मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — नवमस्कन्धः, अध्याय २६

3
नवमस्कन्धः · 26

सावित्रीपूजाविधिकथनम्

नारद उवाच

तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् ।

ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि

॥१॥

पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः ।

केन वा पूजिता लोके प्रथमे कैश्च वा परे

॥२॥

श्रीनारायण उवाच

ब्रह्मणा वेदजननी प्रथमे पूजिता मुने ।

द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः

॥३॥

तदा चाश्वपतिर्भूपः पूजयामास भारते ।

तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च

॥४॥

नारद उवाच

को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता ।

सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे

॥५॥

श्रीनारायण उवाच

मद्रदेशे महाराजो बभूवाश्वपतिर्मुने ।

वैरिणां बलहर्ता च मित्राणां दुःखनाशनः

॥६॥

आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी ।

मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः

॥७॥

सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः ।

चकाराराधनं भक्त्या सावित्र्याश्चैव नारद

॥८॥

प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् ।

गृहं जगाम दुःखार्ता हृदयेन विदूयता

॥९॥

राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै ।

सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा

॥१०॥

तपश्चकार तत्रैव संयतः शतवत्सरम् ।

न ददर्श च सावित्र्या प्रत्यादेशो बभूव च

॥११॥

शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् ।

गायत्र्या दशलक्षं च जपं त्वं कुरु नारद

॥१२॥

एतस्मिन्नन्तरे तत्र आजगाम पराशरः ।

प्रणनाम ततस्तं च मुनिर्नृपमुवाच च

॥१३॥

मुनिरुवाच

सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् ।

दशवारं जपेनैव नश्येत्पापं दिवानिशम्

॥१४॥

शतवारं जपश्चैव पापं मासार्जितं हरेत् ।

सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम्

॥१५॥

लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् ।

सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति

॥१६॥

करोति मुक्तिं विप्राणां जपो दशगुणस्ततः ।

करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम्

॥१७॥

आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः ।

अनामिकामध्यदेशादधोऽवामक्रमेण च

॥१८॥

तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे ।

श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम्

॥१९॥

कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये ।

संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः

॥२०॥

कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः ।

गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम्

॥२१॥

अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् ।

अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम्

॥२२॥

एवं क्रमेण राजर्षे दशलक्षं जपं कुरु ।

साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात्

॥२३॥

नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने ।

मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा

॥२४॥

सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।

यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्

॥२५॥

नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ।

स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः

॥२६॥

यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च ।

स च सूर्यसमो विप्रस्तेजसा तपसा सदा

॥२७॥

तत्पादपद्मरजसा सद्यःपूता वसुन्धरा ।

जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः

॥२८॥

तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः ।

ततः पापानि यान्त्येव वैनतेयादिवोरगाः

॥२९॥

न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् ।

स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च

॥३०॥

मूलप्रकृत्यभक्तो यस्तन्मन्त्रस्याप्यनर्चकः ।

तदुत्सवविहीनश्च विषहीनो यथोरगः

॥३१॥

विष्णुमन्त्रविहीनश्च त्रिसन्ध्यारहितो द्विजः ।

एकादशीविहीनश्च विषहीनो यथोरगः

॥३२॥

हरेरनैवेद्यभोजी धावको वृषवाहकः ।

शूद्रान्नभोजी यो विप्रो विषहीनो यथोरगः

॥३३॥

शूद्राणां शवदाही यः स विप्रो वृषलीपतिः ।

शूद्राणां सूपकारश्च विषहीनो यथोरगः

॥३४॥

शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः ।

मसिजीवी असिजीवी विषहीनो यथोरगः

॥३५॥

यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी ।

यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः

॥३६॥

भगजीवी बार्धुषिको विषहीनो यथोरगः ।

यो विद्याविकयी विप्रो विषहीनो यथोरगः

॥३७॥

सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः ।

शिवापूजादिरहितो विषहीनो यथोरगः

॥३८॥

इत्युक्त्वा च मुनिश्रेष्ठः सर्वपूजाविधिक्रमम् ।

तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम्

॥३९॥

दत्त्वा सर्वं नृपेन्द्राय ययौ च स्वाश्रमे मुने ।

राजा संपूज्य सावित्रीं ददर्श वरमाप च

॥४०॥

नारद उवाच

किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम् ।

स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः

॥४१॥

नृपः केन विधानेन संपूज्य श्रुतिमातरम् ।

वरं च कं वा सम्प्राप सम्पूज्य तु विधानतः

॥४२॥

तत्सर्वं श्रोतुमिच्छामि सावित्र्याः परमं महत् ।

रहस्यातिरहस्यं च श्रुतिसिद्धं समासतः

॥४३॥

श्रीनारायण उवाच

ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्नतः ।

व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत्

॥४४॥

व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम् ।

दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत्

॥४५॥

वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् ।

संस्थाप्य मङ्गलघटं फलशाखासमन्वितम्

॥४६॥

गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।

सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः

॥४७॥

शृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् ।

स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम्

॥४८॥

तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा ।

ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम्

॥४९॥

ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ।

वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम्

॥५०॥

सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः ।

सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम्

॥५१॥

वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् ।

वेदबीजस्वरूपां च भजे तां वेदमातरम्

॥५२॥

ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि ।

पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद् व्रती

॥५३॥

दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् ।

सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः

॥५४॥

आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् ।

धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम्

॥५५॥

वसनं भूषणं माल्यं गन्धमाचमनीयकम् ।

मनोहरं सुतल्पं च देयान्येतानि षोडश

॥५६॥

दारुसारविकारं च हेमादिनिर्मितं च वा ।

देवाधारं पुण्यदं च मया तुभ्यं निवेदितम्

॥५७॥

तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् ।

पूजाङ्गभूतं शुद्धं च मया तुभ्यं निवेदितम्

॥५८॥

पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् ।

पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम्

॥५९॥

सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् ।

मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम्

॥६०॥

गन्धद्रव्योद्भवं पुण्यं प्रीतिदं दिव्यगन्धदम् ।

मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके

॥६१॥

सर्वमङ्गलरूपं च सर्वं च मङ्गलप्रदम् ।

पुण्यदं च सुधूपं तं गृहाण परमेश्वरि

॥६२॥

सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् ।

जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम्

॥६३॥

अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् ।

तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम्

॥६४॥

पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् ।

ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम्

॥६५॥

तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् ।

सुशीतलं वारि शीतं पिपासानाशकारणम्

॥६६॥

जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् ।

देहशोभास्वरूपं च सभाशोभाविवर्धनम्

॥६७॥

कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् ।

काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा

॥६८॥

सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् ।

नानावृक्षसमुद्भूतं नानारूपसमन्वितम्

॥६९॥

फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् ।

सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम्

॥७०॥

नानापुष्पविनिर्माणं बहुशोभासमन्वितम् ।

प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम्

॥७१॥

पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् ।

सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम्

॥७२॥

भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् ।

विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम्

॥७३॥

पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् ।

द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः

॥७४॥

ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् ।

सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च

॥७५॥

लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः ।

माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम्

॥७६॥

विप्रजीवनरूपं च निबोध कथयामि ते ।

कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा

॥७७॥

नायाति सा तेन सार्धं ब्रह्मलोके च नारद ।

ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम्

॥७८॥

तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् ।

ब्रह्मोवाव सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि

॥७९॥

हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि ।

तेजःस्वरूपे परमे परमानन्दरूपिणि

॥८०॥

द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि ।

नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि

॥८१॥

सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि ।

सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे

॥८२॥

सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि ।

विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे

॥८३॥

बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि ।

कायेन मनसा वाचा यत्पापं कुरुते नरः

॥८४॥

तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति ।

इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि

॥८५॥

सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा ।

अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः

॥८६॥

ददर्श तां च सावित्रीं वरं प्राप मनोगतम् ।

स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् ।

पाठे चतुर्णां वेदानां यत्फलं लभते च तत्

॥८७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां नवमस्कन्धे सावित्रीपूजाविधिकथनं नाम षड्विंशोऽध्यायः ॥ २६ ॥