लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम्
श्रीनारायण उवाच
सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके ।
गङ्गाशापेन कलहात्कलया भारते सरित्
॥१॥पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी ।
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने
॥२॥तपस्विनां तपोरूपा तपसः फलरूपिणी ।
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी
॥३॥ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि ।
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि
॥४॥भारते कृतपापश्च स्नात्वा तत्र च लीलया ।
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम्
॥५॥चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये ।
व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च
॥६॥अनुषङ्गेण यः स्नातो हेतुना श्रद्धयापि वा ।
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि
॥७॥सरस्वतीमनुं तत्र मासमेकं च यो जपेत् ।
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः
॥८॥नित्यं सरस्वतीतोये यः स्नायान्मुण्डयन्नरः ।
न गर्भवासं कुरुते पुनरेव स मानवः
॥९॥इत्येवं कथितं किञ्चिद्भारतीगुणकीर्तनम् ।
सुखदं कामदं सारं भूयः किं श्रोतुमिच्छसि
॥१०॥सूत उवाच
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ।
पुनः पप्रच्छ सन्देहमिमं शौनक सत्वरम्
॥११॥नारद उवाच
कथं सरस्वती देवी गङ्गाशापेन भारते ।
कलया कलहेनैव बभूव पुण्यदा सरित्
॥१२॥श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम ।
कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते
॥१३॥कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ।
सा तु सत्त्वस्वरूपा या पुण्यदा शुभदा सदा
॥१४॥तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ।
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि
॥१५॥श्रीनारायण उवाच
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ।
यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते
॥१६॥लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि ।
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ
॥१७॥चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् ।
सस्मिता च सकामा च सकटाक्षं पुनः पुनः
॥१८॥विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा ।
क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती
॥१९॥बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता ।
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह
॥२०॥उवाच वाणी भर्तारं रक्तास्या रक्तलोचना ।
कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा
॥२१॥सरस्वत्युवाच
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति ।
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च
॥२२॥ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर ।
कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो
॥२३॥गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता ।
क्षमां चकार तेनेदं विपरीतं हरिप्रिया
॥२४॥किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ।
निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता
॥२५॥त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः ।
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव
॥२६॥सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ।
मनसा च समालोच्य स जगाम बहिः सभाम्
॥२७॥गते नारायणे गङ्गामुवाच निर्भयं रुषा ।
वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम्
॥२८॥हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् ।
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि
॥२९॥मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ ।
किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे
॥३०॥इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता ।
वारयामास तां पद्मा मध्यदेशं समाश्रिता
॥३१॥शशाप वाणी तां पद्मां महाबलवती सती ।
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः
॥३२॥विपरीतं ततो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि ।
सन्तिष्ठति सभामध्ये यथा वृक्षो यथा सरित्
॥३३॥शापं श्रुत्वा तु सा देवी न शशाप चुकोप ह ।
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च
॥३४॥असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् ।
उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम्
॥३५॥गङ्गोवाच
त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति ।
दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी
॥३६॥वागधिष्ठात्री देवीयं सततं कलहप्रिया ।
यावती योग्यता चास्या यावती शक्तिरेव च
॥३७॥तथा करोतु वादं च मया सार्धं च दुर्मुखी ।
स्वबलं यन्मम बलं विज्ञापयितुमिच्छति
॥३८॥जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति ।
इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति
॥३९॥सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह ।
अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः
॥४०॥कलौ तेषां च पापानि ग्रहीष्यति न संशयः ।
इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती
॥४१॥त्वमेव यास्यसि महीं पापिपापं लभिष्यसि ।
एतस्मिन्नन्तरे तत्र भगवानाजगाम ह
॥४२॥चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः ।
सरस्वतीं करे धृत्वा वासयामास वक्षसि
॥४३॥बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् ।
श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च
॥४४॥उवाच दुःखितास्ताश्च वाचं सामयिकीं विभुः ।
श्रीभगवानुवाच ।
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे
॥४५॥अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि ।
तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि
॥४६॥मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी ।
भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः
॥४७॥त्रैलोक्यपावनी नाम्ना तुलसीति च भारते ।
कलया च सरिद्भावं शीघ्रं गच्छ वरानने
॥४८॥भारतं भारतीशापान्नाम्ना पद्मावती भव ।
गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी
॥४९॥भारतं भारतीशापात्पापदाहाय पापिनाम् ।
भगीरथस्य तपसा तेन नीता सुकल्पिते
॥५०॥नाम्ना भागीरथी पूता भविष्यसि महीतले ।
मदंशस्य समुद्रस्य जाया जायेर्ममाज्ञया
॥५१॥मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि ।
गङ्गाशापेन कलया भारतं गच्छ भारति
॥५२॥कलहस्य फलं भुंक्ष्व सपत्नीभ्यां सहाच्युते ।
स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव
॥५३॥गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु ।
शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी
॥५४॥महासाध्वी महाभागा सुशीला धर्मचारिणी ।
यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः
॥५५॥शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु पूजिताः ।
तिस्रो भार्यास्त्रिशीलाश्च त्रयो भृत्याश्च बान्धवाः
॥५६॥ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः ।
स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान्
॥५७॥निष्फलं च जन्म तेषामशुभं च पदे पदे ।
मुखे दुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया
॥५८॥अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् ।
जलानां च स्थलानां च फलानां प्राप्तिरेव च
॥५९॥सततं सुलभा तत्र न तेषां गृह एव च ।
वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम्
॥६०॥ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् ।
व्याधिज्वाला विषज्वाला वरं पुंसां वरानने
॥६१॥दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ।
पुंसां च स्त्रीजितां चैव भस्मान्तं शौचमध्रुवम्
॥६२॥यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत् ।
निन्दितोऽत्र परत्रैव सर्वत्र नरकं व्रजेत्
॥६३॥यशःकीर्तिविहीनो यो जीवन्नपि मृतो हि सः ।
बह्वीनां च सपत्नीनां नैकत्र श्रेयसे स्थितिः
॥६४॥एकभार्यः सुखी नैव बहुभार्यः कदाचन ।
गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति
॥६५॥अत्र तिष्ठतु मद्गेहे सुशीला कमलालया ।
सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता
॥६६॥इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च ।
पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ।
जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव च
॥६७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥