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः
॥१४३॥प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः ।
एवं निगदितं सर्वं प्रकृते रूपवर्णनम्
॥१४४॥ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी
॥१४५॥ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना ।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता
॥१४६॥जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् ।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया
॥१४७॥जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् ।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः
॥१४८॥बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।
लक्ष्मीर्मङ्गलभूपेन प्रथमं परिपूजिता
॥१४९॥त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।
सावित्री चाश्वपतिना प्रथमं परिपूजिता
॥१५०॥तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः ।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता
॥१५१॥तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः ।
प्रथमं पूजिता राधा गोलोके रासमण्डले
॥१५२॥पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना ।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः
॥१५३॥गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः ।
तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा
॥१५४॥पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा ।
पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता
॥१५५॥शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः
॥१५६॥पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा ।
कला या याः समुद्भूता पूजितास्ताश्च भारते
॥१५७॥पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम्
॥१५८॥यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि
॥१५९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोध्यायः ॥ १ ॥