मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय ४

3
नवमस्कन्धः · 4

सरस्वतीस्तोत्रपूजाकवचादिवर्णनम्

नारद उवाच

श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् ।

अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम्

॥१॥

कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता ।

केन वा पूजिता का वा केन का वा स्तुता प्रभो

॥२॥

तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् ।

काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि

॥३॥

श्रीनारायण उवाच

गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।

सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता

॥४॥

आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः ।

सुधोपमं च चरितं सर्वमङ्गलकारणम्

॥५॥

प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।

सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय

॥६॥

काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका ।

तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा

॥७॥

संक्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् ।

जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम्

॥८॥

दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।

तद्वत्पश्चात्प्रवक्ष्यामि संक्षेपक्रमतः शृणु

॥९॥

आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।

यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः

॥१०॥

आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः ।

इयेष कृष्णं कामेन कामुकी कामरूपिणी

॥११॥

स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।

तामुवाच हितं सत्यं परिणामे सुखावहम्

॥१२॥

श्रीकृष्ण उवाच

भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।

युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम्

॥१३॥

कामज्ञं कामिनीनां च तासां च कामपूरकम् ।

कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम्

॥१४॥

कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।

त्वत्तो बलवती राधा न भद्रं ते भविष्यति

॥१५॥

यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः ।

कथं परान्साधयति यदि स्वयमनीश्वरः

॥१६॥

सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः ।

तेजसा मत्समा सा च रूपेण च गुणेन च

॥१७॥

प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।

प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन

॥१८॥

त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।

पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम्

॥१९॥

लोभमोहकामक्रोधमानहिंसाविवर्जिता ।

तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च

॥२०॥

तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति ।

गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि

॥२१॥

प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् ।

माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि

॥२२॥

मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।

वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः

॥२३॥

मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि ।

भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश

॥२४॥

कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।

जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च

॥२५॥

कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् ।

कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे

॥२६॥

पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।

इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम्

॥२७॥

ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः ।

अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः

॥२८॥

सर्वे देवाश्च मुनयो नृपाश्च मानवादयः ।

बभूव पूजिता नित्यं सर्वलोकैः सरस्वती

॥२९॥

नारद उवाच

पूजाविधानं कवचं ध्यानं चापि निरन्तरम् ।

पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम्

॥३०॥

वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।

वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम्

॥३१॥

श्रीनारायण उवाच

शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् ।

जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्

॥३२॥

माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च ।

पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः

॥३३॥

स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः ।

स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः

॥३४॥

गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् ।

ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम्

॥३५॥

ध्यात्वा पुनः षोडषोपचारेण पूजयेद् व्रती ।

पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम्

॥३६॥

वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् ।

नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम्

॥३७॥

इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु ।

स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्

॥३८॥

अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।

घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम्

॥३९॥

यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् ।

पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च

॥४०॥

परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ।

नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम्

॥४१॥

पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।

कालदेशोद्भवं चारु फलं शुक्लं च संस्कतम्

॥४२॥

सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् ।

नवीनं शुक्लवस्त्रं च शङ्खं च सुन्दरं मुने

॥४३॥

माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् ।

यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम्

॥४४॥

तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।

सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम्

॥४५॥

कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् ।

वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम्

॥४६॥

रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् ।

सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः

॥४७॥

वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः ।

एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः

॥४८॥

संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।

येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने

॥४९॥

विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने ।

सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः

॥५०॥

येषां येनोपदेशो वा तेषां स मूल एव च ।

सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च

॥५१॥

लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।

पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः

॥५२॥

प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।

भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि

॥५३॥

चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।

भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे

॥५४॥

आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ ।

विभाण्डको ददौ मेरौ ऋष्यशृङ्गाय धीमते

॥५५॥

शिवः कणादमुनये गौतमाय ददौ मुदा ।

सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च

॥५६॥

शेषः पाणिनये चैव भारद्वाजाय धीमते ।

ददौ शाकटायनाय सुतले बलिसंसदि

॥५७॥

चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् ।

यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत्

॥५८॥

कवचं शृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा ।

विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने

॥५९॥

भृगुरुवाच

ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।

सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित

॥६०॥

सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।

अयातयामं मन्त्राणां समूहसंयुतं परम्

॥६१॥

ब्रह्मोवाच

शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।

श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्

॥६२॥

उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।

रासेश्वरेण विभुना रासे वै रासमण्डले

॥६३॥

अतीव गोपनीयं च कल्पवृक्षसमं परम् ।

अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम्

॥६४॥

यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।

यद्धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः

॥६५॥

पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।

स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः

॥६६॥

कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।

ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम्

॥६७॥

धृत्वा वेदविभागं च पुराणान्यखिलानि च ।

चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम्

॥६८॥

शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।

यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः

॥६९॥

ऋष्यशृङ्गो भरद्वाजश्चास्तिको देवलस्तथा ।

जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः

॥७०॥

कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः ।

स्वयं छन्दश्च बृहती देवता शारदाम्बिका

॥७१॥

सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च ।

कवितासु च सर्वासु विनियोगः प्रकीर्तितः

॥७२॥

श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।

श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु

॥७३॥

ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।

ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु

॥७४॥

ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु ।

ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु

॥७५॥

ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तिं सदावतु ।

ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु

॥७६॥

ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु ।

ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु

॥७७॥

ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् ।

ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु

॥७८॥

ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु ।

ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु

॥७९॥

ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु ।

ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु

॥८०॥

ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा ।

सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु

॥८१॥

ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां सर्वदावतु ।

ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु

॥८२॥

ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु ।

ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु

॥८३॥

ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु ।

ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु

॥८४॥

ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु ।

ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु

॥८५॥

इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।

इदं विश्वजयं नाम कवचं ब्रह्मरूपकम्

॥८६॥

पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।

तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित्

॥८७॥

गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।

प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः

॥८८॥

पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।

यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत्

॥८९॥

महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।

शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः

॥९०॥

इदं च कण्वशाखोक्तं कवचं कथितं मुने ।

स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु

॥९१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सरस्वतीस्तोत्रपूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥