मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय १६

3
नवमस्कन्धः · 16

महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्

श्रीनारायण उवाच

लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।

वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम्

॥१॥

महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः ।

पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ

॥२॥

कुशध्वजस्य पत्नी च देवी मालावती सती ।

सा सुषाव च कालेन कमलांशां सुतां सतीम्

॥३॥

सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह ।

कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात्

॥४॥

वेदध्वनिं सा चकार जातमात्रेण कन्यका ।

तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः

॥५॥

जातमात्रेण सुस्नाता जगाम तपसे वनम् ।

सर्वैर्निषिद्धा यत्नेन नारायणपरायणा

॥६॥

एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।

अत्युग्रां च तपस्यां च लीलया हि चकार सा

॥७॥

तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता ।

सुश्राव सा च सहसा सुवाचमशरीरिणीम्

॥८॥

जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् ।

ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि

॥९॥

इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः ।

अतीव निर्जनस्थाने पर्वते गन्धमादने

॥१०॥

तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा ।

ददर्श पुरतस्तत्र रावणं दुर्निवारणम्

॥११॥

दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल ।

सुस्वादुभूतं च फलं जलं चापि सुशीतलम्

॥१२॥

तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः ।

चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे

॥१३॥

तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् ।

शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम्

॥१४॥

मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।

स करेण समाकृष्य शृङ्गारं कर्तुमुद्यतः

॥१५॥

सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह ।

स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः

॥१६॥

तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् ।

सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह

॥१७॥

सा शशाप मदर्थे त्वं विनंक्ष्यसि सबान्धवः ।

स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय

॥१८॥

इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।

गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ

॥१९॥

अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना ।

इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः

॥२०॥

सा च कालान्तरे साध्वी बभूव जनकात्मजा ।

सीतादेवीति विख्याता यदर्थे रावणो हतः

॥२१॥

महातपस्विनी सा च तपसा पूर्वजन्मतः ।

लेभे रामं च भर्तारं परिपूर्णतमं हरिम्

॥२२॥

सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् ।

सा रमा सुचिरं रेमे रामेण सह सुन्दरी

॥२३॥

जातिस्मरा न स्मरति तपसश्च क्लमं पुरा ।

सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले

॥२४॥

नानाप्रकारविभवं चकार सुचिरं सती ।

सम्प्राप्य सुकुमारं तमतीव नवयौवना

॥२५॥

गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् ।

स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम्

॥२६॥

पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः ।

जगाम काननं पश्चात्कालेन च बलीयसा

॥२७॥

तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।

ददर्श तत्र वह्निं च विप्ररूपधरं हरिः

॥२८॥

रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह ।

उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः

॥२९॥

द्विज उवाच

भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः ।

सीताहरणकालोऽयं तवैव समुपस्थितः

॥३०॥

दैवं च दुर्निवार्यं च न च दैवात्परो बली ।

जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना

॥३१॥

दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः ।

देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः

॥३२॥

रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।

स्वीकारं वचसश्चक्रे हृदयेन विदूयता

॥३३॥

वह्निर्योगेन सीताया मायासीतां चकार ह ।

तत्तुल्यगुणसर्वाङ्गां ददौ रामाय नारद

॥३४॥

सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च ।

लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा

॥३५॥

एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् ।

सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम्

॥३६॥

संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।

स्वयं जगाम तूर्णं तं विव्याध सायकेन च

॥३७॥

लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः ।

प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन्

॥३८॥

मृगदेहं परित्यज्य दिव्यरूपं विधाय च ।

रत्ननिर्माणयानेन वैकुण्ठं स जगाम ह

॥३९॥

वैकुण्ठलोकद्वार्यासीत्किङ्करो द्वारपालयोः ।

पुनर्जगाम तद्द्वारमादेशाद् द्वारपालयोः

॥४०॥

अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् ।

तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ

॥४१॥

गते च लक्ष्मणे रामं रावणो दुर्निवारणः ।

सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया

॥४२॥

विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् ।

तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः

॥४३॥

मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः ।

पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम्

॥४४॥

कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे ।

सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः

॥४५॥

लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च ।

कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह

॥४६॥

तां च वह्निपरीक्षां च कारयामास सत्वरम् ।

हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ

॥४७॥

उवाच छाया वह्निं च रामं च विनयान्विता ।

करिष्यामीति किमहं तदुपायं वदस्व मे

॥४८॥

श्रीरामाग्नी ऊचतुः

त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् ।

कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि

॥४९॥

सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।

दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह

॥५०॥

सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।

कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा

॥५१॥

कृते युगे वेदवती कुशध्वजसुता शुभा ।

त्रेतायां रामपत्नी च सीतेति जनकात्मजा

॥५२॥

तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।

त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये

॥५३॥

नारद उवाच

प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव ।

इति मच्चित्तसंदेहं भञ्ज संदेहभञ्जन

॥५४॥

श्रीनारायण उवाच

लङ्कायां वास्तवी सीता रामं सम्प्राप नारद ।

रूपयौवनसम्पन्ना छाया च बहुचिन्तया

॥५५॥

रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्करं परम् ।

कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः

॥५६॥

पतिं देहि पतिं देहि पतिं देहि त्रिलोचन ।

पतिं देहि पतिं देहि पञ्चवारं चकार सा

॥५७॥

शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः ।

प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ

॥५८॥

तेन सा पाण्डवानां च बभूव कामिनी प्रिया ।

इति ते कथितं सर्वं प्रस्तावं वास्तवं शृणु

॥५९॥

अथ सम्प्राप्य लङ्कायां सीतां रामो मनोहराम् ।

विभीषणाय तां लङ्कां दत्त्वायोध्यां ययौ पुनः

॥६०॥

एकादशसहस्राब्दं कृत्वा राज्यं च भारते ।

जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च

॥६१॥

कमलांशा वेदवती कमलायां विवेश सा ।

कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम्

॥६२॥

सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च ।

सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता

॥६३॥

धर्मध्वजसुताख्यानं निबोध कथयामि ते

॥६४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥