मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ३०

3
नवमस्कन्धः · 30

यमेन कर्मविपाककथनम्

सावित्र्युवाच

प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।

मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि

॥१॥

धर्मराज उवाच

अन्नदानं च विप्राय यः करोति च भारते ।

अन्नप्रमाणवर्षं च शिवलोके महीयते

॥२॥

अन्नदानं महादानमन्येभ्योऽपि करोति यः ।

अन्नदानप्रमाणं च शिवलोके महीयते

॥३॥

अन्नदानात्परं दानं न भूतं न भविष्यति ।

नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित्

॥४॥

देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।

महीयते विष्णुलोके वर्षाणामयुतं सति

॥५॥

यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।

तल्लोममानवर्षं च विष्णुलोके महीयते

॥६॥

चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।

दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत्

॥७॥

गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।

वर्षाणामयुतं चैव चन्द्रलोके महीयते

॥८॥

यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।

तल्लोममानवर्षं च विष्णुलोके महीयते

॥९॥

यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।

वर्षाणामयुतं सोऽपि मोदते वरुणालये

॥१०॥

विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च ।

महीयते वायुलोके वर्षाणामयुतं सति

॥११॥

यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।

महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ

॥१२॥

यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।

महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ

॥१३॥

यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।

यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते

॥१४॥

करोति गजदानं च यदि विप्राय भारते ।

यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत्

॥१५॥

भारते योऽश्वदानं च करोति ब्राह्मणाय च ।

मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश

॥१६॥

प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।

मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश

॥१७॥

प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।

महीयते वायुलोके यावन्मन्वन्तरं सति

॥१८॥

यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।

महीयते वायुलोके वर्षाणामयुतं ध्रुवम्

॥१९॥

धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।

दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ

॥२०॥

सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।

स एव चिरजीवी च ततो मृत्युः पलायते

॥२१॥

यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।

पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः

॥२२॥

इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।

निश्चितं निवसेत्तत्र शतमन्वन्तरावधि

॥२३॥

फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।

कल्पान्तजीवी स भवेदित्याह कमलोद्भवः

॥२४॥

तिलदानं ब्राह्मणाय यः करोति च भारते ।

तिलप्रमाणवर्षं च मोदते शिवमन्दिरे

॥२५॥

ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।

ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत्

॥२६॥

सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।

यो ददाति ब्राह्मणाय भारते च पतिव्रताम्

॥२७॥

महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।

तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम्

॥२८॥

ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।

दिवानिशं कौतुकेन चोर्वश्या सह मोदते

॥२९॥

ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।

सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम्

॥३०॥

प्रददाति फलं चारु ब्राह्मणाय च यो नरः ।

फलप्रमाणवर्षं च शक्रलोके महीयते

॥३१॥

पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् ।

सफलानां च वृक्षाणां सहस्रं च प्रशंसितम्

॥३२॥

केवलं फलदानं वा ब्राह्मणाय ददाति च ।

सुचिरं स्वर्गवासं च कृत्वा याति च भारते

॥३३॥

नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।

ददाति यश्च विप्राय भारते विपुलं गृहम्

॥३४॥

सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।

ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत्

॥३५॥

यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति ।

ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते

॥३६॥

महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।

पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत्

॥३७॥

तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।

श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः

॥३८॥

यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च ।

लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते

॥३९॥

पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् ।

न जहाति च तं पृथ्वी जन्मनां लक्षमेव च

॥४०॥

सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् ।

नानापुष्करिणीवृक्षफलवल्लीसमन्वितम्

॥४१॥

नगरं यश्च विप्राय ददाति भारते भुवि ।

महीयते स कैलासे दशलक्षेन्द्रकालकम्

॥४२॥

पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् ।

नगराणां च नियुतं स लभेन्नात्र संशयः

॥४३॥

धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् ।

परमैश्वर्यनियुतो भवेदेव महीतले

॥४४॥

नगराणां च शतकं देशं यो हि द्विजातये ।

सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च

॥४५॥

वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।

महीयते स वैकुण्ठे कोटिमन्वन्तरावधि

॥४६॥

पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् ।

परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि

॥४७॥

मही तं न जहात्येव जन्मनां कोटिमेव च ।

कल्पान्तजीवी स भवेद्राजराजेश्वरो महान्

॥४८॥

स्वाधिकारं समग्रं च यो ददाति द्विजातये ।

चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः

॥४९॥

जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने ।

फलं शतगुणं चान्ते भवेत्तस्य न संशयः

॥५०॥

जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः ।

सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः

॥५१॥

सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।

अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः

॥५२॥

असंख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः ।

निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे

॥५३॥

देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् ।

विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम्

॥५४॥

लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते ।

पश्यन्ति ते मणिद्वीपे सखण्डं लोकसंक्षयम्

॥५५॥

नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।

देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः

॥५६॥

कार्तिके तुलसीदानं करोति हरये च यः ।

युगत्रयप्रमाणं च मोदते हरिमन्दिरे

॥५७॥

पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।

जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि

॥५८॥

मध्ये यः स्नाति गङ्गायामरुणोदयकालतः ।

युगषष्टिसहस्राणि मोदते हरिमन्दिरे

॥५९॥

पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् ।

त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम्

॥६०॥

नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।

करोति हरिदास्यं च तथा सारूप्यमेव च

॥६१॥

नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि ।

पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्

॥६२॥

तस्यैव पादरजसा सद्यःपूता वसुन्धरा ।

मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ

॥६३॥

पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् ।

जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत्

॥६४॥

स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः ।

मीनकर्कटयोर्मध्ये गाढं तपति भास्करः

॥६५॥

भारते यो ददात्येव जलमेव सुवासितम् ।

स मोदते च कैलासे यावदिन्द्राश्चतुर्दश

॥६६॥

पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ।

शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः

॥६७॥

वैशाखे सक्तुदानं च यः करोति द्विजातये ।

सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे

॥६८॥

करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।

शतजन्मकृतं पापं मुच्यते नात्र संशयः

॥६९॥

वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।

पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम्

॥७०॥

इहैव भारते वर्षे शिवरात्रिं करोति यः ।

मोदते शिवलोके स सप्तमन्वन्तरावधि

॥७१॥

शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।

पत्रमानयुगं तत्र मोदते शिवमन्दिरे

॥७२॥

पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् ।

विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत्

॥७३॥

चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती ।

करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम्

॥७४॥

मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।

दिनमानयुगं सोऽपि शिवलोके महीयते

॥७५॥

श्रीरामनवमीं यो हि करोति भारते पुमान् ।

सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे

॥७६॥

पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् ।

जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत्

॥७७॥

शारदीयां महापूजां प्रकृतेर्यः करोति च ।

महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति

॥७८॥

नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।

नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम्

॥७९॥

शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।

पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम्

॥८०॥

अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् ।

महाप्रभावयुक्तश्च गजवाजिसमन्वितः

॥८१॥

राजराजेश्वरः सोऽपि भवेदेव न संशयः ।

ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत्

॥८२॥

नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।

दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश

॥८३॥

गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।

पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत्

॥८४॥

कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।

गोपानां शतकं कृत्वा गोपीनां शतकं तथा

॥८५॥

शिलायां प्रतिमायां च श्रीकृष्णं राधया सह ।

भारते पूजयेद्भक्त्या चोपचाराणि षोडश

॥८६॥

गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः ।

भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम्

॥८७॥

क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो ।

देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः

॥८८॥

ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् ।

पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत्

॥८९॥

शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः ।

वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः

॥९०॥

भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् ।

क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो

॥९१॥

देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।

ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत्

॥९२॥

पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।

भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः

॥९३॥

षष्टिवर्षसहस्राणि शक्रलोके महीयते ।

रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके

॥९४॥

सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।

महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश

॥९५॥

भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।

ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत्

॥९६॥

महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।

पुनर्महीं समागत्य श्रीमानतुलविक्रमः

॥९७॥

चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।

माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम्

॥९८॥

संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ।

महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम्

॥९९॥

सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।

गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च

॥१००॥

नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।

गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे

॥१०१॥

मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः ।

तदन्ते पुनरागत्य राजराजेश्वरो भवेत्

॥१०२॥

श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।

भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते

॥१०३॥

विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।

ततः पुनरिहागत्य सुखी च धनवान्भवेत्

॥१०४॥

विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।

यो वक्ति वा ददात्येव हरेर्नामानि भारते

॥१०५॥

युगं नाम प्रमाणं च विष्णुलोके महीयते ।

ततः पुनरिहागत्य स सुखी धनवान्भवेत्

॥१०६॥

यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।

नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत्

॥१०७॥

सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् ।

न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते

॥१०८॥

लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।

विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात्

॥१०९॥

शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् ।

यावज्जीवनपर्यन्तं स याति शिवमन्दिरम्

॥११०॥

मृदो रेणुप्रमाणाब्दं शिवलोके महीयते ।

ततः पुनरिहागत्य राजेन्द्रो भारते भवेत्

॥१११॥

शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति ।

महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम्

॥११२॥

ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् ।

महीयते विष्णुलोके न तस्य पतनं भवेत्

॥११३॥

तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।

कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश

॥११४॥

ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।

ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते

॥११५॥

यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।

स तु निर्वाणतां याति न च जन्म भवेद्भुवि

॥११६॥

पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।

अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत्

॥११७॥

चतुर्गुणं राजसूये फलमाप्नोति मानवः ।

सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः

॥११८॥

विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने ।

शङ्करेण महेशेन त्रिपुरासुरनाशने

॥११९॥

शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि ।

नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते

॥१२०॥

दक्षेण च कृतः पूर्वं महान्संवादसंयुतः ।

बभूव कलहो यत्र दक्षशङ्करयोः सति

॥१२१॥

शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।

यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः

॥१२२॥

चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः ।

धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः

॥१२३॥

स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।

शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा

॥१२४॥

राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।

देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः

॥१२५॥

वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् ।

ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह

॥१२६॥

देवानां च यथा विष्णुर्वैष्णवानां च नारद ।

शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा

॥१२७॥

तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा ।

एकादशी व्रतानां च पुष्पाणां तुलसी यथा

॥१२८॥

नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।

यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा

॥१२९॥

शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।

प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः

॥१३०॥

वृन्दावनं वनानां च वर्षाणां भारतं यथा ।

श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती

॥१३१॥

पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।

देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि

॥१३२॥

अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् ।

सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च

॥१३३॥

स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् ।

सर्वेषां च व्रतानां च तपसां फलमेव च

॥१३४॥

पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।

फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम्

॥१३५॥

पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।

निरूपितं सारभूतं देवीपादाम्बुजार्चनम्

॥१३६॥

तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।

तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च

॥१३७॥

तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च ।

सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति

॥१३८॥

भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् ।

गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे

॥१३९॥

अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् ।

सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः

॥१४०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां नवमस्कन्धे यमेन कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ३० ॥