मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २२

3
नवमस्कन्धः · 22

कालीशङ्खचूडयुद्धवर्णनम्

श्रीनारायण उवाच

शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।

समारुरोह यानं च सहामात्यैः स सत्वरः

॥१॥

शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् ।

दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह

॥२॥

स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।

भास्करो युयुधे विप्रचित्तिना सह सत्वरः

॥३॥

दम्भेन सह चन्द्रश्च चकार परमं रणम् ।

कालस्वरेण कालश्च गोकर्णेन हुताशनः

॥४॥

कुबेरः कालकेयेन विश्वकर्मा मयेन च ।

भयङ्करेण मृत्युश्च संहारेण यमस्तथा

॥५॥

विकङ्कणेन वरुणश्चञ्चलेन समीरणः ।

बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः

॥६॥

जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।

अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः

॥७॥

धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः ।

शोभाकरेण वै भानुः पिठरेण च मन्मथः

॥८॥

गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च ।

काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना

॥९॥

विश्वेन च पलाशेनादित्याद्या युयुधुः परे ।

एकादश च रुद्रा वै एकादशभयङ्करैः

॥१०॥

महामारी च युयुधे चोग्रचण्डादिभिः सह ।

नन्दीश्वरादयः सर्वे दानवानां गणैः सह

॥११॥

युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे ।

वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च

॥१२॥

सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।

रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह

॥१३॥

उवास शङ्खचूडश्च रत्नभूषणभूषितः ।

शङ्करस्य च ये योधा दानवैश्च पराजिताः

॥१४॥

देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः ।

चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ

॥१५॥

बलं च स्वर्गणानां च वर्धयामास तेजसा ।

सोऽयमेकश्च युयुधे दानवानां गणैः सह

॥१६॥

अक्षौहिणीनां शतकं समरे च जघान सः ।

असुरान्पातयामास काली कमललोचना

॥१७॥

पपौ रक्तं दानवानामतिकुद्धा ततः परम् ।

दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः

॥१८॥

समादायैकहस्तेन मुखे चिक्षेप लीलया ।

कबन्धानां सहस्रं च ननर्त समरे मुने

॥१९॥

स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः ।

भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः

॥२०॥

वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः ।

स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च

॥२१॥

महामारी च युयुधे न बभूव पराङ्मुखी ।

बभूवुस्ते च संक्षुब्धाः स्कन्दस्य शक्तिपीडिताः

॥२२॥

न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह ।

स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम्

॥२३॥

दानवानां क्षयकरं यथा प्राकृतिको लयः ।

राजा विमानमारुह्य चकार बाणवर्षणम्

॥२४॥

नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा ।

महाघोरान्धकारश्च वह्न्युत्थानं बभूव च

॥२५॥

देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः ।

एक एव कार्तिकेयस्तस्थौ समरमूर्धनि

॥२६॥

पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।

नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम्

॥२७॥

नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः ।

नीहारेण च सान्द्रेण प्रहितो भास्करो यथा

॥२८॥

धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः ।

बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान्

॥२९॥

मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ।

शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम्

॥३०॥

क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः ।

गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा

॥३१॥

रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः ।

शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम्

॥३२॥

सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।

सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः

॥३३॥

वह्निं निर्वापयामास पार्जन्येन प्रतापवान् ।

रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया

॥३४॥

सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।

चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि

॥३५॥

मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह ।

आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः

॥३६॥

चकार शरजालं च मायया मायिनां वरः ।

गुहं चच्छाद समरे शरजालेन नारद

॥३७॥

जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् ।

प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम्

॥३८॥

चिक्षेप तां च कोपेन महावेगेन कार्तिके ।

पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला

॥३९॥

मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः ।

काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ

॥४०॥

शिवस्तं चापि ज्ञानेन जीवयामास लीलया ।

ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान्

॥४१॥

काली जगाम समरं रक्षितुं कार्तिकस्य या ।

वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः

॥४२॥

सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।

वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः

॥४३॥

सा च गत्वाथ संग्रामं सिंहनादं चकार च ।

देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः

॥४४॥

अट्टाट्टहासमशिवं चकार च पुनः पुनः ।

दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि

॥४५॥

उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु ।

योगिनीडाकिनीनां च गणाः सुरगणादयः

॥४६॥

दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ ।

दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ

॥४७॥

काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् ।

राजा निर्वापयामास पार्जन्येन च लीलया

॥४८॥

चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् ।

गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया

॥४९॥

माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।

राजा जघान तं शीघ्रं वैष्णवेन च लीलया

॥५०॥

नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् ।

राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ

॥५१॥

ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् ।

पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि

॥५२॥

ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ।

ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः

॥५३॥

तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ।

राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च

॥५४॥

तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् ।

राजा दिव्यास्त्रजालेन शतखण्डां चकार ह

॥५५॥

जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा ।

निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी

॥५६॥

मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ।

यावदस्ति च मन्त्रस्य कवचं च हरेरिति

॥५७॥

यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः ।

तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः

॥५८॥

इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् ।

शतलक्षं दानवानां जग्रास लीलया क्षुधा

॥५९॥

ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी ।

दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः

॥६०॥

खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा ।

दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः

॥६१॥

पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् ।

सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः

॥६२॥

वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी ।

बभञ्ज च रथं तस्य जघान सारथिं सती

॥६३॥

सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् ।

वामहस्तेन जग्राह शङ्खचूडः स्वलीलया

॥६४॥

मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।

बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च

॥६५॥

क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।

न चकार बाहुयुद्धं देव्या सह ननाम ताम्

॥६६॥

देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा ।

नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः

॥६७॥

गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।

ऊर्ध्वं च प्रापयामास महावेगेन कोपिता

॥६८॥

ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् ।

निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम्

॥६९॥

रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् ।

आरुरोह हर्षयुक्तो न विश्रान्तो महारणे

॥७०॥

दानवानां च क्षतजं सा देवी च पपौ क्षुधा ।

पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम्

॥७१॥

उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् ।

श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम्

॥७२॥

लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।

भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर

॥७३॥

संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ।

अवध्यस्तव राजेति वाग्बभूवाशरीरिणी

॥७४॥

राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।

न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम्

॥७५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे कालीशङ्खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥