नानाकर्मविपाकफलकथनम्
धर्मराज उवाच
देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् ।
शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा
॥१॥पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते ।
स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम्
॥२॥शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् ।
तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः
॥३॥पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता ।
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि
॥४॥वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे ।
तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु
॥५॥यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ।
पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम्
॥६॥शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ।
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम्
॥७॥पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः ।
महावेश्याकामुकश्च ततो दशगुणं वसेत्
॥८॥तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः ।
तित्तिरिः कुलटागामी धृष्टागामी च वायसः
॥९॥कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः ।
पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते
॥१०॥महावेश्याप्रगामी च जायते शाल्मलीतरुः ।
यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः
॥११॥अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च ।
ततो भवेन्मानवश्चाप्युदरे रोगपीडितः
॥१२॥गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः ।
वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च
॥१३॥स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् ।
तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम्
॥१४॥निवसेच्छरशय्यायां मम दूतेन ताडितः ।
भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम्
॥१५॥स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् ।
स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु
॥१६॥ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः ।
करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः
॥१७॥प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च ।
प्रकोपवदना कोपात् स्वामिनं या च पश्यति
॥१८॥कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि ।
उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः
॥१९॥दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् ।
ततो भवेन्मानवी च विधवा सप्तजन्मसु
॥२०॥सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः ।
या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा
॥२१॥तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् ।
निवसेदतिसन्तप्ता मम दूतेन ताडिता
॥२२॥शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश ।
काकी जन्मसहस्राणि शतजन्मानि सूकरी
॥२३॥शृगाली शतजन्मानि शतजन्मानि कुक्कुटी ।
पारावती सप्तजन्म वानरी सप्तजन्मसु
॥२४॥ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते ।
ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली
॥२५॥ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः ।
निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने
॥२६॥जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके ।
स्वैरिणी दलने चैव धृष्टा च शोषणे तथा
॥२७॥निवसेद्यातनायुक्ता मम दूतेन ताडिता ।
विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति
॥२८॥ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः ।
ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः
॥२९॥वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि ।
सवर्णपरदारैश्च कषायं यान्ति ते जनाः
॥३०॥भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् ।
ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः
॥३१॥योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः ।
क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते
॥३२॥मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् ।
शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः
॥३३॥प्रतप्तमूत्रभोजी च मम दूतेन ताडितः ।
तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश
॥३४॥सप्तजन्म वराहश्च छागलश्च ततः शुचिः ।
करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत्
॥३५॥मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् ।
गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत्
॥३६॥शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् ।
दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत्
॥३७॥स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् ।
आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः
॥३८॥न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् ।
मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः
॥३९॥मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् ।
एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश
॥४०॥तथाङ्गारप्रदग्धाश्च मम दूतेन ताडिताः ।
चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः
॥४१॥म्लेच्छो गङ्गाजलस्पर्शी पञ्चजन्म ततः शुचिः ।
शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि
॥४२॥अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि ।
दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु
॥४३॥ततो भवेद् ब्रह्महीनो मानवश्च ततः शुचिः ।
मिथ्यावादी देवगृहे देवलः सप्तजन्मसु
॥४४॥विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद् ध्रुवम् ।
ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि
॥४५॥भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः ।
मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः
॥४६॥विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते ।
मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु
॥४७॥पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः ।
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः
॥४८॥यस्यानास्था वेदवाक्ये मन्दं हसति संततम् ।
व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः
॥४९॥धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः ।
जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च
॥५०॥ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः ।
यः करोत्युपहासं च देवब्राह्मणयोर्धने
॥५१॥पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् ।
सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम्
॥५२॥धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् ।
ततो मूषकजातिश्च सप्तजन्मसु भारते
॥५३॥ततो नानाविधाः पक्षिजातयः कृमिजातिभिः ।
ततो नानाविधा वृक्षा पशवश्च ततो नरः
॥५४॥विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः ।
लाक्षालोहादिव्यापारी रसादिविक्रयी च यः
॥५५॥स याति नागवेष्टं च नागैर्वेष्टितमेव च ।
वसेत्स लोममानाब्दं तत्रैव नागपाशितः
॥५६॥ततो नानाविधाः पक्षिजातयश्च ततो नरः ।
ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु
॥५७॥गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः ।
प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते
॥५८॥अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै ।
सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ।
भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि
॥५९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्मविपाकफलकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥