मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १७

3
नवमस्कन्धः · 17

धर्मध्वजसुतातुलस्युपाख्यानवर्णनम्

श्रीनारायण उवाच

धर्मध्वजस्य पत्नी माधवीति च विश्रुता ।

नृपेण सार्धं सारामे रेमे च गन्धमादने

॥१॥

शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।

चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना

॥२॥

स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता ।

कामुकी रसिका सृष्टा रसिकेन च संयुता

॥३॥

सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः ।

गतं देववर्षशतं न ज्ञातं च दिवानिशम्

॥४॥

ततो राजा मतिं प्राप्य सुरताद्विरराम च ।

कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा

॥५॥

दधार गर्भं सा सद्यो दैवादब्दशतं सती ।

श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने

॥६॥

शुभे क्षणे शुभदिने शुभयोगे च संयुते ।

शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते

॥७॥

कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज ।

सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम्

॥८॥

शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।

पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम्

॥९॥

हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।

तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम्

॥१०॥

शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् ।

श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम्

॥११॥

पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् ।

नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः

॥१२॥

तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः ।

सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा

॥१३॥

सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।

तत्र देवाब्दलक्षं च चकार परमं तपः

॥१४॥

मनसा नारायणः स्वामी भवितेति च निश्चिता ।

ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि

॥१५॥

आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् ।

विंशत्सहस्रवर्षं च फलतोयाशना च सा

॥१६॥

त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी ।

चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी

॥१७॥

ततो दशसहस्राब्दं निराहारा बभूव सा ।

निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः

॥१८॥

समाययौ वरं दातुं परं बदरिकाश्रमम् ।

चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम्

॥१९॥

तामुवाच जगत्कर्ता विधाता जगतामपि ।

ब्रह्मोवाच ।

वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम्

॥२०॥

हरिभक्तिं हरेर्दास्यमजरामरतामपि ।

तुलस्युवाच ।

शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम्

॥२१॥

सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।

अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा

॥२२॥

कृष्णप्रिया किंकरी च तदंशा तत्सखी प्रिया ।

गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम्

॥२३॥

रासेश्वरी समागत्य ददर्श रासमण्डले ।

गोविन्दं भर्त्सयामास मां शशाप रुषान्विता

॥२४॥

याहि त्वं मानवीं योनिमित्येवं च शशाप ह ।

मामुवाच स गोविन्दो मदंशं च चतुर्भुजम्

॥२५॥

लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।

इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः

॥२६॥

देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि ।

अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम्

॥२७॥

साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे ।

ब्रह्मदेव उवाच ।

सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः

॥२८॥

तदंशश्चातितेजस्वी लेभे जन्म च भारते ।

साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः

॥२९॥

शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः ।

गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः

॥३०॥

विलम्भितुं न शशाक राधिकायाः प्रभावतः ।

स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे

॥३१॥

जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि ।

अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने

॥३२॥

पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि ।

शापान्नारायणस्यैव कलया दैवयोगतः

॥३३॥

भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी ।

प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः

॥३४॥

त्वया विना च सर्वेषां पूजा च विफला भवेत् ।

वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च

॥३५॥

त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् ।

वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम्

॥३६॥

विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च ।

इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा

॥३७॥

प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा ।

तुलस्युवाच ।

यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे

॥३८॥

सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे ।

अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः

॥३९॥

गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् ।

त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम्

॥४०॥

ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय ।

ब्रह्यदेव उवाच ।

गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम्

॥४१॥

तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि ।

शृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका

॥४२॥

राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि ।

इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम्

॥४३॥

मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् ।

सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम्

॥४४॥

परां शुभाशिषं चैव पूजां चैव चकार सा ।

बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा

॥४५॥

सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् ।

बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम्

॥४६॥

प्रसन्नमनसा देवी तत्याज तपसः क्लमम् ।

सिद्धे फले नराणां च दुःखं च सुखमुत्तमम्

॥४७॥

भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा ।

तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते

॥४८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥